Page loading... Please wait.
6|1|119 - अङ्ग इत्यादौ च
॥ तस्मै पाणिनये नमः ॥
6|1|119
SK 3522
अङ्ग इत्यादौ च  
सूत्रच्छेदः
अङ्गे (सप्तम्येकवचनम्) , इत्यादौ (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अङ्गशब्दे य एङ् तदादौ चाकारे यः पूर्वः स यजुसि विषये अति प्रकृत्या भवति। ऐन्द्रः प्राणो अङ्गे अङ्गे अदीध्यत्। ऐन्द्रः प्राणो अङ्गे अङ्गे निदीध्यत्। ऐन्द्रः प्राणो अङ्गे अङ्गे अरोचिषम्।
`अङ्ग इत्यादौ च` इति। इतिकरणेनान्तरोक्तोऽङ्गशब्दः प्रत्यवमुश्यते। `तदादौ चाकारे` इति। समानाधिकरणे सप्तम्यौ। तच्छब्देनातिक्रान्तप्रत्यवमर्शिनेतिकरणस्यार्थमाचष्टे--तदादाविति। अङ्गशब्दादावित्यर्थः। `यः पूर्वः` इति। `एङ्` इति सम्बध्यते। चकारोऽङ्गशब्दस्यादौ योऽकारसतत्राप परतः पूर्वस्यैङः प्रकृतिभावो यथा स्यादिति समुच्चयार्थः क्रियते। तत्र ह्रसत्यङ्गशब्दाकारे परतोऽङ्गशब्दस्य य एङ् तस्यैव प्रकृतिभावः स्यात्। यस्त्वङ्गशब्दे परतोऽनङ्गशब्दस्यैङ् तत्र न स्यात्। `प्राणो अङ्गे` इत्यादि। अत्र प्राणो-शब्दे य एङ् अङ्गशब्दादावकारे प्रकृत्या भवति। `अङ्ग अङ्गे अदीध्यत्` इति। अत्राङ्गशब्दे य एङ् तस्याङ्गशब्दादावकारेऽदीध्यच्छब्दादौ प्रकृतिभावो भवति॥
अङ्गशब्दे य एङिति। ठ्स प्रकृत्या भवतिऽ इति वक्ष्यमाणेन सम्बन्धः। तदातौ चाकारे यः पूर्व इति। ठेङ्ऽ इत्यपेक्ष्यते, पूर्ववच्च सम्बन्धः। तच्छब्देनातिक्रान्तप्रत्यवमर्शिनेतिशब्दस्यार्थमाचष्टे, तस्याङ्गशब्दस्यादिस्तदादिः। चकार किमर्थः, असति चकारेऽङ्गशब्दस्यैवैङ् तदादावति परतः प्रकृत्या भवतीत्यर्थः स्यात्, ततश्चाङ्गेऽङ्गे इत्यत्रैव स्यात्। सति तु तस्मिन्नङ्गशब्दस्य एवैङ् यत्र क्वचिदति परतः प्रकृत्या भवति, तदादौ चाति परतो यः कश्चिदेङ् प्रकृत्या भवतीत्ययमर्थो भवति। तेन अङ्गे अदीध्यत्, प्राणो अङ्गे-- इत्युभयत्रापि भवति ॥
सिद्धान्तकौमुदी
अङ्गशब्दे य एङ् तदादौ च अकारे य एङ् पूर्वः सोऽति प्रकृत्या यजुषि । प्राणो अङ्गे अङ्गे अदीध्यत् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.