Page loading... Please wait.
6|1|141 - हिंसायां प्रतेश्च
॥ तस्मै पाणिनये नमः ॥
6|1|141
SK 2540
हिंसायां प्रतेश्च   🔊
सूत्रच्छेदः
हिंसायाम् (सप्तम्येकवचनम्) , प्रतेः (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72 सुट्कात्पूर्वः  6|1|135
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
किरतौ इत्येव। उपात् प्रतेश्च उत्तरस्मिन् किरतौ सुट् कात् पूर्वः भवति हिंसयां विषये। उपस्कीर्णं हं ते वृषल भूयात्। प्रतिस्कीर्णं हं ते वृषल भूयात्। तथा ते वृषल विक्षेपो भूयात् यथा हिंसामनुबध्नाति इत्यर्थः। हिंसायाम् इति किम्। प्रतिकीर्णम्।
`हिंसायां विषये` इति। एतेन किरतेर्नाभिधेयत्वेन हिंसा विशेषणम्। अपि तु तदर्थस्य विषयभावेनेति दर्शयति। `प्रतिस्कीर्णम्` इति। `ऋत इद्धातोः` 7|1|100 इतीत्त्वम्, रपरत्वञ्च, `रदाभ्याम्` 8|2|42 इत्यादिना निष्ठानत्वम्, `हलि च` 8|2|77 इती दीर्घत्वम्। `तथा` इत्यादिना किरतेरर्थस्य हिंसाविषयतां दर्शयति। `अनुबध्नाति` इति। अनुगच्छतीत्यर्थः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
उपात्प्रेतश्च किरतेः सुट् स्याद्धिंसायाम् । उपस्किरति । प्रतिस्किरति । 1411 गॄ निगरणे
हिंसायां प्रतेश्च - हिंसायां प्रतेश्च । चकारादुपादिति समुच्चीयते । तदाह - उपादिति । गृ निगरणे इति । निगरणं - भक्षणम् । सेट् ।
हिंसायां प्रतेश्च - हिंसायां प्रतेश्च । चादुपात् ।उरोविदारं प्रतिचस्करे नखै॑रिति माघः । कर्मणि लिट् ।ऋच्छत्यृता॑मिति गुणः ।
लघुसिद्धान्तकौमुदी
उपात्प्रतेश्च किरतेः सुट् स्यात् हिंसायाम्। उपस्किरति। प्रतिस्किरति॥ गॄ निगरणे॥ 40॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.