Page loading... Please wait.
6|1|127 - इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च
॥ तस्मै पाणिनये नमः ॥
6|1|127
SK 91
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च  
सूत्रच्छेदः
इकः (प्रथमाबहुवचनम्) , असवर्णे (सप्तम्येकवचनम्) , शाकल्यस्य (षष्ठ्येकवचनम्) , ह्रस्वः (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
पदान्तात्  6|1|109 (पञ्चम्येकवचनम्) , प्रकृत्या  6|1|115 (तृतीयैकवचनम्) , अचि  6|1|125 (सप्तम्येकवचनम्)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
इकः पदान्तात् असवर्णे अचि प्रकृत्या ह्रस्वः च
सूत्रार्थः
शाकल्यस्य मतेन - पदान्त-इक्-वर्णस्य असवर्णे अचि परे प्रकृतिभावः तथा ह्रस्वादेशः भवति ।
अस्मिन् सूत्रे पाणिनिः शाकल्यस्य मतं पाठयति । सूत्रपाठे पाणिनिः यत्र यत्र अन्यस्य आचार्यस्य नाम स्वीकृत्य किञ्चन कार्यम् वदति, तत्र प्रायः तत् कार्यम् वैकल्पिकम् अस्ति इति सः विज्ञापयति । अतः अत्रापि अनेन सूत्रेण उक्तः प्रकृतिभावः ह्रस्वादेशः च विकल्पेनैव भवति ।

यथा - चक्री + अत्र = चक्रि अत्र, चक्र्यत्र । अस्मिन् उदाहरणे वर्तमानसूत्रेण विकल्पेन प्रकृतिभावः तथा ह्रस्वः भवति । विकल्पाभावे इको यणचि 6|1|77 इति यणादेशः अपि भवति ।

अत्र एकम् वार्तिकम् ज्ञातव्यम् - सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः । इत्युक्ते, सित्-प्रत्यये परे तथा समासे अनेन सूत्रेण उक्तः विधिः न भवति । यथा -
अ) सित्-प्रत्यये परे - पर्श्वा णस् वक्तव्य एतत् वार्त्तिकम् ब्राह्मणमाणववाडवाद्यन् 4|2|42 अस्मिन् सूत्रे पाठितम् अस्ति । अनेन वात्तिकेन "पर्शु" शब्दस्य "णस्" इति सित्-प्रत्ययः भवति । "पर्शु + णस्" इत्यत्र -
पर्शु + णस्
→ पर्शु + अ [इत्संज्ञालोपः । अत्र सकारस्यापि इत्संज्ञा अस्ति इति स्मर्तव्यम् ]
→ पार्शु + अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः । सिति च 1|4|16 इत्यनेन अङ्गस्य पदसंज्ञा भवति]
→ पार्श्व [पदान्त-उकारस्य अच्-वर्णे परे वर्तमानसूत्रेण निर्दिष्टः प्रकृतिभावः सित्-नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः अनेन वार्त्तिकेन निषिध्यते । अतः अत्र यणादेशं कृत्वा रूपं सिद्ध्यति ।]
ब) समासे कृते - वाप्याम् अश्वः = वापी + अश्वः = वाप्यश्वः ।

(विशेषः - अस्मिन् वार्त्तिके मूलरूपेण "सित्-नित्यसमासयोः" इति उक्तम् अस्ति । परन्तु भाष्ये आचार्येण "नित्यग्रहणेन न अर्थः" इति उक्तम् अस्ति । इत्युक्ते, "सित्-समासयोः" इत्येव अत्र स्वीकर्तव्यम् ।)

ज्ञातव्यम् -
1. यदि कस्याञ्चित् स्थितौ वर्तमानसूत्रस्य तथा प्लुतप्रगृह्या अचि नित्यम् 6|1|125 इत्यस्य - उभयोः सूत्रयोः प्रसक्तिः अस्ति, तर्हि प्लुतप्रगृह्या अचि नित्यम् 6|1|125 अस्मिन् सूत्रे "नित्यम्" इति निर्दिष्टम् अस्ति अतः प्लुतप्रगृह्या अचि नित्यम् 6|1|125 इत्यस्यैव प्रयोगः भवति । यथा - "साधू एतौ" इत्यत्र वर्तमानसूत्रस्य प्रयोगः न करणीयः ।
2. वर्तमानसूत्रे "प्रकृत्या" इत्यस्य अनुवृत्ति वस्तुतः न आवश्यकी । अनेन सूत्रेण "ह्रस्वः भवति" इति यत् उच्यते तस्य विधानसामर्थ्यात् एव प्रकृतिभावः विधीयते । यतः, यदि प्रकृतिभावः न स्यात्, तर्हि ह्रस्वे कृते यणादेशे कृते पुनः तादृशमेव रूपम् लभ्येत यत् दीर्घस्वरस्य यणादेशं कृत्वा प्राप्यते । अस्मिन् रूपे प्राप्ते किम् प्रयोजनम् ह्रस्वादेशस्य? अतः तस्य ह्रस्वविधानसामर्थ्यात् "प्रकृत्या" इति अपि स्पष्टमेव अस्ति, तस्य पुनः निर्देशः न आवश्यकः ।
3. यदि इक्-वर्णः पदान्ते नास्ति तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - गौरी + औ [प्रथमाद्विवचनम् ] → गौर्यौ । अत्र अस्य सूत्रस्य प्रयोगः न भवति ।
One-line meaning in English
According to शाकल्य, a पदान्त-इक्-letter, when followed by an असवर्ण अच्-letter, shows प्रकृतिभावः and ह्रस्वादेशः.
काशिकावृत्तिः
इको ऽसवर्ने अचि परतः शाकल्यस्य आचार्यस्य मतेन प्रकृत्या भवन्ति, ह्रस्वश्च तस्य इकः स्थाने भवति। दधि अत्र, दध्यत्र। मधु अत्र, मध्वत्र। कुमारि अत्र, कुमार्यत्र। किशोरि अत्र, किशोर्यत्र। इकः इति किम्? खट्वेन्द्रः। असवर्णे इति किम्। कुमारीन्द्रः। शाकल्यस्य ग्रहणं पूजार्थम्। आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः। सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः। सिति अयं ते योनिरृत्वियः। नित्यसमासे व्याकरनम्। कुमार्यर्थम्। ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रं वक्तव्यम्। ईषा अक्षो हिरण्ययः। का इमरे पिशङ्गिला। पथा अगमन्।
`ह्यस्वश्च तस्येकः स्थाने भवति` इति। यद्येवम्, `प्रकृत्या` 6|1|111 इत्यस्यानुकर्षणार्थश्चकारो न कत्र्तव्यः, ह्यस्वविधानसामथ्र्यादेव हि स्वरसन्धिर्न भविष्यति? अत्रैतत्? स्यात्--दीर्घाणामेव ह्यस्वविधानसामथ्र्यात्? स्वरसन्धिर्न स्यात्। ह्यस्वानां तु स्यादेव, न हि तेषां ह्यस्वा भवन्ति। प्रयोजनाभावादित्येतच्च नास्ति; ह्यस्वानामपि हि स्वरसन्धिबाधनार्थं ह्यस्वो भवत्येव। कृतकारि खल्विदं शास्त्रम्, पर्जन्यवत्; नाकृतकारि दहनवत्। एवं तर्हि चकारेणैतदाख्यायते--क्वचिद्? ईषा+अक्षादौ प्रकृतिभाव एव भवति, न ह्यस्वत्वमिति। तेन यदुक्तामीषा अक्षादौ प्रकृतभावमात्रमिति, तन्न वक्तव्यं भवति। यणादेशेन सह विकल्पार्थं शाकल्यग्रहणं कस्मान्न भवति? इत्याह--`आरम्भसामथ्र्यादेव हि` इत्यादि। यणादेशस्य ह्रसवर्ण एवाज्विषयः; सवर्णे तु `अकः सवर्णे दीर्घः` 6|1|97 इति दीर्घविधानात्। अयमपि च शाकलो ह्यस्वो विधीयते। अत एवास्मिन्? विषय आरम्भसामथ्र्यादेवास्य विधेर्यणादेशेन सह विकल्पः सिद्ध इति न तदर्थमाचार्यग्रहणम्। `सिन्नित्यसमासयोः` इत्यादि। एकापि सप्तमी द्विधा भिद्यते; अपेक्षाभेदात्। सिदपेक्षया परसप्तमी, नित्ससमासापेक्षया विषयसप्तमी। सिच्च नित्यसमासश्चेति द्वन्द्वः--स इद्यस्य स सित्। नित्याधिकारे विहितः समासो नित्यसमासः। शाकल्यस्यायं विधिः शाकलः--`कण्वादिभ्यो गोत्रे` 4|2|111 इत्यण्? `यस्येति च` 6|4|148 इत्यकारलोपः, `आपत्यस्य च तद्धितेऽनाति` 6|4|151 इति यकारलोपः। शाकलस्य प्रतिषेधः शाकलप्रतिषेधः। `वक्तव्य` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्, `सर्वत्र विभाषा गोः` 6|1|118 इत्यतो विभाषाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन सिन्नित्यसमासयोः शाकलप्रतिषेधो भविष्यति। `ऋत्वियः` इति। ऋतुः प्राप्तोऽस्येति `ऋतोरण्` 5|1|104 `छन्दसि घस्` 5|1|105 इति घस्। `व्याकरणम्` इति। `कुगतिप्रादयः` 2|2|18 इति समासः। अत्र हि `नित्यं क्रीडाजीविकयोः` 2|2|17 इत्यतो नित्यग्रहणानुवृत्तेर्नितयसमासोऽयम्। `कुमार्यर्थम` इति। कुमार्या इदं कुमार्यर्थमिति। `अर्थशब्देन सह` समासवचनं सर्वलिङ्गता च` (वा।78) इत्ययमपि नित्यसमास एव। सर्वत्र शाकलविधौ प्रतिषिद्धे यणादेशो भवत्येव॥
किमर्थश्चकारः, प्रकृत्येत्येतदनुकृष्यतेऽनेन ? ननु च ह्रस्वविधानसामर्थ्यादेव स्वरसन्धिर्न भविष्यति ? भवेद्दीर्घाणां ह्रस्ववचनसामर्थ्यादेव स्वरसन्धिर्न स्यादिति ह्रस्वानां तु प्राप्नोति। न हि ह्रस्वानां ह्रस्वो भवति; प्रयोजनाभावात्। अस्ति प्रयोजनम्--स्वरसन्धिर्मा भूदिति? इदं तर्हि प्रयोजनम्---प्रकृतिभावमात्रं क्वचिद्यथा स्यादिति, तेनेषा अक्षादिषु च्छन्दसि प्रकृतिभावमात्रं सिद्धं भवति। शाकल्यग्रहणं पूजार्थमिति। अथ विकल्पार्थं कस्मान्न भवति? इत्याह--आरम्भसामर्थ्यादेवेति। सवर्णेऽचि दीर्घविधानाद्यणादेशस्यासवर्ण एवाज्विषयः, अस्यापि विधेः स एव विषयः, ततश्च विषयैक्यादेव विकल्पे सिद्धे न तदर्थक माचार्यग्रहणम् । सिन्नित्यसमासयोरिति। नित्याधिकारविहितोऽस्वपदविग्रहश्च समासो नित्यसमासः, एकापि सप्तमी विषयभेदाद्भिद्यते, सिति परतो नित्यसमासे च विषय इति, शाक्ल्यस्यायां विधिः शाकलः, ठ्कण्वादिभ्यो गोत्रेऽ इत्यण्। ऋत्विय इति। ऋतुरस्य प्राप्त इति ठृतोरण्ऽ, ठ्च्छन्दसि घस्ऽ। व्याकरणमिति। ठ्कुगतिप्रादयऽ इति समासः, तत्र ठ्नित्यम्ऽ इत्यनुवर्तते। कुमार्यथमिति। कुमार्यै इदं कुमार्यर्थम्, अस्वपदविग्रहोऽयं नित्यसमासः ॥
सिद्धान्तकौमुदी
पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युर्ह्रस्वश्च वा । अत्र ह्रस्वविधिसामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारोन कर्तव्यः इति भाष्ये स्थितम् । चक्रि अत्र । चक्र्यत्र । पदान्ताः इति किम् । गौर्यौ ॥ ।न समासे (वार्तिकम्) ॥ वाप्यश्वः ॥ ।सिति च (वार्तिकम्) ॥ पार्श्वम् ॥
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च - भाष्यकारमतमाह — अत्र ह्यस्वेति । अत्र चकारो न कर्तव्यः, प्रकृत्येत्यनुकर्षस्य व्यर्थत्वात् । नच विहितस्य ह्यस्वस्य यण्निवृत्त्यर्थः स इति वाच्यं, ह्यस्वविधिसामथ्र्यादेव यणो निवृत्तिसिद्धेः । अन्यथा यणमेव विदध्यात् । अतः प्रकृत्येत्यनुकर्षणार्थश्चकारो न कर्तव्य इति भाष्ये स्थितमित्यर्थः । चक्रि-अत्रेति ह्यस्वमनुच्चितप्रकृतिभावपक्षे रूपम् । तदभावपक्षे तु यणि चक्र्यत्रेति रूपम् । नचात्र ककारस्यस्कोः संयोगाद्यो॑रिति लोपः शङ्क्यः,अचः परस्मि॑न्निति यणः स्थानिवत्त्वेनाऽच्त्वेन पदान्तसंयोगाऽभावात् । नचपूर्वत्रासिद्धे न स्थानिव॑दिति तन्निषेधः शङ्क्यः,तस्य दोषः संयोगादिलोपलत्वणत्वे॑ष्विति वचनात् । न समासे । वार्तिकमेतत् । समासे उक्तशाकलविधिर्न भवतीत्यर्थः । वाप्यआ इति । वाप्यामआ इति विग्रहः । शौण्डादेराकृतिगणत्वात्सुप्सुपेति वा समासः ।सिति च । सकार इद्यस्य स सित्, तस्मिन् परे उक्तः शाकलविधिर्न भवतीत्यर्थः । पार्ामिति । पर्शु=पार्ाआस्थि । पर्शूनां समूहः पार्ाम् ।पर्ाआ णस् वक्तव्यः॑ इति णस् । आदिवृद्धिः । यणादेशः । अत्र पार्शु-अ इति स्थिते उक्तः शाकलो विधिर्न भवति । ओर्गुणस्तु न, भस्यैव तद्विधानात्,सिति चे॑ति पदत्वेन भत्वबाधात् ।अचो ञ्णिती॑ति वृद्धिरपि न भवति, आदिवृद्ध्या तद्बाधात् । तथाच मूलकारो वक्ष्यति-॒आदिवृद्धिरन्त्योपधावृद्धी बाधते॑ इति । अत्र सिन्नित्यसमासयोः शाकलप्रतिषेधः॑ इति वार्तिकं, तदिह द्विधा विभज्य व्याख्यातम् । नचैव सति वोप्यआ इत्यत्र कथं शाकलप्रतिषेधः, तत्र समासस्य वैकल्पिकत्वादिति वाच्यम्, भाष्ये नित्यग्रहणस्य प्रत्याख्यातत्वात् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
पदान्ता इको ह्रस्वा वा स्युरसवर्णेऽचि। ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः। चक्रि अत्र, चक्रय्त्र। पदान्ता इति किम्? गौर्यौ -।
महाभाष्यम्
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ( 2564) (चकारप्रत्याख्यानभाष्यम्) किमर्थश्चकारः ? प्रकृत्येत्येतदनुकृष्यते । किं प्रयोजनम् ? स्वरसन्धिर्मा भूदिति ।। नैतदस्ति प्रयोजनम् । ह्रस्ववचनसार्मथ्यान्न भविष्यति ।। भवेत् ‐ - दीर्घाणां ह्रस्ववचनसार्मथ्यात्स्वरसन्धिर्न स्यात्, ह्रस्वानां तु खलु स्वरसन्धिः प्राप्नोति । ह्रस्वानामपि ह्रस्ववचनसार्मथ्यात्स्वरसन्धिर्न भविष्यति । न ह्रस्वानां ह्रस्वाः प्राप्नुवन्ति । न हि भुक्तवान् पुनर्भुङ्क्ते, न वा कृतश्मश्रुः पुनः श्मश्रूणि कारयति । ननु च पुनः प्रवृत्तिरपि दृष्टा । भुक्तवानपि पुनर्भुङ्क्ते, कृतश्मश्रुरपि पुनः श्मश्रूणि कारयति । सार्मथ्यात्तत्र पुनः प्रवृत्तिर्भवति ‐ - भोजनविशेषात्, शिल्पिविशेषाद्वा । ह्रस्वानां पुनर्ह्रस्ववचने न किंचित् प्रयोजनमस्ति । अकृतकारि खल्वपि शास्त्रमग्निवत् । तद्यथा ‐ - अग्निर्यददग्धं तद्दहति ।। ह्रस्वानामपि ह्रस्ववचन एतत् प्रयोजनम् ‐ - स्वरसन्धिर्मा भूदिति । कृतकारि खल्वपि शास्त्रं पर्जन्यवत् । तद्यथा ‐ - पर्जन्यो यावदूनं पूर्णं च सर्वमभिवर्षति ।। इदं तर्हि प्रयोजनम् ‐ - प्लुतप्रगृह्या अनुकृष्यन्ते । इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च प्लुतप्रगृह्याश्च प्रकृत्या । नित्यग्रहणस्याण्येतत् प्रयोजनमुक्तम् । अन्यतरच्छक्यमवक्तुम् ।। (6231 प्रतिषेधोपसंख्यानवार्तिकम् ।। 1 ।।) - सिन्नित्यसमासयोः शाकलप्रतिषेधः - सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः । अयं ते योनिर्ऋत्वियः, प्रजां विदाम ऋत्वियाम्, वैयाकरणः, सौवश्वः ।। (वार्तिकस्थनित्यग्रहणप्रत्याख्यानभाष्यम्) नित्यग्रहणेन नार्थः । सित्समासयोः शाकलं न भवतीत्येव । इदमपि सिद्धं भवति ‐ - वाप्यामश्वो वाप्यश्वः, नद्यामातिर्नद्यातिः ।। (6232 उपसंख्यानवार्तिकम् ।। 2 ।।) - इर्षा अक्षादिषु छन्दसि प्रकृतिभावमात्रम् - इर्षा अक्षादिषु च छन्दसि प्रकृतिभावमात्रं द्रष्टव्यम् । इर्षा अक्षः, का इर्मिरे पिशङि्गला, यथा अङ्गदः ।।