Page loading... Please wait.
6|1|160 - उञ्छादीनां च
॥ तस्मै पाणिनये नमः ॥
6|1|160
SK 3681
उञ्छादीनां च   🔊
सूत्रच्छेदः
उञ्छादीनाम् (षष्ठीबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उच्छ इत्येवम् आदीनाम् अन्त उदात्तो भवति। उञ्छः, म्लेच्छः, जञ्जः, जल्पः एते घञन्ताः इति ञित्स्वरः प्राप्तः। जपः, व्यधः इत्यबन्तौ, तयोर् धातुस्वरः प्राप्तः। केचित् तु वधः इति पठन्ति। युगः। युजेर् घञन्तस्य निपातनादगुणत्वं विशिष्टविषये च निपातनम् इदम् इष्यते। कालविशेषे रथाद्युपकरणे च युगशब्दस्य प्रयोगः अन्यत्र हि योगः एव भवति। गरो दूष्ये ऽबन्तः। गरशब्दो ऽबन्तः, स दूष्य एव अन्तोदात्तः। गरो विषम्। अन्यत्राद्युदात्त एव। वेदवेगवेष्टबन्धाः करणो। हलश्च 3|3|121 इति घञन्ता एते करणो ऽन्तोदात्ता भवन्ति। भावे आद्युदात्ता एव। स्तुयुद्रुवश्छन्दसि। उपसमस्तार्थम् एतत्। परिष्टुत्। संयुत्। परिद्रुत्। वर्तनिः स्तोत्रे। स्तोत्रं साम। तत्स्थो वर्तनिशब्दो ऽन्तोदात्तो भवति, अन्यत्र मध्योदात्तः। श्वभ्रे दरः। श्वभ्रे ऽभिधेये दरशब्दो ऽन्तोदत्तः, अन्यत्राबन्तत्वादाद्युदात्तः। साम्बतापौ भावगर्हायाम्। अन्तोदातौ अन्यत्राद्युदात्तौ। उत्तमशश्वत्तमौ सर्वत्र। केचित् तु भावगर्हायाम् इत्यत्र अपि अनुवर्तयन्ति। भक्षमन्थभोगदेहाः एते घञन्ताः। भक्षिर्ण्यन्तो ऽपि घञन्त एव, एरच् 3|3|56 अण्यन्तानाम् इति वचनात्।
`उञ्छः, म्लेच्छः, जञ्जः, जल्पः` इति। `उछि उञ्छे (धातुपाठः-295) `म्लेच्छ अव्यक्तायां वाचि` (धातुपाठः-1662), `जज जजि युद्धे` (धातुपाठः-242,243), `जप जल्प व्यक्तायां वाचि` (धातुपाठः-397,398)। जञ्जेः कुत्वाभावो निपातनात्। `जपो व्यध इत्यवन्तौ` इति। तत्र `व्यघजपोरनुपसर्गे` 3|3|61 इत्यबन्तत्वम्। बधशब्दो हि `हनश्च वधः` 3|3|76 इति। `तयोर्धातुसवरः प्राप्तः` इति। `धातोः` 6|1|156 इत्युदात्तत्वम्। `व्यधः` इति। `व्यध ताडने` (धातुपाठः-1181)। अत्रापि व्यधजपोरित्यबन्तत्वम्, पूर्ववद्धातुस्वरः प्राप्तः। `कालविशेषे` इति। कृतद्वापरादौ। `रथाद्युपकरणे च` इति। आदिशब्देन हलादेग्र्रहणम्। `गरः` इति। `गृ निगरणे` (धातुपाठः-1410)। `ऋदोरप्` 3|3|57 इत्यबन्तः। `विषम्` इत्यनेन दूष्यशब्दस्य विशेषे वृतिंत दर्शयति। `अन्यत्राद्युदात्त एव` इति। धातुस्वरेण। `वेदवेगवेष्टबन्धाः` इति। `विद ज्ञाने (धातुपाठः-1064) `विचिर्? पृथगभावे` (धातुपाठः-1442) `वेष्ट वेष्टने` (धायपा।255) `बन्ध बन्धने` (धातुपाठः-1508)। एभ्यो यथायोगं पर्याद्युपसर्गपूर्वेभ्यः क्विप्, प्रादसमासः। `अन्यत्र मध्योदात्तः` इति। वत्र्तनिशब्दो हि `अर्त्तिसृघृ` (द।उ।1।2) इत्यतोऽनिप्रत्ययेऽनुवत्र्तमाने `वृतेश्च` (द।3.1.6) इत्यनेन `वृतु वत्र्तने (धातुपाठः-758) इत्येतस्मादनिप्रत्ययमुत्पाद्य व्युत्पाद्यते। तस्मात्? प्रत्ययस्वरेण मध्योदात्तो भवति। `दरः` इति। `दृ विदारणे` (धातुपाठः-1493) ऋकारान्तत्वादबन्तः। `साम्बतापौ भावग्रर्हायाम्` इति। सहाम्बया वर्तत इति साम्बः, `बहुव्रीहौ प्रकृत्या पूर्वपदम्` 6|2|1 इति प्रकृतिस्वरेण सहशब्दस्य `निपाता आद्युदात्ताः` (फि।सू।4।80) इत्युदात्तत्वे प्राप्ते भावगर्हायामन्तोदात्तत्वं विधीयते। साम्बो भिक्षते। भिक्षणमत्र भावग्रर्हा। तपनं तापः `तप सन्तापे` (धातुपाठः-985) इत्यस्माद्घञ्। आद्युदात्तत्वे प्राप्ते वचनम्। तापो दस्यूनां धार्मिकेषु भावगर्हायामिति किम्? साम्बस्तिष्टति, तापो महान्? ग्रीष्मस्य। अनयोराद्युदात्तत्वमेव। `उत्तमशआत्तमौ` इति। एतौ तमप्प्रत्ययान्तो। पित्त्वात्? प्रत्ययस्यानुदात्तत्वे उच्छब्दस्य `निपाता आद्युदात्ताः` (फि।सू।4।80) इत्युदात्तत्वमित्यत आद्युदात्तत्वे प्राप्तेऽन्तोदात्तार्थमुत्तमशब्दः पठते। शआच्छब्दोऽपि प्रतिपदिकस्वरेणान्तोदात्तः, ततो मध्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थमेव पठते। `सर्वत्र` इति। भावगर्हायाम्, अन्यत्र च। `भक्ष--मन्थ` इत्यादि। `भक्ष भक्षणे` (धातुपाठः-1557), [भक्ष अदने--धातुपाठः-] `मन्थ विलोडने` (धातुपाठः-42) `भुजकौटिल्ये` (धातुपाठः-1417), [भुजो--धातुपाठः-] `दिह उपचये` (धातुपाठः-1015)। ननु भक्षिश्चुरादित्वाण्ण्यन्त इति तत्? `एरच्` 3|3|56 इत्यचा भवितव्यम्, तत्? कथमसौ घञन्तः? इत्याह--`भक्षिण्र्यन्तोऽपि` इत्यादि। अत्रैव कारणमाह--`एरजण्यन्तानाम्` इति॥
ठुच्छि उच्छेऽ, ठ्म्लेच्छ अव्यक्ते शब्देऽ। ठ्जजि युद्धेऽ, अत्र कुत्वाभावो निपातनात्, ठ्जल्प व्यक्तायां वाचिऽ ठ्व्यध ताडनेऽ, ठ्व्यधजपोरनुपसर्गेऽ इत्यप्। वध इति। ठ्हनश्च वधःऽ इत्यप्। कालविशेष इति। कतद्वापरादौ। ठ्घृ गृ निगरणेऽ, ठृदोरप्ऽ। विषमित्यनेन दूष्यशब्दस्य विशेष वृत्तिं दर्शयति। ठ्विद ज्ञानेऽ, ठोविजी भयचलनयोःऽ, ठ्वेष्ट वेष्टनेऽ, ठ्बन्ध बन्धनेऽ, ठ्ष्टुअञ् स्तुतौऽ, ठ्यु मिश्रणेऽ, ठ्द्रु गतौऽ। उपसमस्तार्थमेतदिति। केवलानां धातूनां क्विबन्तानां धातुस्वरेणैव सिद्धत्वात्। परिष्टुअदिति। सम्पदादित्वात्क्विप्, तेन प्रादिसमासः, ठ्पूर्वपदात्ऽ इति षत्वम्। अव्ययपूर्वपदप्रकृतिस्वरे प्राप्तेऽन्तोदातत्वम्। सोपपदातु क्विपि कृत्स्वरेणैव चसिद्धम्। अन्यत्र मध्योदात इति। स हि ठ्वृतु वर्तनेऽ इत्यस्मादिनिप्रत्ययेन व्युत्पाद्यते। ठ्दृ विदारणेऽ। साम्बतापौ भावगर्हायामिति। साम्बो भिक्षते, अम्बया सह भिक्षणं गर्हितम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरस्यापवादः। तापो दस्यूनाम्। धार्मिकेषु दस्युकर्तृकस्तापो गर्हितः। ठ्कर्षात्वतःऽ इत्येव सिद्धे भावगर्हाया अन्यात्राऽऽद्यौदातार्थं वचनम्। उतमशश्वतमाविति। तमबन्तावेतौ। द्रव्यप्रकर्षविवक्षायामामभावः, पित्वादनुदाते प्राप्ते पाठः। सर्वत्रेति। भावगर्हायाम्, अन्यत्र च। च्छन्दसि, भाषायां चेत्यन्ये। ठ्भक्ष अदनेऽ चुरादिः, ठ्मन्थ विलोडनेऽ, ठ्भुज कौटिल्येऽ, ठ्दिह उपचयेऽ। एरजण्यन्तानामिति। ये तु अनार्षमेतदचनमित्याहुः, तेषां भक्षशब्दस्य पाठे प्रयोजनं मृग्यम् ॥
सिद्धान्तकौमुदी
अन्त उदात्तः स्यात् । उञ्छादिषु युगशब्दो घञन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । वैश्वानरः कुशिकेभिर्युगेयुगे (वै॒श्वा॒न॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे) । अन्यत्र योगेयोगे तवस्तरम् (योगे॑योगे त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य तवस्तरम् (गावः॒ सोम॑स्य त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य प्रथमस्य भक्षः (गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः) । उत्तमशश्वत्तमावपि । उदुत्तमं वरुण (उदु॑त्त॒मं व॑रुण) । शश्वत्तममीलते (श॒श्व॒त्त॒ममी॑लते) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.