Page loading... Please wait.
6|1|131 - दिव उत्‌
॥ तस्मै पाणिनये नमः ॥
6|1|131
SK 337
दिव उत्‌   🔊
सूत्रच्छेदः
दिवः (षष्ठ्येकवचनम्) , उत् (प्रथमैकवचनम्)
अनुवृत्तिः
पदान्तात्  6|1|109 (षष्ठ्येकवचनम्, षष्ठ्या विपरिणम्यते)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
दिवः पदस्य उत्
सूत्रार्थः
"दिव्" इत्यस्य पदस्य उत्-आदेशः भवति ।
"दिव्" इति वकारान्तस्त्रीलिङ्गः शब्दः । अस्य शब्दस्य यदा पदसंज्ञा भवति तदा तस्य उकारादेशः भवति । यथा -

1. दिव् + भ्याम् [तृतीयैकवचनस्य प्रत्ययः । दिव्-शब्दस्य स्वादिष्वसर्वनामस्थाने 1|4|17 इति पदसंज्ञा]
→ दि उ + भ्याम् [दिव उत्‌ 6|1|131 इति उत्-आदेशः]
→ द्युभ्याम् [इको यणचि 6|1|77 इति यणादेशः]

2. विमलदिव् + सुँ / अम् [प्रथमाद्वितीययोः प्रत्ययः]
→ विमलदिव् [स्वमोर्नपुँसकात् 7|1|23 इति सुँप्रत्ययस्य लुक्]
→ विमलद्युः [दिव उत् 6|1|131 इति पदान्तवकारस्य उत्वम्]

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "उत्" इत्यत्र तकारः उच्चारणार्थः अस्ति ।
2. "पदस्य उकारादेशः भवति" इत्यत्र अलोन्त्यस्य 1|1|52 इत्यनेन पदस्य अन्तिमवर्णस्य उकारादेशः भवति इति ज्ञायते ।
3. पदाङ्गाधिकारे तस्य च तदन्तस्य च अनया परिभाषया "दिवःपदस्य" इत्यनेन तेषां शब्दानाम् अपि ग्रहणं भवति येषाम् अन्ते "दिव्" शब्दः अस्ति । यथा - सुदिव्, विमलदिव् आदयः । (अत्र यद्यपि पदाधिकारः नास्ति, तथापि "पदस्य" इत्यनुवर्तते, अतः अस्याः परिभाषायाः प्रयोगः अत्र भवितुमर्हति ।)
One-line meaning in English
The "दिव्" word when is called a "पद" also gets the उत्-आदेश.
काशिकावृत्तिः
एङः पदान्तादति 6|1|109 इत्यतः पदग्रहणम् अनुवर्तते। दिवः इति प्रातिपदिकं गृह्यते, न धातुः, सानुबन्धकत्वात्। दिवः पदस्य उकारादेशो भवति। दिवि कामो यस्य द्युकामः। द्युमान्। विमलद्यु दिनम्। द्युभ्याम्। द्युभिः। निरनुबन्धकग्रहणादिह न भवति, अक्षद्यूभ्याम्, अक्षद्यूभिः इति। तपरकरनम् ऊठो निवृत्त्यर्थम्, द्युभ्याम्, द्युभिः इति। अत्र हि परत्वातूट्ः प्राप्नोति। पदस्य इति किम्? दिवौ। दिवः।
`सानुबन्धकत्वात्` इति। कस्य धातोरनन्तरम्? प्रकृतत्वात्? तस्यैव। दीव्यतिर्घातुः सानुबन्धः, प्रतिपदिकं तु दिवित्येतन्निरनुबन्धकम्, निरनुबन्धकस्य च सूत्र उपादानम्; तस्मात्? `निरनुबन्धकस्य ग्रहणे न सानुबन्धकस्य` (व्या।प।53) इति प्रातिपदिकस्येदं ग्रहणम्, न धातोरिति। `द्युकामः` इति। दिविकामोऽस्येति बहुव्रीहिः, दिवं कामयत इति वा। `शीलिकामिभिक्षाचरिभ्यो णो वक्तव्यः` (वा।229) इति णप्रत्ययः। `द्युमान` इति। द्यौरस्यास्तीति `तदस्यास्त्यस्मिन्निति मतुप्` 5|2|93 । `विमलद्यु दिनम्` इति। विमला द्यौरस्मिन्निति बहुव्रीहिः। `अक्षद्यूभ्याम्, अक्षद्यूभिः` इति। अक्षशब्द उपपदे दीव्यतेर्धातोः क्विप्, `च्छ्षोः शूडनुनासिके च` 6|4|19 इत्यूठ्। अथ तपकरणं किमर्थम्, यावता यद्यपि `ऋत उत्` 6|1|111 इत्यत्र तपकरणेन `भाव्यमानोऽप्युकारः सवर्णान्? गृह्लाति` (चां।प।पा।44) इति ज्ञापितम्, तथाप्यत्रान्तर्यतोऽद्र्धमात्राकालस्य व्यजञ्जनस्य मात्रिक एव भविष्यति; न दीर्घः? इत्यत आह--`तपकरणम्` इत्यादि। यद्यप्यनेन दीर्गो न प्राप्नोति, लक्षणान्तरेण तु द्युभ्यां द्युभिः--इत्यत्रोठ्? प्राप्नोति, अतः स मा भूदित्येवमर्थं तपरकरणम्। स्यादेतत्। ननु चोठ्प्राप्तिरेव नास्ति, किं तन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह--`द्युभ्याम्, द्युभिः` इति। `अत्र हि` इत्यादि। उत्त्वस्यावकाशो यत्र झलादिः क्विप्परो न विद्यते--विमलद्यु दिनमिति, ऊठोऽवकाशः--अक्षद्यूभ्यामिति; द्युभ्यामित्यादावुभयप्रसङ्गे परत्वादूठ् प्राप्नोति, तपरकरणादुत्त्वमेव भवति। यदि तर्हि प्राप्तस्योठो निवृत्त्ये तपरकरणं क्रियते, एवं सति `चछ्वोः शूडनुनासिके च` 6|4|19 इत्यतर कथं `द्युभ्याम्? द्युभिः` इति परेण चोदिते यद्वक्ष्यति--`ऊठि कृते `दिव उत्` इति परत्वान्मात्राकालो भविष्यति` इति, तद्विरुध्यते; तस्योठि कृतेऽभिनिवृत्ते तस्य स्थाने मात्राकाल उकारो भविष्यतीत्ययमर्थः? नास्ति विरोधः; `ऊठि कृते` इत्यस्य हि ग्रन्थस्य पूर्वेण चोद्यग्रन्थेन सह सम्बन्धः, नेतरेण परिहारग्रन्थेन। तत्र `केचिदत्र क्ङितीति नानुवत्र्तयन्ति` इत्यस्मिन्? दर्शनान्तरे उपन्यस्ते `कथं द्युभ्यां द्युभिरित्यूठि कृते` इति देश्यम्। तत्रायं चोदयितुरभिप्रायः--यदि क्ङितीति नानुवत्र्तेत, तदा द्युभ्यां द्युभिरितयतराप्यूडेव कत्र्तवयः, ततश्चोठि कृते कथं द्युभ्यां द्युभिरिति सिध्यति, यावता द्यूभ्यां द्यूभिरिति भवितव्यमित्यस्य देश्यस्य `दिव उत्` इति तपरत्वान्मात्राकालो भविष्यतीत्येष परिहारः। अत्राप्ययं परिहत्र्तरभिप्रायः--तपरकरणस्यैतदेव प्रयोजनम्--ऊठ्? मा भूदति; अन्यथा तदनर्थकं स्यात्, तस्मादुत्त्वमेव कत्र्तव्यम्? न तूड्भाव इति। ये तु `क्ङिति` इत्यनुवत्र्तयन्ति, तेषां तपरकरणं विस्पष्टार्थम्॥
पदग्रहणमनुवर्तत इति। अन्तग्रहणेनोपसमस्तमपि केवलं पदग्रहणमेवानुवर्तते, ततश्चार्थात् षष्ठ।ल्न्तं जायते, दिवशब्देन विशेषणातदन्तविधिः, ठ्ग्रहणवता प्रातिपदिकेनऽ इति तु प्रत्ययविधिविषयम्। व्यपदेशिवद्भावात् केवलस्यापि भवितव्यम्, ठ्व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इत्येतदपि प्रत्ययविधिविषयमेव। सानुबन्धकत्वादिति। दीव्यतेर्धातोरुकारोऽनुबन्धः, प्रातिपदिकस्य तु न कश्चिदनुबन्धः। दिवः पदस्येति। तदन्तस्य पदस्येत्यर्थः। द्यौकाम इति। दिवं कामयते इति ठ्शीलिकामिभिक्षाचरिभ्यो णःऽ विमलद्यौ इति। विमला द्यौरऽस्मिन्निति बहुव्रीहिः। अक्षद्यौभ्यामिति। अक्षशब्द उपपदे दीव्यतेः क्विप्, तत्र ठ्च्छवोः शूडनासिते चऽ इत्यूठ। अथ तपरकरणं किमर्थम्, यद्यपि ठृत उत्ऽ इति तपरकरणेन ज्ञापितम्--ठ्भाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ इति, तथाप्यान्तर्थतोऽर्द्धमात्राकालस्य व्यञ्जनस्य मात्रिक एव भविष्यति? इत्यत आह--तपरकरणमिति। यद्यप्यनेन दीर्घो न प्राप्नेति, प्राप्नोति, लक्षणान्तरेण तु प्राप्तोतीत्याह--द्यौभ्याम्, द्यौभिरिति। उत्वस्यावकाशो यत्रायजादिपरः--विमलद्यौ, ऊठोऽवकाशः--द्यौउत्वा, द्यौउतम्; यत्र तूभयोः प्रसङ्गस्तत्र परत्वादूठ प्राप्नोति, तपरकरणादुत्वमेव भवति। यदि प्राप्तस्योठो निवृत्यर्थं तपरकरणमित्युच्यते एवं तर्हि ठ्चछवोः शूडनुनासिते चऽ इत्यत्र ठ्कथं द्यौभ्याम्, द्यौभिःऽ इति परेण चोदिते यद्वक्ष्यति--ठूठि कृते दिव उदिति तपरकरणानामात्राकालो भविष्यतिऽ, तद्विरुद्ध्यते, तस्य ह्यौउठि कृते तस्यैवोठो मात्राकालो भविष्यतीत्ययमर्थः ? नैषः दोषः; ठूठि कृतेऽ इत्येतस्य पूर्वेण चोद्यग्रन्थेन सम्बन्धः--ठ्कथं द्यौभ्यां द्यौभिरिति, ऊठि कृतेऽ इति; ठ्दिव उत् इति तपरकरणात् मात्राकालो भविष्यतिऽ इत्येतावान् परिहारग्रन्थः। तपरकरणस्य तूण्निवृत्तिरेव प्रयोजनम्। तस्मादुत्वमेवात्र कर्तव्यम्, न पुनरुडित्यर्थः ॥
सिद्धान्तकौमुदी
दिवोऽन्तादेश उकारः स्यात्पदान्ते । सुद्युभ्याम् । सुद्युभिः । चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः । चतुर्भ्यः ॥
सुट् कात् पूर्वः (अडभ्यासव्यवायेऽपि) - सुट् कात्पूर्वः । षष्ठस्याद्यपादे इदं सूत्रम् ।संपरिभ्यां करोतौ भूषणे॑ "समवाये च"उपात्प्रतियत्ने॑त्यारभ्यअनुदात्तं पदमेकवर्जमित्यतः प्रागिदमधिकृतं वेदितव्यमित्यर्थः । एवं च कात्पूर्व इत्युक्तेरभ्यासात्प्राङ्नं सुडिति भावः । नन्वभ्यासेन व्यवधानात्कथमिह उत्तरखण्डस्य सुट्, संस्करोतीत्यादौ अव्यहिते सुड्विधेश्चरितार्थत्वात् । किंच समस्करोदित्यत्राऽटा व्यवधानात्कथं सुट् । नह्रडागमः कृञ्भक्तःत्वात् । विकरणान्तस्यैवाङ्गत्वादित्यत आह — अडभ्याससव्यवायेऽपीत्युक्तमिति ।वार्तिक॑मिति शेषः । अटा अभ्यासेन च व्यवधानेऽपि संपर्यादिभ्यः परस्मात्कात्पूर्वः सुडित्यर्थः । इत्यादीति । सुडित्येवाधिकृतमस्तु, "कात्पूर्वः" इतिअडभ्यासव्यवायेऽपी॑ति मास्त्वित्येवं भाष्ये प्रत्याख्यातमित्यर्थः । तदेवोपपादयितुं प्रतिजानीते — तथा हीति । पूर्वं धातुरुपसर्गेण युज्यते इति ।पश्चात्साधनेने॑ति शेषः । ततश्च पूर्वोपनिपतितधातूपसर्गसम्बन्धनिमित्तकं कार्यं पश्चादनुपतिष्यद्धातुप्रत्ययसंबन्धनिमित्तकात्कार्यादन्तरङ्गम्, प्रथमोपस्थितत्वात् । तदुक्तं भाष्ये — पूर्वं धातुरुपसर्गेणेति कृत्वा धातूपसर्गयोः कार्यमन्तरङ्ग॑ मिति । तदाह — अन्तरङ्गत्वात्सुट् । ततो द्वित्वमिति । तथा सुटि कृते "स्कृ" इत्यस्य द्वित्वे उरदत्त्वे रपरत्वे "शर्पूर्वाः खयः" इति रेफसकारयोर्निवृत्तौ अभ्यासचुत्वे संचस्कारेति रूपसिद्धेः "कात्पूर्वः" इति,अडभ्यासव्यवायेऽपी॑ति च न कर्तव्यमिति भावः । एवं समस्करोदित्यत्रापि विकरणान्ताऽङ्गभक्ताऽडागमापेक्षयाऽन्तरङ्गत्वात्प्रथमं सुड्भविष्यतीति कृत्वाअड्व्यवायेऽपी॑त्यंशो न कर्तव्य इत्यूह्रम् ।पूर्वं धातुरुपसर्गेणे॑त्याश्रयणे फलान्तरमप्याह — एवं चेति । उक्तरीत्या अन्तरङ्गत्वात्सुटि कृते संस्कृ इत्यस्माल्लिटोऽतुसिऋतश्च संयोगादेर्गुणः॑ इति गुणे संचरस्करतुरिति सिद्ध्यति ।पूर्वं धातुः साधनेन युज्यते॑ इत्याश्रयणे तु चक्रतुरिति परिनिष्ठितस्य समित्युपसर्गयोगात्संयोगादित्वाऽभावाद्गुणस्याऽसिद्धिरिति भावः । ननु संचस्करिव, संचस्करिथ इत्यत्र चकृसृवृभृ॑इतिऋतो भारद्वाजस्ये॑ति च इण्निषेधः स्यादित्यत आह — कृसृभृवृसूत्रे इत्यादि । नन्वाशीर्लिङि संस्क्रियादित्यत्रगुणोऽर्तिसंयोगाद्यो॑रिति गुणः कुतो नेत्यत आह — गुणोऽर्तीत्यादि । ननु तङि संस्कृषीष्ट इति लिङि, समस्कृत समस्कृत समस्कृषातामिति लुङि चऋतश्च संयोगादे॑रिति इट् कुतो नेत्यत आह-ऋतश्चेत्यादि । ॥ इति बालमनोरमायाम् तनादयः॥अथ तत्पुरुषसमासप्रकरणम् । — — — — — — — — — —
दिव उत् - दिव उत् । तपरकरणमिहद्युभ्या॑मित्यादावुकारस्य संप्रसारणत्वात्हलः॑इति दीर्घे प्राप्ते तन्निवारणायेत्याहुः । इति वान्ताः । चत्वार इति ।चतेरुरन्इत्युरन्प्रत्ययान्तश्चतुर्श ब्दः । ततो जसिचतुरनडुहो॑रित्याम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
इर्3चाक्रवर्मणस्य (256) (उकारादेशाधिकरणम्) (तपरप्रयोजनभाष्यम्) किमर्थस्तकारः ? तपरस्तत्कालस्य 1|1|70 इति तत्कालो यथा स्यात् ।। नैतदस्ति प्रयोजनम् । आन्तर्यतोऽर्द्धमात्रिकस्य व्यञ्जनस्य स्थाने मात्रिक उकारः सिद्ध्यति । न सिद्ध्यति । उठि कृते आन्तर्यतो दीर्घस्य दीर्घः प्राप्नोति ।। श्लोकभाष्यम् ‐ - तदर्थं तपरः कृतः । एवमर्थं तपरः क्रियते ।।