Page loading... Please wait.
6|1|122 - सर्वत्र विभाषा गोः
॥ तस्मै पाणिनये नमः ॥
6|1|122
SK 87
सर्वत्र विभाषा गोः   🔊
सूत्रच्छेदः
सर्वत्र (अव्ययम्) , विभाषा (प्रथमैकवचनम्) , गोः (षष्ठ्येकवचनम्)
अनुवृत्तिः
अति  6|1|109 (सप्तम्येकवचनम्) , पदान्तात्  6|1|109 (पञ्चम्येकवचनम्) , एङः  6|1|109 (पञ्चम्येकवचनम्) , प्रकृत्या  6|1|115 (तृतीयैकवचनम्)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
पदान्तात् गोः एङः अति सर्वत्र प्रकृत्या विभाषा
सूत्रार्थः
पदसंज्ञकस्य गो-शब्दस्य अन्ते विद्यमानात् एकारात्/ओकारात् ह्रस्व अकारे परे लोके वेदे च विकल्पेन प्रकृतिभावः भवति ।
प्रकृतिभावः इत्युक्ते सन्धेः अभावः । लौकिकसंस्कृते वैदिकसंस्कृते च पदसंज्ञकस्य गो-शब्दस्य अन्ते विद्यमानात् एकारात् / ओकारात् ह्रस्व-अकारे परे संहितायाम् सत्याम् अपि विकल्पेन सन्धिः न भवति । विकल्पाभावे तु एङः पदान्तादति 6|1|109 इत्यनेन पूर्वरूप-एकादेशः भवति ।

यथा = गो + अग्रम् = गो अग्रम् , गोऽग्रम् ।

ज्ञातव्यम् -

1. गो-शब्दस्य पदान्ते विद्यमानस्य एङ्-वर्णस्य एव प्रकृतिभावः अत्र उच्यते , अपदान्ते विद्यमानस्य न । यथा, गो-शब्दस्य पञ्चम्येकवचनस्य प्रक्रियायाम् "गो + अस्" इति स्थिते अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः अत्र "गो" इति पदम् नास्ति । अतः अत्र ङसिङसोश्च 6|1|110 इत्यनेन पूर्वरूप-एकादेशे कृते गोः इति रूपं सिद्ध्यति ।

2. गो-शब्दस्य केवलं एङन्त-पदस्य एव अनेन सूत्रेण प्रकृतिभावः विधीयते । यथा - "चित्रगु + अग्रम्" इत्यत्र संहितायां सत्याम् यणादेशः नित्यं भवति, विकल्पेन न । अतः "चित्रग्वग्रम्" इत्येव पदं सिद्ध्यति ।
One-line meaning in English
An एकार/ओकार occurring at the end of the पदसंज्ञक गो शब्द exhibits optional प्रकृतिभाव when followed by a ह्रस्व अकार.
काशिकावृत्तिः
सर्वत्र छन्दसि भाषायां च अति परतो गोः एङ् प्रकृत्या भवति विभाषा। गो ऽग्रम्, गो अग्रम्। छन्दसि अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वान्।
Text Unavailable. Please use feedback link below to provide the text if you have.
सर्वत्र च्छन्दसि भाषायां चेति। यद्यपि ठ्च्छन्दसिऽ इति न प्रकृतम्, तथापि ठन्तः पादं यजुषिऽ इति वचनात् अवक्रमुः, अव्रतावस्युरिति छान्दसानुकरणाच्च छान्दसानि पूर्वसूत्राणीति भावः। सर्वत्रग्रहणं तु यजुषि, अन्यत्र चेत्यप्युपपन्तम्। पदान्तादित्येव--गोरागतं गोः स्वम् ॥
सिद्धान्तकौमुदी
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः स्यात्पदान्ते । गो अग्रम् । गोऽग्रम् । एङन्तस्य किम् । चित्रग्वग्रम् । पदान्ते किम् । गोः ॥
सर्वत्र विभाषा गोः - सर्वत्र विभाषा । पदान्तादित्यनुवर्तते ।प्रकृत्यान्तः पाद॑मित्यतःप्रकृत्ये॑त्यनुवर्तते । प्रकृत्या=स्वभावेन निर्विकारस्वरूपेणाऽवतिष्ठते इत्यर्थः । "यजुष्युर" इत्यतो यजुषीति निवृत्तं । तत्सूचनायसर्वत्रे॑त्युपात्तम् । तेन लोके वेदे चेति लभ्यते । तदाह — लोक इत्यादि । प्रकृतिभाव इति । स्वभावेनावस्थानमित्यर्थः । एवं च पूर्वरूपमवादेशश्च न । गो-अग्रमिति प्रकृतिभावे रूपम् । पूर्वरूपे गोऽग्रमिति । अत्र एङ इत्यप्यनुवर्तते । ततश्चैकदेशविकृतमनन्यवद्भवतीति न्यायेन चित्रग्वग्रमित्यत्र नातिप्रसङ्गः । हे चित्रगोऽग्रमित्यत्रापि न प्रकृतिभावः, प्रतिपदोक्तस्यैवैङो ग्रहणात् । प्रकृते च "ह्यस्वस्य गुण" इत्योकारस्य लाक्षणिकत्वात् । गोरिति । गो असिति स्थिते गो इत्योकारस्य पदान्तत्वाऽभावान्न प्रकृतिभावः । नचैवमपदान्तत्वादेङः पदान्तादिति पूर्वरूपमपि दुर्लभमिति वाच्यम्, अत एवङसिङसोश्चे॑ति तत्र पूर्वरूपारम्भात् ।
सर्वत्र विभाषा गोः - सर्वत्र विभाषा । यद्यपीहछन्दसि॑ इति न पकृतम्, तथापियजुष्युरः॑ इत्यादिप्रक्रमाच्छन्दस्येवेति संभाव्येत, अतःसर्वत्रेत्युक्तम् । तद्व्याचश्टे-लोके वेदे चेति । इहएङ॑ इत्यनुवर्त्त्यएङन्तस्य गो॑रिति व्याख्येयम् । तेनेह न — चित्रग्वग्रम् । प्रकृतिभाव इति । एतच्चप्रकृत्यान्तःपाद॑मिति सूत्रात्प्रकृत्येत्यनुवृत्त्या लभ्यते ।नान्तःपाद॑मिति पाठे तुसर्वत्र विभाषे॑ति सूत्रेण पूर्वरूपमेव विभाषा निषिध्यत इत्यवधेयम् । निषेधविकल्पे विधिविकल्पः फलित इत्याशयेन पूर्वरूपमेवविकल्प्यत इति मनोरमायां स्थितम् ।
लघुसिद्धान्तकौमुदी
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गोऽग्रम्। एङन्तस्य किम्? चित्रग्वग्रम्। पदान्ते किम्? गोः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.