Page loading... Please wait.
6|1|145 - गोष्पदं सेवितासेवितप्रमाणेषु
॥ तस्मै पाणिनये नमः ॥
6|1|145
SK 1060
गोष्पदं सेवितासेवितप्रमाणेषु   🔊
सूत्रच्छेदः
गोष्पदम् (प्रथमैकवचनम्) , सेवित-असेवित-प्रमाणेषु (सप्तमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72 सुट्कात्पूर्वः  6|1|135
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गोष्पदम् इति सुट् निपात्यते, तस्य च षत्वं सेविते असेविते प्रमाने च विषये। गोष्पदो देशः। गावः पद्यन्ते यस्मिन् देशे स गोभिः सेवितो देशो गोष्पदः इत्युच्यते। असेविते अगोष्पदान्यरण्यानि। असेविते गोष्पदशब्दो न सम्भवति इत्यगोष्पदशब्दार्थं निपातनम्। यद्येवं न अर्थ एतेन, गोष्पदप्रतिषेधादगोष्पदं भविस्यति? सत्यम् एतत्, यत्र तु सेवितप्रसङ्गो ऽस्ति तत्र एव स्यादगोष्पदम् इति, यत्र त्वत्यन्तासम्भव एव तत्र न स्यात्, अगोष्पदान्यरण्यानि इति? असेवितग्रहणात् तत्र अपि भवति। यानि हि महान्त्यरणानि येषु गवाम् अत्यन्तासम्भवस् तान्येवम् उच्यन्ते। प्रमाणे गोस्पदमात्रं क्षेत्रम्। गोष्पदपूरं वृष्टो देवः। न अत्र गोष्पदं स्वार्थप्रतिपादनार्थम् उपादीयते, किं तर्हि, क्षेत्रस्य वृष्टेश्च परिच्छेत्तुमियत्ताम्। सेवितासेवितप्रमाणेसु इति किम्? गोः पदम् गोपदम्।
`तस्य च षत्वम्` इति। अनादेशप्रत्ययसकारत्वात्? सुटः षत्वं न प्राप्नोतीत्यतस्तदपि निपात्यते। `गावः पद्यन्ते` इत्यादिना देशस्य सेवितत्वं दर्शयति। `असेविते` इत्यादि। ननु च गोष्पदशब्दः सूत्र उपात्तः, तत्? कस्मादसेवितेऽगोष्पदादीनीत्याद्युदाह्यियते? इत्याह--`असेविते` इत्यादि। ननु च गोष्पदशब्दः सूत्र उपातः, तत्? कस्मादसेवितेऽगोष्पदादीनीत्याद्युदाह्यियते? इत्याह--`असेविते` इत्यादि। क्रियते चेदमसेवितग्रहणम्, न च तत्र गोष्पदशब्दः सम्भवति; तस्मादसेवितेऽगोष्पदार्थं निपातनं विज्ञायते। `यद्येवम्` इति। यद्यसेवितेऽगोष्पदार्थं निपातनमित्यर्थः। `नार्थ एतेन` इति। असेवितग्रहणेन। कथं तेन विना सिध्यति? इत्याह--`गोष्पदप्रतिषेधात्`त्यादि। `सत्यमेवैतत्` इति। गोष्पदपरतिषेधादित्यादि यदुक्तं तस्य सत्यतामाह, न तु `नार्थं एतेन` इत्यस्यार्थः। यदि तर्हि सत्यमेवैतत्` तत्? किमर्थं सेवितग्रहणमिह क्रियते? इत्याह--`यत्र तु` इत्यादि। नञ्समासेऽगोष्पद इत्येष तत्पुरुषः स्वभावादुत्तरपदर्थसदृशमर्थमाचष्टे` अब्राआहृणवत्। ततश्च न गोष्पदमगोष्पदमिति तत्पुरुषे कृते यत्र सेवितसय सेवनस्य प्रसङ्गोऽस्ति तत्रैवागोष्पदमित्येतत्? तथापि भवति` इति। अपिशब्दो न केवलं यत्र सेवतप्रसङ्गोऽस्ति तत्रैवागोष्पदमित्यमुमर्थं द्योतयति। कस्मात्? पुनरत्रासेवितग्रहणात्। तत्राऽपि भवतीत्यत आह--`यानि हि` इति। `एवम्` इति। असेवितग्रहणार्थकः प्रकारः प्रत्यवमृश्यते। असेवितग्रहणे हि सति मा भूत्? तस्य वैयथ्र्यमित बहुव्रीहिरयं भावसाधनेनासेवितशब्देन विज्ञास्यते। अविद्यमानं सेवितमस्मिन्निति बहुव्रीहिश्चात्यन्ताभावेऽपि भवतीति येषु गवामत्यन्तासम्भवस्तान्यरण्यान्यासेवितशब्देनोच्यन्ते। ततश्च तत्राप्यगोष्पदमिति भवति। `गोष्पदपूरम्` इति। `वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्` 3|4|32 इति णमुल्। ननु च गोष्पदमिति षष्ठीसमासोऽयम्, तस्य च गोसम्बन्धि पदमर्थः, न तु प्रमाणम्, तत्? कथं गोष्पदमात्रं क्षेत्रमित्यादि उदाहरणं प्रमाणे युज्यतदे? इत्यत आह--`नात्र` इत्यादि। न ह्रत्र स्वार्थप्रतिपादनार्थमेव गोष्पदमित्युपादीयते। किं तर्हि? क्षेत्रादेरियत्तां परिच्छेत्तुम्। तस्मात्? क्षेत्रादेरियत्ता तेन परिच्छिद्यते= प्रमीयत इति भवति प्रमाणम्। न चात्र प्रमाणशब्देनायाम उच्यते, किं तर्हि? परिच्छेदमात्रम्। कुत एतत्? निपातनसामथ्र्यात्। निपातनं हि वस्त्वप्रसिद्धमप्युपादत्ते॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
सुट् सस्य षत्वं च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते, अगोष्पदान्यरण्यानि । प्रमाणे, गोष्पदमात्रं क्षेत्रम् । सेवितेत्यादि किम् । गोः पदं गोपदम् ॥
विष्किरः शकुनौ (विकरो) वा - विष्किरः । विकिरतीति विकारः । "कृ विक्षेपे"इगुपधज्ञे॑ति कः । शकुनौ गम्ये सुड्वा, "परिनिविभ्यः" इति षत्वम् ।नगौकोवाजिविकिरविविष्करपतत्रयः॑ इत्यमरः । वावचनेनैवेति । वृत्तिग्रन्थेविष्किरः शकुनौ विकिरो वे॑ति सूत्रपाठः । तत्र वाग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणं विष्किरो विकिर इति शकुनावेवेति नियमार्थम् । अतः शकुनेरन्यत्र उभयोरपि शब्दयोः प्रयोगो नास्तीति लभ्यत इत्यर्थः । भाष्ये हिविष्किरः शकुनौ वे॑ति सूत्रं पठित्वा वाग्रहणेन सुड्विकल्पः, नतु शकुनेरन्यत्र विकिरशब्दस्य प्रयोगो नेति स्थितम्, अन्यत्रापिविकिपरं वैआदेविक॑मित्यत्र दर्शनादिति भावः ।
विष्किरः शकुनौ (विकरो) वा - विष्किरः ।कृ विक्षेपे॑इत्यस्मात्इगुपधे॑त्यादिना कप्रत्यये सुडागमोऽनेन निपात्यते । षत्वं तुपरिनिविभ्यः॑ इत्यनेन । विकिरग्रहणमिति ।विष्किरः शकुनौ विकिरो वा॑इति वृत्तिग्रन्थे पाठः, सूत्रपाठे तु विकिरग्रहणं नास्त्येवेति बोध्यम् । तस्यापीति । विकिरशब्दस्यापीत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
गोष्पदं सेवितासेवितप्रमाणेषु (2581) (असेवितपदप्रयोजनभाष्यम्) इदमतिबहु क्रियते ‐ - सेविते ‐ - असेविते ‐ - प्रमाण इति, सेवितप्रमाणयोरित्येव सिद्धम् । केनेदानीमसेविते भविष्यति ? नञ्ञा सेवितप्रतिषेधं विज्ञास्यामः ।। नैवं शक्यम् । सेवितप्रसङ्ग एव स्यात्, असेविते न स्यात् । असेवितग्रहणे पुनः क्रियमाणे बहुव्रीहिरयं विज्ञास्यते ‐ - अविद्यमानसेविते ‐ - असेवित इति । तस्मादसेवितग्रहणं कर्तव्यम् ।।