Page loading... Please wait.
6|1|159 - कर्षात्वतो घञोऽन्त उदात्तः
॥ तस्मै पाणिनये नमः ॥
6|1|159
SK 3680
कर्षात्वतो घञोऽन्त उदात्तः   🔊
सूत्रच्छेदः
कर्ष-आत्वतः (षष्ठ्येकवचनम्) , घञः (षष्ठ्येकवचनम्) , अन्तः (प्रथमैकवचनम्) , उदात्तः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कर्षतेर् धातोराकारवतश्च घञन्तस्यान्त उदात्तो भवति। कर्षः। पाकः। त्यागः। रागः। दायः। धायः। ञ्नित्यादिर्नित्यम् 6|1|197 इत्यस्य अपवादः। कर्षः इति विकृतनिर्देशः कृषतेर् निवृत्त्यर्थः। तौदादिकस्य घञन्तस्य कर्षः इत्याद्युदात्तः एव भवति।
`प्रस्कण्वहरिश्चन्द्रौ` इति। प्रकृष्टः कण्वोऽस्येति प्रसकण्वः। हरिश्चन्द्रोऽस्येति हरिश्चन्द्रः। व्युत्पत्तिमातरमेतत्? कृतम्, न त्वत्रावयवार्थोऽस्ति। रूढिशब्दौ ह्रेतौ प्रत्यस्तमितावयवार्थौ क्वचिदेव ऋषिविशेषे वर्तेते। ननु च हरिश्चन्द्रे `ह्यस्वाच्चन्द्रोत्तरपदे` 6|1|151 इत्यनेनैव सुट्? सिद्धः, तत्किमर्थं हरिश्चन्द्रग्रहणम्? इत्यत आह--`हरिश्चन्द्रग्रहणम्` इत्यादि। `प्रकण्वः` इति। प्रगतः कण्वोऽस्मादिति प्रकण्वः। हरिरिव चन्द्रोऽस्येति हरिचन्द्रः॥
आदस्यास्तीत्यात्वान्, ठ्तसौ मत्वर्थेऽ इति भसंज्ञा, कर्षश्चात्वांश्चेति समाहारद्वन्द्वः। विकृतनिर्देश इति। विकरणान्तस्येदमनुकरणम्, न तु घञन्तनिर्देश इति भावः। अथ किमर्थो मतुब्निर्देशः, यावता न क्वचिदप्याकारात्परो घञस्तीति सामर्थ्यातद्वतो ग्रहणं भविष्यति? उच्यते; घञाक्षिप्तो धातुरात इत्यनेन विशेष्येत, तत्र तदन्तविधौ ज्ञायमाने आनन्तर्यस्यासम्भवाद्विधानं विशेष्येत--आकारान्ताद्यो विहित इति, ततश्च दाय इत्यादावेव स्यात्, पाक इत्यादौ तु न स्यात्; मतुब्निर्द्देशातु सर्वत्र भवतीति। लाक्षणिकस्याप्यात्वतो ग्रहणमिष्यते; वृषादिषु कामपामपदानां पाठात्। ठलोऽन्त्यस्यऽ इत्येव सिद्धेऽन्तग्रहणमुतरार्थम् ॥
सिद्धान्तकौमुदी
कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तः स्यात् । कर्षः । शपा निर्देशात्तुदादेराद्युदात्त एव । कर्षः । पाकः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कर्षात्वतो घञ्ञोऽन्त उदात्तः ( 2596) (विकृतग्रहणप्रयोजनभाष्यम्) किमर्थं कृषेर्विकृतस्य ग्रहणं क्रियते न कृषात्वतः इत्येवोच्येत ? यस्य कृषेर्विकरण एतद्रूपं तस्य यथा स्यात् । इह मा भूत् ‐ - हलस्य कर्षः इति ।। (मतुबन्तग्रहणप्रयोजनभाष्यम्) अथ किमर्थं मतुपा निर्देशः क्रियते, न कर्षातः इत्येवोच्येत ? कर्षातः इतीयत्युच्यमाने यत्रैवाकारादनन्तरो घञ्ञस्ति तत्रैव यथा स्यात् । दायः, धायः । इह न स्यात् ‐ - पाकः, पाठः ।। न क्वचिदाकारादनन्तरो घञ्ञस्ति । इहापिदायः, धायः ‐ - इति युका व्यधानम् ।। एवमपि विहितविशेषणमाकारग्रहणं विज्ञायेत ‐ आकाराद्यो विहित इति । मतुब्ग्रहणे पुनः क्रियमाणे न दोषो भवति ।।