Page loading... Please wait.
6|1|139 - उपात्‌ प्रतियत्नवैकृतवाक्याध्याहारेषु
॥ तस्मै पाणिनये नमः ॥
6|1|139
SK 2552
उपात्‌ प्रतियत्नवैकृतवाक्याध्याहारेषु   🔊
सूत्रच्छेदः
उपात् (पञ्चम्येकवचनम्) , प्रतियत्न-वैकृत-वाक्याध्याहारेषु (सप्तमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72 सुट्कात्पूर्वः  6|1|135
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सतो गुणान्तराधानमाधिक्याय वृद्धस्य वा तादवस्थ्याय समीहा प्रतियत्नः। विकृतम् एव वैकृतम्। प्रज्ञादित्वादण्। गम्यमानार्थस्य वाक्यस्य स्वरूपेण उपादानं वाक्यस्य अध्याहारः। एतेष्वर्थेषु गम्यमानेसु करोतौ धातौ परतः उपात् सुट् कात् पूर्वः भवति। प्रतियत्ने तावत् एधो दकस्य उपस्कुरुते। काण्डगुणस्य उपस्कुरुते। वैकृते उपस्कृतं भुङ्क्ते। उपस्कृतं गच्छति। वाक्याध्याहारे उपस्कृतं जल्पति। उपस्कृतम् अधीते। एतेषु इति किम्? उपकरोति।
`सतः` इत्यादि। लब्धसत्ताकस्यार्थस्य पुर्वोत्पन्नोभ्यो गुणेभ्यो योऽन्यो गुणस्तद्गुणान्तरम्, तदाधीयत उत्पाद्यते येन तद्गुणान्तराधानम्। तत्पुनः किमर्थम्? इत्याह--`आधिक्याय` इत्यादि। किं तत्? इत्याह--`समीहा` इति। तदेवं विद्यमानस्य वस्तन आधिक्याय वृद्धये वृद्धस्य चैव तादवस्थ्याय तस्या वृद्धावस्थाया अपरिहाणाय गुणान्तराधानं ययाधीयते समीहयां चेष्टया स प्रतियत्न इत्युच्यते। `विकृतम्` इति। जातविक्रियमित्यर्थः। `गम्यमानार्थस्य वाक्यस्य स्वरपेण` इति। `समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वत्र्तन्ते` (व्या प।सू।85) इति प्रतीयमानोऽर्थः प्रकरणादिवाक्यस्यैकदेशो वाक्यशब्देनोक्तः। गम्यमानार्थस्यापि सुखप्रतिपत्तये स्वरूपेणोपादानं वाक्याध्याहारः॥
सत इत्यादि। लब्धसताकस्यार्थस्य पूर्वं ये गुणा आधीयन्ते। येन तद्गुणान्तराधान तत्पुनः किमर्थम् ? इत्याह--आधिक्यायेति। आधिक्यमुवृद्धिः। वृद्धस्य वा तादवस्थयायेति। तस्य वृद्धियुक्तावस्थायाः प्रच्युतिपरिहारायेत्यर्थः। समीहाउचेष्टा। अगम्यमानार्थस्येति। अर्थप्रकरणादिना। वाक्यस्येति। वाक्यैकदेशस्येत्यर्थः। एधो दकस्येति। जातिद्वन्द्वः, ठ्कृञः प्रतियत्नेऽ इति षष्ठी, ठ्प्रतियत्नप्रकथनोपयोगेषु कृञःऽ इत्यात्मनेपदम्। उपस्कृतं भुङ्क्तु इति। क्रियाविशेषणम्, विकृतं भुङ्क्त इत्यर्थः। उपस्कृतं जल्पतीति। साध्याहारं यथा तथा जल्पतीत्यर्थः। अथैवं कस्मान्न कृतम्--ठ्सम्प्रतिभ्यां करोतौ भूषणसमवाययोः, उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु चऽ इति ? सूत्रकारं पृच्छ ॥
सिद्धान्तकौमुदी
उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्यस्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या । अलंकृतेत्यर्थः । उपस्कृता ब्राह्मणाः । समुदिता इत्यर्थः । एधो दकस्योपस्कुरुते । गुणाधानं करोतीत्यर्थः । उपस्कृतं भुङ्क्ते । विकृतमित्यर्थः । उपस्कृतं ब्रूते । वाक्याध्याहारेण ब्रूत इत्यर्थः ॥
उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु - प्रागुक्तयोरिति । भूषणसमवाययोरित्यर्थः । ननुसंपरिभ्या॑मिति सुट् पदद्वयोपेक्षत्वाद्बहिरङ्गः ।लिटि धातो॑रिति द्वित्वं तु प्रकृतिप्रत्ययमात्रोपेक्षत्वादन्तरङ्गम् । ततस्च संचस्कारेत्यत्र परमपि सुटं बाधित्वा द्वित्वे कृतेऽभ्यासात्प्रागेव सुटि प्राप्ते —
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.