Page loading... Please wait.
6|1|120 - अनुदात्ते च कुधपरे
॥ तस्मै पाणिनये नमः ॥
6|1|120
SK 3523
अनुदात्ते च कुधपरे   🔊
सूत्रच्छेदः
अनुदात्ते (सप्तम्येकवचनम्) , च (अव्ययम्) , कुधपरे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
यजुषि इत्येव। अनुदात्ते च अति कवर्गधकारपरे परतो यजुसि विषये एङ् प्रकृत्या भवति। अयं सो अग्निः। अयं सो अध्वरः। अनुदात्ते इति किम्? अधोग्रे। अग्रशब्द आद्युदात्तो निपात्यते। कुधपरे इति किम्? सो ऽयम् अग्निः सहस्रियः।
`कुधपरे` इति। अकारविशेषममेतत्। कुधौ परौ यस्मात्? स तथोक्तः। धकारेऽकार उच्चारणार्थः। `अयं सो अग्निः` इति। अग्निशब्दः `अङ्गेर्निर्नलोपश्च` [अङ्गेर्नलोपश्च--द।उ।] (द।उ।1।20) इति निप्रत्ययान्तो व्युत्पादित इति प्रत्ययस्वरेणान्तोदात्तः, शषोऽनुदात्त इत्यकारस्यानुदात्तत्वम्। `अयं सो अध्वरः` इति। अध्वरशब्दोऽपि प्रातिपदिकस्वरेणान्तोदात्तः, तदादिरप्यकारोऽनुदात्त एव। `आद्युदात्तो निपात्यते` इति। ऋडज्त्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुकरशुक्लगौरवनरेरामलाः (द।उ।8।46) इत्यनेन। `सोऽयम्` इति। अयंशब्दः प्रातिपदिकस्वरेणान्तोदात्तः, तस्यादिरनुदात्तः॥
कवर्गधकारपरे इति। कवर्गधकारौ परौ यस्मात्स तथोक्तः। धकारेऽकार उच्चारणार्थः। अग्निशब्दः ठङ्गेनिर्नलोश्चऽ इति निप्रत्ययान्तोऽन्तोऽदातः अध्वरशब्दः प्रातिपदिकस्वरेयणान्तोदातः। आद्यौदातो निपात्यत इति। ठृन्नेन्द्राग्रऽ इत्यादावुणादिसूत्रे अग्रशब्दः प्रातिपदिकस्वरेणान्तोदातः ॥
सिद्धान्तकौमुदी
कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि । अयं सो अग्निः (अ॒यं सो अ॒ग्निः) । अयं सो अध्वरः (अ॒यं सो अ॑ध्व॒रः) । अनुदात्ते किम् । अथोऽग्रे रुद्रे । अग्रशब्द आद्युदात्तः । कुधपरे किम् । सोऽयमग्निमतः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.