Page loading... Please wait.
6|1|148 - वर्चस्केऽवस्करः
॥ तस्मै पाणिनये नमः ॥
6|1|148
SK 1063
वर्चस्केऽवस्करः   🔊
सूत्रच्छेदः
वर्चस्के (सप्तम्येकवचनम्) , अवस्करः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72 सुट्कात्पूर्वः  6|1|135
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कुत्सितं वर्चः वर्चस्कम् अन्नमलम्, तस्मिन्नभिधेये ऽवस्करः इति निपात्यते। अवपूर्वस्य किरतेः कर्मणि ऋदोरप् 3|3|57 इत्यप्, निपातनाप् सुट्। अवकीर्यते इत्यवस्करो ऽन्नमलम्, तत्सम्बन्धात् देशो ऽपि तथा उच्यते। वर्चस्के इति किम्? अवकरः।
Text Unavailable. Please use feedback link below to provide the text if you have.
कुत्सितं वर्चो वर्चस्कम्, ठ्कुत्सितेऽ इति कन्, ठ्सोऽपदादौऽ इति सत्वम्। कना निर्द्देशो दीप्तौ मा भूदिति, दीप्तावपि हि वर्चःशब्दो वर्तते। अन्नमलमिति। भाण्डेषु यल्लग्नं काष्ठादिनाऽपकृष्य काकादिभ्यो विकीर्यते तदन्नमलम्। अवकीर्यत इति। भूमाववक्षिप्यत इत्यर्थः। तत्सम्बन्धाद् देशोपीति। यत्र भाण्डानि परिमृज्यन्ते देशे स देशः। तथा च याज्ञवल्कयः--- ठ्सम्मार्जितावस्करया व्यये चामुक्तहस्तयाऽ इति। अपर आह--पुरीषं वर्चस्कं तद्देशश्चेति। अवकर इति। ब्रह्मचारिणः स्त्रियां रेतः सेकौअवकरः, यतोऽवकीर्णो भवति ॥
सिद्धान्तकौमुदी
कुत्सितं वर्चो वर्चस्कम्, अन्नमलं तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । वर्चस्के किम् । अवकरः ॥
वर्चस्केऽवस्करः - वर्चस्केऽवस्करः ।मूत्रं प्ररुआआव उच्चारावस्करौ शमलं शकृत् । गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रिया॑मित्यमरः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.