Page loading... Please wait.
6|1|128 - ऋत्यकः
॥ तस्मै पाणिनये नमः ॥
6|1|128
SK 92
ऋत्यकः   🔊
सूत्रच्छेदः
ऋति (सप्तम्येकवचनम्) , अकः (षष्ठ्येकवचनम्)
अनुवृत्तिः
पदान्तात्  6|1|109 (पञ्चम्येकवचनम्, षष्ठ्या विपरिणम्यते) , प्रकृत्या  6|1|115 (तृतीयैकवचनम्) , असवर्णे  6|1|127 (सप्तम्येकवचनम्) , ह्रस्वः  6|1|127 (प्रथमैकवचनम्) , शाकल्यस्य  6|1|127 (षष्ठ्येकवचनम्)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
पदान्तस्य अकः असवर्णे ऋति ह्रस्वः प्रकृत्या शाकल्यस्य
सूत्रार्थः
शाकल्यस्य मतेन - पदान्त-अक्-वर्णस्य असवर्णे ऋकारे परे ह्रस्वादेशः ततः च प्रकृतिभावः भवति ।
अस्मिन् सूत्रे पाणिनिः शाकल्यस्य मतं पाठयति । सूत्रपाठे पाणिनिः यत्र यत्र अन्यस्य आचार्यस्य नाम स्वीकृत्य किञ्चन कार्यम् वदति, तत्र प्रायः तत् कार्यम् वैकल्पिकम् अस्ति इति सः विज्ञापयति । अतः अत्रापि अनेन सूत्रेण उक्तः ह्रस्वादेशः प्रकृतिभावः च विकल्पेनैव भवति इति ज्ञातव्यम् । अतः "पदान्त-अक्-वर्णस्य असवर्णे ऋकारे परे वैकल्पिकः ह्रस्वादेशः, ततश्च प्रकृतिभावः भवति इत्यर्थः । कानिचन उदाहरणानि पश्यामः -

1) "ब्रह्मा + ऋषिः" -
अत्र वर्तमानसूत्रेण विकल्पेन ह्रस्वादेशे प्रकृतिभावे कृते सन्धिः न भवति, अतः "ब्रह्मऋषिः" इति रूपं सिद्ध्यति । विकल्पाभावे आद् गुणः 6|1|87 इति गुण-एकादेशं कृत्वा "ब्रह्मर्षिः" इत्यपि रूपं सिद्ध्यति ।

2) "माला + ऌकारः" -
अत्रापि वर्तमानसूत्रस्य प्रसक्तिः अस्ति, यतः "ऋति" इति तपरकरणेन ह्रस्व-ऌकारस्यापि ग्रहणं भवति । अतः अत्रापि "मालाऌकारः , मालाल्कारः" - एते द्वे रूपे सिद्ध्यतः ।

3) "होतृ + ऋकारः" -
अत्र त्रयः विकल्पाः जायन्ते -
अ) वर्तमानसूत्रेण ह्रस्वादेशे प्रकृतिभावे कृते होतृऋकारः इति जायते ।
ब) अकः सवर्णे दीर्घः 6|1|101 अनेन सूत्रेण सवर्णदीर्घं कृत्वा "होतॄकारः" इति सिद्ध्यति ।
क) ऋति सवर्णे ऋ वा अनेन वार्त्तिकेन नरसिंह-ऋकारे कृते होत्ऋकार इत्यपि सिद्ध्यति । (अस्य वार्त्तिकस्य स्पष्टीकरणम् अकः सवर्णे दीर्घः 6|1|101 इत्यत्र दृश्यताम् ।]

ज्ञातव्यम् -
1. समासे अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - "सप्त च ते ऋषयश्च" इत्यनेन द्विगुसमासे कृते "सप्तऋषि" / "सप्तर्षि" एते द्वे पदे सिद्ध्यतः ।
2. अक्-वर्णः यदि पदान्ते अस्ति तर्हि एव अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - "ऋच्छ्" धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् आडागमे कृते "आट् + ऋच्छ् + त्" इति स्थिते अत्र प्रकृतिभावः न भवति । अत्र आटश्च [[6।1।90] इत्यनेन वृद्धि-एकादेशं कृत्वा "आर्च्छत्" इत्येव रूपं सिद्ध्यति ।
3. अनेन सूत्रेण प्रकृतिभावात् पूर्वम् ह्रस्वादेशः भवति, ततः एव प्रकृतिभावः भवति - इति स्मर्तव्यम् ।
One-line meaning in English
According to शाकल्य, when पदान्त-अक्-letter is followed by an असवर्ण ऋकार or ऌकार , the अक् letter undergoes a प्रकृतिभाव.
काशिकावृत्तिः
शाकल्यस्य ह्रस्वश्च इत्येतदनुवर्तते। ऋकारे परतः शाक्ल्यस्य आचार्यस्य मतेन अकः प्रकृत्या भवन्ति ह्रस्वश्च तस्यकः स्थाने भवति। खट्व ऋश्यः। माल ऋश्यः। कुमारि ऋश्यः। होतृ ऋश्यः। ऋति इति किम्? खट्वेन्द्रः। अकः इति किम्। वृक्षावृश्यः। सवर्णार्थमनिगर्थं च वचनम्।
`सवर्णार्थमनिगर्थञ्च वचनम्` इति। अन्यत्र पूर्वेणैव सिद्धत्वात्। यदि सवर्णार्थं वचनम्, कथं तर्हि खट्वश्र्य इत्युदाहरणम्, न ह्रत्र सवर्णोऽच्परः नैतदस्ति; `अनिगर्थञ्च` इति यदुक्तं तस्योदाहरणम्। अत एवाक इत्युपात्तं सूत्रे; अन्यथेक इत्यनुवत्र्तनीयं स्यात्। सत्यस्मिन्? योगे सवर्णार्थेऽप्यकोऽनेनैव युक्तो ह्यस्वप्रकृतिभावो परत्वादत्यस्योदाहरणस्योपन्यासः॥
सवर्णर्थमनिगर्थं च वचनमिति। होतृ ऋश्यः, खट्व ऋश्य इत्यादौ; इन्यत्र पूर्वेणैव सिद्धत्वात् ॥
सिद्धान्तकौमुदी
ऋति परेऽकः प्राग्वत् । ब्रह्म ऋषिः । ब्रह्मर्षिः । पदान्ताः इत्येव । आर्च्छत् । समासेऽप्ययं प्रकृतिभावः । सप्तऋषीणाम् - सप्तर्षीणाम् ॥
ऋत्यकः - ऋत्यकः । "अकः" इति षष्ठी ।शाकल्यस्य ह्यस्वश्चे॑त्यनुवर्तते । असवर्णं इति निवृत्त्म् ।एङः पदान्ता॑दित्यतः पदान्तादित्यनुवर्तते । तच्च षष्टन्ततया विपरिणम्यते । ततःपदान्तस्याऽक ऋति ह्यस्वो वा स्या॑दित्येकं वाक्यं सम्पद्यते । चकारात्प्रकृत्येत्यनुकृष्यते ।उक्तो ह्यस्वः प्रकृत्या अवतिष्ठते॑ इति द्वितीयं वाक्यं संपद्यते । तदाह — ऋति परेऽकः प्राग्वदिति । ब्राहृ ऋषिरिति । ब्राहृआ — ऋषिरिति स्थिते आकारस्य ह्यस्वः प्रकृतिभावश्च । ततश्चाद्गुण इति परपः अकारो न भवति । अत्रा.ञऽकारस्य इक्त्वाऽभावादिकोऽसवर्णे इत्यप्राप्ते इदं वचनम् । ब्राहृर्षिरिति । उक्तह्यस्वसमुच्चितप्रकृतिभावाऽभावपक्षे आद्गुण इति अकारः । रपरत्वम् ।ऋत्यस्ये॑त्येव तु न सूत्रितम् । होतृ-ऋकार इत्यत्र प्रकृतिभावार्थमग्ग्रहणस्यावश्यरकत्वात् । पदान्ता इत्येवेति । पदान्तग्रहणमत्राप्यनुवर्तनीयमेवेत्यर्थः । आच्र्छदिति । ऋ गतौ । लङ् तिप् शप् । पाघ्राध्मेति ऋच्छादेशः ।इतश्चे॑ति इकारलोपः,आडजादीना॑मित्याडागमः, आटश्चेति वृद्धिः । आ ऋच्छदिति स्थिते आकारस्याऽकः पदान्तत्वाऽभावान्नोक्तः प्रकृतिभावः । न समास इति पूर्वसूत्रस्थं निषेधवार्तिकमिह न संबध्यत इत्याह — समासेऽपीति । सप्तऋषीणामिति ।दिक्संख्ये संज्ञाया॑मिति समासः । सप्तऋषीणासिति प्रकृतिभावपक्षे रूपं तदभावपक्षे तु आद्गुण इति गुणे रपरत्वे सप्तर्षीणामिति भवति ।
ऋत्यकः - ऋत्यकः । ब्राहृ ऋषिरिति । ननुऋत्यस्ये॑त्येव सूत्रमस्तु ।दधि ऋच्छती॑त्यादौइकोऽसवर्णे॑इत्यनेनैव प्रकृतिभावसिद्धेः । मैवम् ।होतृ-ऋकार॑ इत्यत्र प्रकृतिभावार्थमग्ग्रहणस्यावश्यकत्वात् । एतेनअकोऽसवर्णे॑ इत्येकमेव सूत्रमस्त्विति शङ्काया निरवकाश एव, उक्तदोषाऽनिवृत्तेः, सप्तॠषीणामित्यत्रन समासे॑ इति निषेधापत्तेश्च ।न समासे॑ इति निषेधवार्तिकं हिइकोऽसवर्णे॑ इति सूत्र एव, न तुऋत्यकः॑ इत्यत्रेति सिद्धान्तः । अत एवाह — समासे ऽप्ययमिति । एवं चऋलृवर्णयोः॑ इति पूर्वोक्तो निर्देशः सङ्गच्छते ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ऋत्यकः (2565) (वार्तिकावतरणभाष्यम्) किमर्थमिदमुच्यते ? (6233 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।) - ऋत्यकः सवर्णार्थः - सवर्णार्थोऽयमारम्भः । होतृ ऋश्यः ।। (6234 सूत्रप्रयोजनवार्तिकम् ।। 2 ।।) - अनिगन्तार्थं च - खट्व ऋश्यः । माल ऋश्यः ।। (6235 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 3 ।।) - ऋति ह्रस्वादुपसर्गाद्वृद्धिर्विप्रतिषेधेन - ऋति ह्रस्वो भवतीत्येतस्मादुपसर्गाद्वृद्धिर्भवति विप्रतिषेधेन । ऋति ह्रस्वो भवतीत्येतस्यावकाशः ‐ - खट्व ऋश्यः, माल ऋश्यः । उपसर्गाद्वृद्धेरवकाशः ‐ - विभाषा ह्रस्वत्वम्, यदा न ह्रस्वत्वं सोऽवकाशः । ह्रस्वप्रसङ्ग उभयं प्राप्नोति ‐ - प्रार्ध्नोति, उपार्ध्नोति । उपसर्गाद्वृद्धिर्भवति विप्रतिषेधेन ।। (विप्रतिषेधानर्थक्यबोधकभाष्यम्) स तर्हि विप्रतिषेधो वक्तव्यः ? न वक्तव्यः । उक्तं तत्र धातुग्रहणस्य प्रयोजनम् ‐ - उपसर्गादृति धातौ वृद्धिरेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति ।।