Page loading... Please wait.
6|1|125 - प्लुतप्रगृह्या अचि नित्यम्
॥ तस्मै पाणिनये नमः ॥
6|1|125
SK 90
प्लुतप्रगृह्या अचि नित्यम्  
सूत्रच्छेदः
प्लुत-प्रगृह्याः (प्रथमाबहुवचनम्) , अचि (सप्तम्येकवचनम्) , नित्यम् (प्रथमैकवचनम्)
अनुवृत्तिः
प्रकृत्या  6|1|115 (तृतीयैकवचनम्)
अधिकारः
संहितायाम्  6|1|71
सम्पूर्णसूत्रम्
प्लुत-प्रगृह्याः अचि नित्यम् प्रकृत्या
सूत्रार्थः
प्लुतशब्दाः प्रगृह्यसंज्ञकशब्दाः च अच्-वर्णे परे प्रकृत्या भवन्ति ।
"प्रकृतिभावः" इत्युक्ते सन्धेः अभावः । यत्र संहितायाम् सत्याम् अपि, सन्धेः अवकाशे प्राप्ते अपि सन्धिः न भवति, तत्र "प्रकृतिभावः" अस्ति इति उच्चते । वर्तमानसूत्रेण प्लुतस्वरस्य प्रगृह्यसंज्ञकशब्दस्य च अच्-वर्णे परे प्रकृतिभावः भवति ।

किम् नाम प्लुत? ऊकालोऽज्झ्रस्वदीर्घप्लुतः 1|2|27 इत्यनेन स्वराणाम् ह्रस्व-दीर्घ-प्लुतादयः भेदाः जायन्ते । वाक्यस्य टेः प्लुतः उदात्तः 8|2|82 अस्मिन् अधिकारे दत्तैः सूत्रैः प्रक्रियायाम् प्लुतस्वरस्य निर्माणं भवति ।

किम् नाम प्रगृह्यः? ईदूदेद् द्विवचनम् प्रगृह्यम् 1|1|11 इत्यस्मात् सूत्रात् ईदूतौ च सप्तम्यर्थे 1|1|19 एतेषु नव सूत्रेषु प्रगृह्यसंज्ञा पाठिता अस्ति ।

प्लुतस्वरात् प्रगृह्यसंज्ञकशब्दात् वा अच्-वर्णः आगच्छति चेत् तत्र सन्धिः न भवति इति वर्तमानसूत्रस्य अर्थः । यथा -

1. "मुनी एतौ" - अत्र "मुनी" शब्दस्य ईदूदेद् द्विवचनम् प्रगृह्यम् 1|1|11 इत्यनेन प्रगृह्यसंज्ञा भवति, अतः अत्र यणादेशः सन्धिः न भवति ।
2. "एहि कृष्ण3, अत्र गौश्चरति" - अत्र णकारात् परः अकारः दूराद्धूते च 8|2|84 इत्यनेन प्लुतसंज्ञकः भवति, अतः अत्र सवर्णदीर्घः न भवति ।

प्रश्नः - अस्मिन् सूत्रे आचार्येण "नित्यम्" अयम् शब्दः किमर्थम् प्रयुक्तः अस्ति? अत्र केवलं "प्लुतप्रगृह्याः अचि [प्रकृत्या]" इति वदामश्चेत् कः दोषः?
उत्तरम् - इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च 6|1|127 तथा प्लुतप्रगृह्याः अचि नित्यम् 6|1|125 एतयोः सूत्रयोः समानकाले प्रसक्तिः अस्ति चेत् विप्रतिषेधात् इको सवर्णे शाकल्यस्य ह्रस्वश्च 6|1|127 इत्यस्य प्रयोगः मा भूत्, प्लुतप्रगृह्याः अचि नित्यम् 6|1|125 इत्यस्यैव प्रयोगः भवेत्, एतत् स्पष्टीकर्तुम् अत्र "नित्य"ग्रहणम् क्रियते ।
यथा - "मुनी + एतौ" इत्यत्र इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च 6|1|127 इत्यनेन "मुनि + एतौ" इत्यस्य प्रसक्तिः अस्ति । परन्तु वर्तमानसूत्रे "नित्यम्" इत्यस्य ग्रहणेन अत्र इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च 6|1|127 अस्य प्रयोगः न भवति ।
One-line meaning in English
प्लुत letters and प्रगृह्य words do not undergo a सन्धि when followed by an अच्-letter.
काशिकावृत्तिः
प्लुताश्च प्रगृह्याश्च अचि प्रकृत्या भवन्ति। देवदत्त3अत्र न्वसि। यज्ञदत्त3इदम् आनय। आश्रयादत्र प्लुतः सिद्धः। प्रगृह्याः अग्नी इति। वायू इति। खट्वे इति। माले इति। अचि इत्यनुवर्तमाने पुनरज्ग्रहणम् आदेशनिमित्तस्य अचिः परिग्रहार्थम्। तेन इह न भवति, जानु उ अस्य रुजति जान्वस्य रुजति। प्रगृह्यादुकारात् परस्य अकारस्य सवर्णदीर्घत्वं प्रत्यनिमित्तत्वादत्र प्रकृतिभावो न भवति। नित्यग्रहणम् इह अनुवर्तते। प्लुतप्रगृह्याणां नित्यम् अयम् एव प्रकृतिभावो यथा स्याद्, इको ऽसवर्णे शाकल्यस्य ह्रस्वश्च 6|1|127 इत्येतन् मा भूतिति।
`देवदत्ता 3 अत्र त्वसि` इति। `दूराद्धूते च` 8|2|84 इति प्लुतः। ननु च `पूर्वत्रासिद्धम्` 8|2|1 इत्यसिद्धः प्लुतः, तदसतसतसय कथं शक्यते परकृतिभावो विधातुम्? इत्यत आह--`आश्रयात्` इत्यादि। आश्रयणमाश्रयः। तदेतत्? प्रकृतिभावकार्यं विधातुं प्लुतस्य कार्यिण आश्रयणम्। अस्मादेवात्र प्रकृतिभावे कत्र्तव्ये सिद्धः प्लुतः, अन्यथा तस्य कार्यित्वेनाश्रयणमनर्थकं स्यात्। `अग्नी` इत्यादि। `ईदूदेद्द्विवचनम्` 1|1|11 इत्यादिना अत्र प्रगृह्रसंज्ञा। अथाचीति किमर्थम्, यावताऽचीत्यनुवत्र्तत एव? इत्यत आह--`अचीत्यनुवत्र्तमाने` इत्यादि। आदेशस्य निमित्तं योऽच्? तस्य परकृतिभावनिमित्तत्वेन परिग्रहो यथा स्यादित्येवमर्थं पुनरज्ग्रहणम्। आदेशस्त्वत्र यत्राचि प्रकृतिभावः--जानु+उ अस्य रुजति जानू अत्य रुजतीति। न हि ज नुशब्दे य उकारो यश्च तदनन्तरः प्रगृह्रसंज्ञकस्तयोः सवर्णदीर्घत्वं प्रति प्रगृह्रसंज्ञकादुकारात परस्याकारस्य निमित्तभावः। इह च न भवति--जान्वस्य रुजतीति। तेन पूर्वपरयोरुकारयोर्य एकादेशः, स यद्यपि `अन्तादिवच्च` 6|1|85 इत्यादिवद्भावात्? प्रगृह्रसंज्ञकोकारग्रहणेन गृह्रते, तथापि यणादेशोऽकारे परतो भवत्येव। न ह्रत्राप्यकार एकादेशनिमित्तम्। यदि तु विशिष्टाच्परिग्रहार्थं पुनरज्ग्रहणं न क्रियते, तदाऽञ्मात्रे प्रकृतिभावो विधीयमान इहापि स्यादेव। प्रगृह्रसंज्ञा पुनरकारपूरवस्योकारस्य `निपात एकाजनाङ्` 1|1|14 इत्यनेन। `नित्यगरहणम्` इत्यादि। यदि नित्यग्रहणमिहानुवत्र्तते, तदाग्नी+इतीत्यादौ अस्य विधेः कृतार्थत्वात्त वायू+अत्रेत्यादौ परत्वाच्छाकलौ विधिः प्रसज्येत। तस्मात्? प्रकृतिभाव एव यथा स्यात्--इत्येवमर्थं नित्यग्रहणमिहानुवत्र्तते॥
ननु यस्य विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः, न च प्लुतस्य विकारः प्राप्तः, स्वरसन्धिषु तस्यासिद्धत्वात्? इत्यत आश्रयात्प्लुतः सिद्धः इति। यदिदं प्लुतस्य प्रकृतिभावं प्रति कायित्वेनाश्रयणम्, आह--अस्मादेव ज्ञापकात् ठ्स्वरसन्धिषु प्लुतः सिद्धःऽ इति कल्प्यत इत्यर्थः। आदेशनिमितस्याचः परिग्रहार्थमिति। यस्मिन्नादेशो विधीयते स एव प्रकृतिभावस्यापि निमितत्वेन परिगृहीतो यथा स्यादित्येवमर्थमित्यर्थः। जानु उ अस्येति। उञ् निपातः, तस्य पूर्वेण सहैकादेशस्य यन्निमितं न सप्रगृह्यादुतरः, यश्च ततः परो न स एकादेशस्य निमितमिति प्रकृतिभावाभावादेकादेशो भवत्येव। असति पुनरज्ग्रहणे ठ्प्रगृह्यएऽचि परतः प्रकृत्या भवतिऽ इत्युच्यमाने पूर्वेणसह यो विकारः प्राप्तस्तस्यापि प्रकृतिभावः स्यात्। पुनरज्ग्रहणे तु न भवति, तत्रैकादेशे कृते तस्यादिवद्भावात्प्रगृह्यग्रहणेन ग्रहणात्। ठिको यणचिऽ इति यणादेशः प्रकृतिवद्भावान्न भवति, ठ्मय उञो वो वाऽ इति पक्षे वकारः। नित्यग्रहणमनुवर्तत इति। पूर्वसूत्रे नित्यग्रहणमेतदर्खमेव कृतम्, तत्र त्वारन्भसामर्थ्यादेव नित्यो विधिः सिद्धः। नित्यमेव प्रकृतिभावो यथा स्यादिति। अयमेव प्रकृतिभावो नित्यं यथा स्यात्, शास्त्रान्तरेण कार्यान्तरसहितो मा भूदित्यर्थः ॥
सिद्धान्तकौमुदी
॥ अथ प्रकृतिभावप्रकरणम्‌ ॥

प्लुताः प्रगृह्याश्च वक्ष्यन्ते तेऽचि वरे नित्यं प्रकृत्या स्युः । एहि कृष्ण 3 अत्र गौश्चरति । हरी एतौ । नित्यम् इति किम् । हरी एतावित्यादावयमेव प्रकृतिभावो यथा स्यात् इकोऽसवर्णे (कौमुदी-91) इति ह्रस्वसमुच्चितो माभूत् ॥
प्लुतप्रगृह्या अचि नित्यम् - अथ प्रकृतिभाव इति । "निरूप्यते" इति शेषः । प्लतुप्रगृह्राः । वक्ष्यन्त इति ।दूराद्धूते चे॑त्यादिना, ईदूदेदित्यादिना चेत्यर्थः । प्रकृत्येति । "प्रकृत्यान्तः पाद" मित्यतदस्तदनुवृत्तेरिति भावः । प्रकृत्या स्वभावेनाऽवस्थिताः स्युरित्यर्थः । सन्धयो न भवन्तीति यावत् । एहि कृष्णा३ अत्रेति ।दूराद्धूते चे॑ति णकारादकारः प्लुतः । तस्य अकारे न सवर्णदीर्घः । हरी एताविति ।ईदूदे॑दिति रेफादीकारः प्रगृह्रः । तस्य यणादेशो न भवति । ननु सर्वत्र विभाषेति पूर्वसूत्रे विभाषेत्यस्याऽस्वरितत्वादेव निवृत्तिसिद्धेरिह नित्यग्रहणं किमर्थमिति पृच्छति-नित्यमिति किमिति । उत्तरमाह-हरी एताविति । नित्यग्रहणे सत्येव हरी एतावित्यादौप्लुतप्रगृह्रा अची॑ त्ययमेव केवलः प्रकृतिभावः स्यादित्यर्थः ।यथा॑शब्दो योग्यतायाम् । अयमेव प्रकृतिभावः प्राप्तुं योग्यः । स च नित्यग्रहणे सति प्राप्नुयादित्यर्थः । एवमग्रेऽप्येवंजातीयकेषु ।एव॑शब्दव्यवच्छेद्यं दर्शयति-इक इति ।इकोऽसवर्णे शाकल्यस्य ह्यस्वश्चे॑ति वक्ष्यमाणः ह्यस्वसमुच्चितः प्रकृतिभावो माभूत्=न भवेत् । माङि लुङ् । सर्वलकारापवादः । अकृते सति नित्यग्रहणे परत्वाच्छाकलह्यस्वसहितप्रकृतिभावः प्रसज्येत । नित्यग्रहणे कृते तु तत्सामथ्र्यादेव परमपि शाकलं ह्यस्वसमुच्चितप्रक-तिभावं "प्लुतप्रगृह्रा" इति केवलः प्रकृतिभावो बाधत इत्यर्थः ।
प्लुतप्रगृह्या अचि नित्यम् - प्लुतप्रगृह्राः । प्रकृति भावं प्रति प्लुतो नाऽसिद्धः, प्लुतमनूद्य प्रकृतिभावविधानसामथ्र्यात् । अचि किम् ,जानु उ जानू॑ । उञः प्रगृह्रत्वेऽपीह सवर्णदीर्घः ।अची॑त्यनुवर्तमाने पुनरचिग्रहणमादेशनिमित्ते एवाऽचि प्रकृतिभावः । तेन इहाप्येकादेशः स्यादेव-॒जानु उ अस्य रुजति॑,जानू अस्य रुजति॑ । इहमय उञः॑ इति पाक्षिके वकारे तुजान्वस्य रुजति॑ । एहि कृष्णेति ।दूराद्धूते चे॑ति प्लुतः । प्राचा तु-॒कृष्णा एही॑ति उदाह्मतम् । तदसत् ।वाक्यस्य टेः॑-इत्यधिकारात् । ह्यस्वसमुच्चितो मा भूदिति । अयं भावः-॒हरी ईशा॑वित्यादौप्लुतप्रगृह्राः॑इत्येतत्सावकाशम्,चक्री अत्रे॑त्यत्र तुइकोऽसवर्णे-॑ इति । ततश्चहरी एता॑वित्यत्र परत्वाद्ध्रस्वसमुच्चित एव स्यात् । नित्यग्रहणे तु कृते तत्सामथ्र्यात्परमपि बाधत इति ।चक्रयत्रेति । इहस्कोः॑ इति कलोपो न, यणः कार्यकालपक्षे बहिरङ्गपरिभाषया असिद्धत्वात्, स्थानिवद्भावाच्च ।पूर्वत्रासिद्धे न स्थानिव॑दिति तु नास्ति,तस्य दोषः संयोगादिलोपलत्वणत्वेषु॑ इति वक्ष्यमाणत्वात् । पार्ामिति । पर्शूनां समूहः ।पर्ाआ णस् वक्तव्यः॑ इति णस् । ओर्गुणस्तु न,सिति चे॑ति पदत्वस्य भत्वापवादत्वात् ।
लघुसिद्धान्तकौमुदी
एतेऽचि प्रकृत्या स्युः। आगच्छ कृष्ण 3 अत्र गौश्चरति॥
महाभाष्यम्
प्लुतप्रगृह्या अचि नित्यम् (2562) (नित्यग्रहणप्रयोजनभाष्यम्) नित्यग्रहणं किमर्थम् ? विभाषा मा भूदिति । नैतदस्ति प्रयोजनम् । पूर्वस्मिन्नेव योगे विभाषाग्रहणं निवृत्तम् । इदं तर्हि प्रयोजनम् ‐ - प्लुतप्रगृह्याणामचि प्रकृतिभाव एव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति । किं चान्यत्प्राप्नोति ? शाकलम् । (सिन्नित्यसमासयोः शाकलप्रतिषेधं वक्ष्यति स न वक्तव्यो भवति) ।। (अज्ग्रहणप्रयोजनभाष्यम्) अथाज्ग्रहणं किमर्थम् ? अचि प्रकृतिभावो यथा स्यात् ।। (6225 अज्ग्रहणाक्षेपवार्तिकम् ।। 1 ।।) - प्लुतप्रगृह्येष्वज्ग्रहणमनर्थकमधिकारात्सिद्धम् - प्लुतप्रगृह्येषु अच्ग्रहणमनर्थकम् । किं कारणम् ? अधिकारादेव सिद्धम् । अचि इति प्रकृतमनुवर्तते । क्व प्रकृतम् ? इको यणचि 6|1|77 इति ।। (6226 समाधानवार्तिकम् ।। 2 ।।) - तत्तु तस्मिन् प्रकृतिभावार्थम् - तत्तु द्वितीयमज्ग्रहणं कर्तव्यम्, प्रकृतिभावार्थम् । तस्मिन्नचि पूर्वस्य प्रकृतिभावो यथा स्यात् । इह मा भूत् ‐ जानु उ अस्य रुजति, जानू अस्य रुजति, जान्वस्य रुजतीति ।। (प्लुतस्य प्रकृतिभावाक्षेपभाष्यम्) अथ किमर्थं प्लुतस्य प्रकृतिभाव उच्यते ? स्वरसन्धिर्मा भूदिति । उच्यमानेऽप्येतस्मिन् स्वरसन्धिः प्राप्नोति । प्लुते कृते न भविष्यति । असिद्धः प्लुतस्तस्यासिद्धत्वात्प्राप्नोति ।। (6227 समाधानवार्तिकम् ।। 3 ।।) - प्लुतप्रकृति भाववचनं तु ज्ञापकमेकादेशात् प्लुतो विप्रतिषेधेनेति - यदयं प्लुतः प्रकृत्येति प्रकृतिभावं शास्ति तज्ज्ञापयत्याचार्यः ‐ - एकादेशात्प्लुतो भवति विप्रतिषेधेनेति ।। (6228 समाधानाक्षेपवार्तिकम् ।। 4 ।।) - एकादेशात् प्लुतो विप्रतिषेधेनेति चेच्छालेन्द्रेऽतिप्रसङ्गः - एकादेशात्प्लुतो विप्रतिषेधेनेति चेत् शालेन्द्रेऽतिप्रसङ्गो भवति । शालायामिन्द्र ‐ शालेन्द्रः ।। (6229 समाधानवार्तिकम् ।। 5 ।।) - न वा बहिरङ्गलक्षणत्वात् - न वाऽतिप्रसङ्गः । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गः प्लुतः, अन्तरङ्ग एकादेशः । असिद्धं बहिरङ्गमन्तरङ्गे ।।