Page loading... Please wait.
6|1|140 - किरतौ लवने
॥ तस्मै पाणिनये नमः ॥
6|1|140
SK 2539
किरतौ लवने   🔊
सूत्रच्छेदः
किरतौ (सप्तम्येकवचनम्) , लवने (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72 सुट्कात्पूर्वः  6|1|135
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उपातित्येव। उपादुत्तरस्मिन् किरतौ धातौ लवनविषये सुत् कत् पूर्वः भवति। उपस्कारं मद्रका लुनन्ति। उपस्कारं काश्मीरका लुनन्ति। विक्षिप्य लुनन्ति इत्यर्थः। णमुलत्र वक्तव्यः। लवने इति किम्? उपकिरति देवदत्तः।
`लवनविषये` इत्यादि। अनेन लवनं किरतेर्नाभिधेयतया विशेषणम्, अपि तु तदर्थस्य विषयभावनेति दर्शयति। केन पुनरत्र णमुल्, यावता `आभीक्ष्ण्ये णमुल्? च` 3|4|22 इत्यादिना शास्त्रेण स आभीक्ष्ण्यादावप्यर्थे विधीयते। न चात्र सोऽर्तो विवक्षितः, नापि प्रतीयत इत्याह--`णमुलत्र` इत्यादि। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेव व्याख्यानम्--`कृत्यल्युटो बहुलम्? 3|3|113 इत्यतो बहुलवचनात्? भविष्यति॥
किरतौ लवनविषय इति। अर्थद्वारकं किरतेर्लवनविषयत्वम्, लवनविषये विक्षेपे यः किरतिर्वर्तते तत्रेत्यर्थः। तदाह--विक्षिप्य लुनन्तीत्यर्थ इति। साक्षातु विषये किरतेर्लवनमेवार्थः स्यात्। णमुलत्र वक्तव्य इति। आभीक्षण्यादेर्णमुलर्थस्याभावात् ॥ हिसायां प्रतेश्च ॥ हिसायां विषय इति। न त्वभिधेयायाम्। विक्षेप एव त्वभिधेयः, तदेव दर्शयति--तथेति। उदाहरणे नपुंसके भावे क्तः, हंशब्द कोपे। परिनिविभ्य एव सुटः षत्वम्, न प्रतेः ॥
सिद्धान्तकौमुदी
उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे । उपस्किरति ॥अडभ्यासव्यवायेऽपि सुट् कात्पूर्व इति वक्तव्यम् (वार्तिकम्) ॥ उपास्किरत् । उपचस्कार ॥
किरतौ लवने - किरतौ लवने । उपादिति । "उपात्प्रतियत्ने" इत्यतस्तदनुवृत्तेरिति भावः । सुडागम इति । "सुट कात्पूर्व" इत्यस्तदनुवृत्तेरिति भाव- । अडभ्यासव्यवायेऽपीति वार्तिकम् । "सुट् कात्पूर्वः" इत्यनुवृत्तिलभ्यम् ।
किरतौ लवने - किरतौ लवने ।उपात्प्रतियत्ने॑ति सूतरादुपादिति वर्तते । लवने किम् । उपकिरति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.