Page loading... Please wait.
6|1|124 - इन्द्रे च नित्यम्
॥ तस्मै पाणिनये नमः ॥
6|1|124
SK 89
इन्द्रे च नित्यम्   🔊
सूत्रच्छेदः
इन्द्रे (सप्तम्येकवचनम्) , च (अव्ययम्) , नित्यम् (प्रथमैकवचनम्)
अनुवृत्तिः
गोः    6|1|122 (षष्ठ्येकवचनम्) , अवङ्  6|1|123 (प्रथमैकवचनम्)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
गोः इन्द्रे अवङ् नित्यम्
सूत्रार्थः
गो-शब्दस्य इन्द्र-शब्दे परे नित्यम् अवङ्-आदेशः भवति ।
"गो + इन्द्र" इत्यत्र अवङ् स्फोटायनस्य 6|1|123 इत्यनेन विकल्पेन अवङ्-आदेशे प्राप्ते अनेन सूत्रेण सः नित्यं भवति ।
यथा - गो + इन्द्र = ग् अव इन्द्र = गवेन्द्र ।
One-line meaning in English
The word गो when followed by the word इन्द्र compulsorily gets the अवङ्-आदेश.
काशिकावृत्तिः
इन्द्रशब्दस्थे अचि परतो गोर्नित्यम् अवङादेशो भवति। गवेन्द्रः। गवेन्द्रयज्ञस्वरः।
`इन्द्रशब्दस्थे` इति। य इन्द्रशब्दे तिष्ठति स इन्दरशब्दस्यः, स पुनर्य इन्द्रशब्दस्थावयवः स वेदितव्यः। पूर्वेण विकल्पः सिद्ध एव, तत्रारम्भसामव्र्यादेव नित्ये विधावस्मल्लब्धे नित्यग्रहणमुत्तरार्थम्॥
अत्र यदि ठचिऽ इति विसेषणम्, इन्द्रशब्दो विशेष्यम्, तदाऽजादौ इन्द्रशब्द इत्यर्थः स्यात्। ततश्च गवेन्द्रयज्ञ इत्यादौ न स्यात्, अनुतरपदत्वात्। यद्यप्यत्रोतरपदग्रहणं नास्ति, तथाप्यर्थात्समास एतद्विधानम्, न ह्यन्यत्र गोरनन्तर इन्द्रशब्दः सम्भवति। समासे च विधानमर्थादुतरपद एव स्यात्--ष्यङः सम्प्रसारणवत्, तस्मादज्विशेष्यम्, इन्द्रशब्दो विशेषणम्, अचि परतः कस्मिन्निन्द्रे यः स्थितस्तस्मिन्निति, तदिदमुक्तम्--इन्द्रशब्दस्थेऽचीति ॥
सिद्धान्तकौमुदी
गोरवङ् स्यादिन्द्रे । गवेन्द्रः ॥। इति अच्सन्धिप्रकरणम्‌ ।
इन्द्रे च (नित्यम्) - इन्द्रे च ।गोः॑,अवङ्,अची॑त्यनुवर्तते । तदाह — गोरिति । विकल्पनिवृत्त्यर्थः । गवेन्द्र इति । गो-इन्द्र इति स्थिते अवङ् । आद्गुणः ।*****समाप्तम्*****अथ अदादिप्रकरणम् ।
इन्द्रे च (नित्यम्) - इन्द्रे च । आरम्भसामथ्र्यान्नित्यमिदम् । इदं च सूत्रंत्यक्तुं शक्यम् । अन्यार्थं स्वीकृतेन व्यवस्थितविभाषाश्रयणेनैवेष्टसिद्धेरित्याहुः । प्लुतुप्रगृह्राः — ॑ इति सूत्रादव्यवहितपूर्वःअथ प्रकृतिभावः॑ इति पाठो मूलपुस्तकेषु प्रायेण दृश्यते, स चाऽपपाठ पव ।सर्वत्र विभाषा गोः;॑ इति प्रकृतिभावस्य प्रागेवारब्धत्वादित्येके । अन्ये तुअवङ् स्फोटायनस्य॑ इन्द्रे चे॑ति सूत्रद्वयं प्रकृतिभावप्रकरणे पठितमपि तद्बहिर्भूतमित्यवश्यं वक्तव्यं, ताभ्यां तदविधानात् । न चअवङ्सूत्रस्य प्रकृतिभावापवादत्वेनोत्सर्गापवादरूपत्वात्तत्प्रकरणस्थत्वं सूपपादमित्यवङादेशानुवृत्त्यर्थं तदनन्तरं पठितस्यइन्द्रे चे॑ति सूत्रस्यापीति वाच्यम् ; पूर्वरूपापवादत्वस्यापिअवङ्सूत्रस्य सुवचत्वात् । एतत्प्रकरणपाठस्य गोशब्दानुवृत्त्यर्थतया चरितार्थत्वात् । एवं च स्वलेख्यप्रकृतिभावप्रकरणाद्बहिस्तत्सूत्रद्वयं लिखितं, तदनुकूलत्वेनसर्वत्र विषाषे॑ति सूत्रमपि तत्रैवेति स्थितस्य गतिर्बोध्येत्याहुः ।अथ तत्त्वबोधिन्याम् अदादिप्रकरणम् ।
लघुसिद्धान्तकौमुदी
गोरवङ् स्यादिन्द्रे। गवेन्द्रः॥
महाभाष्यम्
इन्द्रे च (2561) (न्यासाक्षेपसमाधानभाष्यम्) इन्द्रादाविति वक्तव्यम् । इहापि यथा स्यात् ‐ - गवेन्द्रयज्ञे वीहीति । तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । नैवं विज्ञायते ‐ - इन्द्रेऽचीति । कथं तर्हि ? अचि भवति, कतरस्मिन् ? इन्द्रेऽचीति ।।