Page loading... Please wait.
6|1|116 - अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च
॥ तस्मै पाणिनये नमः ॥
6|1|116
SK 3519
अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च   🔊
सूत्रच्छेदः
अव्यात्-अवद्यात्-अवक्रमुः-अव्रत-अयम्-अवन्तु-अवस्युषु (सप्तमीबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अव्यातवद्यातवक्रमुः अव्रत अयम् अवन्तु अवस्यु इत्येतेषु वकारयकारपरे ऽप्यति परतः अन्तःपादम् एङ् प्रकृत्या भवति। अग्निः प्रथमो वसुभिर्नो अव्यात्। मित्रमहो अवद्यात्। मा शिवासो अवकृअमुः। ते नो अव्रताः। शतधारो अयं मणिः। ते नो अवन्तु पितरः। कुशिकासो अवस्यवः।
`नो अव्यात्` इति। अस्मादो द्वितीयबहुवचनान्तस्य `बहुवचनस्य वस्नसो` 8|2|21 इति नसि रुत्वे `अतो रोरप्लुतादप्लुते` 6|1|113 इत्युत्त्वे `आद्? गुणः` 6|1|84 इति गुणे कृते `नो` इति भवति। `अव रक्षणे` (धा।प।600) इत्यस्मादाशिषि लिङि यासुटि तिपि `इतश्च` 3|4|97 इतीकारलोपे `स्कोः संयोगाद्योरन्ते च` 8|2|29 इति सकरलोपे च कृते `अव्यात्` इति भवति। `अवद्यात` इति। अवद्यशब्दोऽयं पञ्चम्येकवचनान्तः। `अवक्रमुः` इति। अवपूर्वात्? क्रमेर्लिटउसि रूपमेतत्। अन्ये तु लुङि वर्णयन्ति--`बहुलं छन्दसि` 2|4|76 इति च्लेः श्लुः, `श्लौ` 6|1|10 इति द्विर्वचनम्, जुस्भावश्छान्दसः। `अवन्तु` इति। अवतेर्लोट्, झेरन्तादेशः, `एरुः` 3|4|76 इत्युत्त्वम्। `अवस्यवः` इति। अवतेः `सर्वधातभ्योऽसुन्` (द।उ।9।49) इति असुन्--अवस्? इति, ततः `सुप आत्मनः क्यच्` 3|1|8 इति क्यच्, तदन्तात्? `क्याच्छन्दसि` 3|2|170 इत्युप्रत्ययः, ततो जस्, `जसि च` 7|3|109 इति गुणः--ओकारः, `एचोऽयवायावः` 6|1|75 इत्यवादेशः॥
अव्यादीनामनुकरणत्वात्समासो विभक्तिश्च। अव्यादिति। अवेराशिषि लिङ्। अवद्यादिति। पञ्चम्येकवचनान्तम्। अवक्रमुरिति। अवपूर्वस्य क्रमेर्लिट।लुसि ठ्दिर्वचनप्रकरणे च्छन्दसि वा वक्तव्यम्ऽ इति द्विर्वचनाभावे रूपम्। केचितु सूत्रे अवचक्रमुरिति कृतद्विर्वचनं वठन्ति, तेषामुदाहरणं मृग्यम्; बह्वृचस्तावद्--अवक्रमुरित्यधीयते। अव्रतेति। वृङ्वृञोः ठ्मन्त्रे घसऽ इत्यादिना च्लेर्लुक्, ठात्मनेपदेप्वनतःऽ इति अदादेशः। अयमिति। इदम्-शब्दात् सुः, ठिदोऽय् पुंसिऽ। अवतेर्लोट्, अवन्तु, तस्मादेवासुनन्तात् क्यच्, ठ्क्याच्छन्दसिऽ इत्युप्रत्ययः-- अवस्युः। तेनोवन्तु पितरो हवेष्विति बह्वृचाः पूर्वरूपमेवाधीयते। अधिब्रुवन्तुं तेऽवन्त्वस्मानिति ॥
सिद्धान्तकौमुदी
एषु व्यपरेऽप्यति एङ् प्रकृत्या । वसुभिर्नो अव्यात् (वसु॑भिर्नो अव्यात्) । मिमहो अवद्यात् (मि॑महो अ॒व॒द्यात्) । मा शिवासो अवक्रमुः (मा शि॑वासो॒ अव॑क्रमुः) । ते नो अव्रत (ते नो॑ अव्रत) । शतधारो अयं मणिः (श॒तधा॑रो अ॒यं म॒णिः) । ते नो अवन्तु (ते नो॑ अवन्तु) । कुशिकासो अवस्यवः (कुशि॒कासो॑ अव॒स्यवः॑) । यद्यपि बह्वृचैस्तेनोऽवन्तु, रथतूः, सोऽयमगात्, तेऽरुणेभिरित्यादौ प्रकृतिभावो न क्रियते तथापि बाहुलकात्समाधेयम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.