Page loading... Please wait.
6|1|132 - एतत्तदोः सुलोपोऽकोरनञ्समासे हलि
॥ तस्मै पाणिनये नमः ॥
6|1|132
SK 176
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि   🔊
सूत्रच्छेदः
एतत्-तदोः (षष्ठीद्विवचनम्) , सुलोपः (प्रथमैकवचनम्) , अकोः (षष्ठीद्विवचनम्) , अ-नञ्समासे (सप्तम्येकवचनम्) , हलि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
अनञ्समासे - अकोः एतद्-तदोः हलि सुँलोपः
सूत्रार्थः
नञ्-समासं विहाय अन्यत्र ककारविहितस्य एतद्/तद्-शब्दात् परस्य सुँ-प्रत्ययस्य व्यञ्जने परे लोपः भवति ।
प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानां पदानाम् पृथक्-रूपेण अर्थं पश्यामः ।

- अकोः - यस्मिन् ककारः नास्ति तादृशयोः
- एतत्-तदोः = एतत्-तद्-शब्दयोः
- सुँलोपः = सुँ-प्रत्ययस्य लोपः स्यात्,
- अनञ्समासे - नञ्-समासः नास्ति चेत्
- हलि = हल्-वर्णे परे

अतः अस्य सूत्रस्य अर्थः भवति - यस्मिन् एतद्-तद्-शब्दस्य सुँ-प्रत्ययान्तरूपे ककारः नास्ति, तादृशस्य रूपस्य सुँ-प्रत्ययस्य नञ्-समासं विहाय अन्यत्र हल्-वर्णे परे लोपः भवति ।
उदाहरणानि एतानि -

1. "एतद् + सुँ + विष्णुः" इत्यत्र -
एत अ + सुँ + विष्णुः [त्यदादीनामः 7|2|102 इति दकारस्य अकारः]
→ एत + सुँ + विष्णुः [अतो गुणे 6|1|97 इति गुण-एकादेशः पररूपः अकारः]
→ एस + सुँ + विष्णुः [तदोः सः सावनन्त्ययोः 7|2|106 इति तकारस्य सकारः]
→ एस + विष्णुः [एतत्तदोः सुलोपोऽकोरनञ्समासे हलि 6|1|132 इत्यनेन सुँ-प्रत्ययस्य लोपः]
→ एष विष्णुः [आदेशप्रत्ययोः 8|3|59 इति षत्वम्]

अत्र एतद् शब्दस्य "एस" इत्यस्मिन् रूपे ककारः नास्ति, नञ्-समासः अपि नास्ति, तथा सुँ-प्रत्ययात् अनन्तरम् हल्-वर्णः अस्ति । अतः संहियायाम् अत्र सुँ-प्रत्ययस्य लोपं कृत्वा "एष विष्णुः" इति जायते ।

2. तथैव, तद्-शब्दस्यापि इमामेव प्रक्रियां कृत्वा "सः शम्भुः → स शम्भुः" इति जायते ।

3. एतत्/तद् शब्दे ककारः कथम् आगच्छति? अव्ययसर्वनाम्नाम् अकच् प्राक्टेः 5|3|71 अनेन सूत्रेण सर्वनामशब्देभ्यः स्वार्थे "अकच्" नाम कश्चन तद्धित प्रत्ययः आगच्छति । अस्य प्रत्ययस्य उपस्थितौ एतद्-शब्दस्य प्रथमैकवचनम् "एषकः" इति जायते । अस्मिन् शब्दे ककारः अस्ति, अतः अस्य शब्दस्य हल्-वर्णे परे सुँ-प्रत्ययस्य लोपः न भवति, अपि तु ससजुषो रुँः 8|2|66 इत्यनेन रूँत्वे कृते हशि च 6|1|114 इत्यनेन तस्य उकारादेशं कृत्वा आद्गुणः 6|1|87 इति गुण-एकादेशं कृत्वा "एषको रुद्रः" इति रूपं सिद्ध्यति ।

4. यदि एतद् / तद् - शब्दः नञ्-समासस्य घटकः अस्ति तर्हि अपि अनेन सूत्रेण सुँ-प्रत्ययस्य लोपः न भवति । यथा - न सः = असः । इत्यस्मात् परस्य सुँ-प्रत्ययस्य अपि लोपः न भवति । यथा - "अतद् + सुँ शिवः" इत्यत्र सुँ-प्रत्ययस्य विसर्गे कृते, विसर्गस्य विसर्जनीयस्य सः 8|3|34 इति सत्वे स्तोः श्चुना श्चुः 8|4|40 इति श्चुत्वे कृते "असश्शिवः इति सिद्ध्यति ।

5. यदि अग्रे हल्-वर्णः नास्ति चेदपि अयं सुँलोपः न जायते । यथा - "तद् + सुँ + ईश्वरः" इत्यत्र सुँ इत्यस्य ससजुषो रुँः 8|2|66 इत्यनेन रूँत्वे कृते भोभगोअघोअपूर्वस्य योऽशि 8|3|17 इत्यनेन तस्य यकारादेशं कृत्वा लोपः शाकल्यस्य 8|3|19 इत्यनेन वैकल्पिक-यकारलोपे कृते, "सयिश्वरः", "स ईश्वरः" एते द्वे रूपे सिद्ध्यतः ।
One-line meaning in English
Except for the नञ् समास, when a form of एतद्/तद् word which does not contain a ककार is followed by a सुँ-प्रत्यय which in turn is followed by a व्यञ्जन, the सुँ-प्रत्यय gets removed.
काशिकावृत्तिः
एतत्तदौ यावककारौ नञ्समासे न वर्तते तयोर् यः सुशब्दः, कश्च तयोः सुशब्दः? यः तदर्थेन सम्बद्धः, तस्य संहितायां विषये हलि परतो लोपो भवति। एष ददाति। स ददाति। एष भुङ्क्ते। स भुङ्क्ते। एतत्तदोः इति किं? यो ददाति। यो भुङ्क्ते। सुग्रहणं किम्? एतौ गावौ चरतः। अकोः इति किम्? एषको ददाति। सको ददाति। तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति रूपभेदे ऽपि साकच्कावेतत्तदावेव भवतः। अनञ्समासे इति किम्? अनेषो ददाति। असो ददाति। उत्तरपदार्थप्रधानत्वान्नञ्समासस्य एतत्तदोरेव अत्र सम्बद्धः सुशब्दः। हलि इति किम्? एषो ऽत्र सो ऽत्र।
Text Unavailable. Please use feedback link below to provide the text if you have.
एतेन ठेततदोःऽ इति सुशब्दापेक्षया सम्बन्धलक्षणा षष्ठीत्याचष्टे। यद्येवम्, सु इत्येतस्य सापेक्षत्वाल्लोपशब्देन समासो न प्राप्नोति ? नैवायं समासः, सु इति पृथक्पदम् ठ्सुपां सुलुक्ऽ इति लुप्तष्ठीकम्। कश्च तयोः सुशब्द इति। यदि यस्ताभ्यां विहितः सुः स तयोः सम्बन्धी भवति, तदा परमस ददाति, परमैष ददातीत्यादो न स्यादिति मन्यमानः पृच्छति। इतरो विदिताभिप्रायः परिहति-यस्तदर्थेन सम्बद्ध इति। अर्थद्वारकश्च सम्बनधः, यस्तदर्थगतमेकत्वमाचष्ट इत्यर्थः। परमस ददातीत्यादावपि उतरपदार्थप्रधानत्वातदर्थगतमेवैकत्वमाचष्ट इति सिद्धो लोपः। प्रथमैकवचनस्यात्र सुशब्दस्य ग्रहणम्, न सप्तमीबहुवचनस्य। ठ्स्यश्च्छन्दसिऽ ठ्सोऽचि लोपे चेत्पादपूर्णम्ऽ इत्यत्र ह्यस्यैव सम्भवः। द्वयोः सामान्येन ग्रहणं तर्हि कस्मान्न भवति? एवं तर्हि ठ्निरनुबन्धकग्रहणे न सानुबनधकस्यऽ इति प्रथमैकवचनस्यैव ग्रहणम्, तस्य ह्युकार उच्चारणार्थः, नानुबन्धः। एष इति। ठ्तदोः स सावनन्त्ययोःऽ इति सकारः, त्यदाद्यत्वम्, षत्वम्। एषक इति। ठव्यसर्वनाम्नामकच् प्राक् टेःऽ इत्यकच् । ननु रूपभेदात्साकच्कावेततदावेव न भवतः, तत्किम् ठकोःऽ इति प्रतिषेधेन ? तत्राह--तन्मध्यपतिति इति। अस्याश्च परिभाषाया अस्तित्वे अयमेव प्रतिषेधो लिङ्गम् । उतरपदार्थप्रधानत्वादिति। एतच्च नञ्सूत्र एव व्याख्यातम्। ठ्हल्ङ्याब्भ्यःऽ इत्यस्यानन्तरमिदं न कृतम्--संहितायां यथा स्यात्, असंहितायां मा भूदिति ॥
सिद्धान्तकौमुदी
अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्याद्धलि न तु नञ्समासे । एष विष्णुः । स शंभुः । अकोः किम् । एषको रुद्रः । अनञ्समासे किम् । असःशिवः । हलि किम् । एषोऽत्र ॥
सम्परिभ्यां (॰पर्युपेभ्यः) करोतौ भूषणे - संपरिभ्याम् ।
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि - एतत्तदोः । अत्र त्यदाद्यत्वमेकशेषश्च न कृतः, सौत्रत्वात्,प्रकृतिवदनुकरण॑दिति वैकल्पिकातिदेशाद्वा । एवं च वृत्तावप्येतत्तदोरिति प्रयोगः साधुः ।हल्ङ्याब्भ्यः॑-इत्यस्यानन्तरमेवेदं लाघवाय न कृतं, संहिताधिकारोपजीवनादित्याहुः । सूत्रेसु॑ इति पृथक् पदं लुप्तषष्ठीकमित्याह-एतत्तदोर्यः सुरिति । एतत्तदर्थगतसङ्ख्याभिधायी यः सुस्तस्येत्यर्थः ।एतत्तदोर्विहिकत॑ इति व्याख्याने तु परमैष ददाति परमस ददातीत्यादौ सुलोपो न स्यात् ।एतत्तदौः पर॑ इति व्याख्यानं तु न संभवति,एतत्तभ्द्या॑मिति पञ्चम्यभावात् ।एतत्तदोरवयव॑ इति तु न संभवत्येव, सोः प्रत्ययत्वात् । तस्मादर्थद्वारकसंबन्ध एवाश्रितः । तदाश्रयणे लिङ्गं तुअनञ्समासे॑-इति बोध्यम् । एतत्तदोः किम्, यो ददाति । अकोः किमिति । साकच्कयोः शब्दान्तरत्वादप्रसङ्ग इति प्रश्नः । एषक इति । अकोरिति प्रतिषेध एवतन्मध्यपतितस्तद्ग्रहणेन गृह्रते॑ इति परिभाषां ज्ञापयतीति भावः ।
लघुसिद्धान्तकौमुदी
अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम्? एषको रुद्रः। अनञ्समासे किम्? असः शिवः। हलि किम्? एषोऽत्र॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.