Page loading... Please wait.
6|1|113 - अतो रोरप्लुतादप्लुते
॥ तस्मै पाणिनये नमः ॥
6|1|113
SK 163
अतो रोरप्लुतादप्लुते  
सूत्रच्छेदः
अतः (पञ्चम्येकवचनम्) , रोः (षष्ठ्येकवचनम्) , अप्लुतात् (पञ्चम्येकवचनम्) , अप्लुते (सप्तम्येकवचनम्)
अनुवृत्तिः
अति  6|1|109 (सप्तम्येकवचनम्) , उत्  6|1|111 (प्रथमैकवचनम्)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
अप्लुतात् अतः रोः उत् अप्लुते अति
सूत्रार्थः
अप्लुत-ह्रस्व-अकारात् परस्य रुँ-इत्यस्य अप्लुत-ह्रस्व-अकारे परे उकारादेशः भवति ।
यथा, "राम + सुँ + अस्ति" इत्यस्य प्रक्रियायाम् -

राम + सुँ + अस्ति
→ राम + रुँ + अस्ति [ससजुषोः रुः 8|2|66 इति रुत्वम् ।]
→ राम + उ + अस्ति [अतो रोरप्लुतादप्लुते 6|1|113 इति रुँ-इत्यस्य उत्वादेशः ।]
→ रामो + अस्ति [आद्गुणः 6|1|87 इति गुण-एकादेशः]
→ रामोऽस्ति [एङः पदान्तादति 6|1|109 इति पूर्वपरयोः एकः ओकारादेशः]

ज्ञातव्यानि -

1. अस्याम् प्रक्रियायाम् त्रिपाद्याः सूत्रात् अनन्तरम् अतो रोरप्लुतादप्लुते 6|1|113 इत्यस्य प्रयोगः कृतः अस्ति । एतत् असिद्धाधिकारस्य उल्लङ्घनम् नास्ति, यतः अतो रोरप्लुतादप्लुते 6|1|113 अस्य सूत्रस्य प्रसक्तिः केवलं त्रिपाद्याः अनन्तरम् एव भवितुम् शक्नोति - रुँत्वविधायकानि सूत्राणि केवलं त्रिपाद्यामेव वर्तन्ते । अतः यदि अत्र असिद्धाधिकारस्य प्रयोगं कुर्मः तर्हि अतो रोरप्लुतादप्लुते 6|1|113 अस्य सूत्रस्य अवकाशः एव विनश्येत् । एतत् मा भूत्, अतः अतो रोरप्लुतादप्लुते 6|1|113 अस्य प्रयोगः त्रिपाद्याः अनन्तरम् भवितुम् अर्हति ।

अतः स्मर्तव्यम् - यदि कस्यचन सूत्रस्य केवलं त्रिपाद्याः अनन्तरम् एव प्रयोगः भवितुं शक्यते, तर्हि तत् सूत्रम् त्रिपाद्याः कृते असिद्धम् नास्ति ।

2. अनेन सूत्रेण केवलं रुँ-इत्यस्यैव उत्वम् भवति, सामान्य-रेफस्य न । यथा - पुनर् + अस्ति = पुनरस्ति ।

3. भो भगो अघोऽपूर्वस्य योऽशि 8|3|17 इत्यस्य एतत् सूत्रम् अपवादः अस्ति । भो भगो अघोऽपूर्वस्य योऽशि 8|3|17 इत्यनेन अकारात् परस्य रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः भवति । तस्य अपवादत्वेन अकारे परे अनेन सूत्रेण उत्वं विधीयते ।

4. अस्मिन् सूत्रे "अतः" तथा "अति" उभयत्र तपरकरणम् कृतम् अस्ति । अतः आकारस्य उपस्थितौ अयम् उत्वम् न भवति । यथा -
देव + जस् + अत्र = देवा अत्र । देव + सुँ + आसीत् = देव आसीत् । उभयत्र भो भगो अघोऽपूर्वस्य योऽशि 8|3|17 इत्यनेन यत्वं कृत्वा लोपः शाकल्यस्य 8|3|19 इत्यनेन यकारलोपं कृत्वा अन्तिमं रूपं सिद्ध्यति ।

5.
प्रश्नः - सूत्रेऽस्मिन् "अप्लुतात् अकारात्" तथा "अप्लुते अकारे" इति किमर्थम् उक्तम् अस्ति?
उत्तरम् - प्लुत-अकारात् परस्य रुँ-इत्यस्य, तथा प्लुत-अकारे परे रुँ-इत्यस्य "उत्वम् मा भूत्" एतत् स्पष्टीकर्तुम् अत्र "अप्लुत" इति निर्दिश्यते । यथा - पय + रुँ + अ3ग्निदत्त = पय अ3ग्निदत्त । तथैव - सुस्रोत3 + रुँ + अत्र = सुस्रोत3ः अत्र । एतयोः उदाहरणयोः रुँ-इत्यस्य उत्वम् न भवति ।
उपप्रश्नः - परन्तु "अतः" तथा "अति" उभयत्र तपरकरणं कृतम् अस्ति । अतः एतत् सूत्रम् केवलं ह्रस्व-अकारस्य विषये अस्ति एतत् स्पष्टं स्यात् खलु?
उत्तरम् - प्लुत-निर्माणम् केवलं त्रिपाद्याः सूत्रैः एव भवितुं शक्यते । तपरकरणस्य तपरस्तत्कालस्य 1|1|70 एतत् सूत्रम् तु सपादसप्ताध्याय्याम् अस्ति । अतः त्रिपाद्याः निर्मितः प्लुतस्वरः "अतः" इत्यनेन / "अति" इत्यनेन द्रष्टुम् न शक्यते । इत्युक्ते, पय + रुँ + अ3ग्निदत्त इत्यत्र उपस्थितः प्लुतः अकारः "अत्" इत्यनेन न दृश्यते, यतः सः तपरकरणार्थम् असिद्धः अस्ति । अस्यां स्थितौ पय + रुँ + अ3ग्निदत्त इत्यत्रापि उत्वस्य प्रसक्तिः जायते । तत् तथा मा भूत्, एतत् स्पष्टीकर्तुम् अस्मिन् सूत्रे "अप्लुतात् अतः" / "अप्लुते अति" एतादृशम् प्लुतग्रहणम् क्रियते । प्लुत-शब्दस्य साक्षात् ग्रहणेन यद्यपि प्लुतस्वरः त्रिपाद्याः निर्मीयते, तथापि सः अत्र दृश्यमानः अस्ति एतत् ज्ञायते ।
One-line meaning in English
A रुँ letter that is sandwiched between an अप्लुत-ह्रस्व-अकार from each side is converted to an उकार.
काशिकावृत्तिः
अति, उतिति वर्तते। अकारादप्लुतादुत्तरस्य रो रेफस्य उकारानुबन्धविशिष्टस्य अकारे ऽप्लुते परत उकारादेशो भवति। वृक्षो ऽत्र। प्लक्षो ऽत्र। भोभगोअघोअपूर्वस्य यो ऽशि 8|3|17 इत्यस्मिन् प्राप्ते उत्वं विधीयते। रुत्वम् अपि आश्रयात् पूर्वत्र असिद्धम् 8|2|1 इति असिद्धं न भवति। अतः इति किम्? अग्निरत्र। तपरकरणं किम्? वृक्षा अत्र। सानुबन्धग्रहणं किम्? स्वरत्र। प्रातरत्र। अति इत्येव, वृक्ष इह। तस्य अपि तपरत्वादत्र न भवति। वृक्ष आश्रितः। अलुतातिति किम्? सुस्रोता3अत्र न्वसि। अप्लुते इति किम्? तिष्ठतु पय अ3च्श्विन्। अत्र प्लुतस्य असिद्धत्वातुत्वं प्राप्नोति इति अप्लुतादप्लुते इति उच्यते।
`उकारानुबन्धकस्य` इति। यदि रुशब्दः समुदायः स्थानो स्यात्, तदा महातरुवनमित्यत्रापि `हशि च` 6|1|110 इत्युत्वं प्रसज्येत। किञ्च `ससजुषो रुः` 8|2|66 इत्युकारानुबन्धकरणमनर्थकं स्यात्। तत्र ह्रु कारोऽस्य सूत्रसय विशेषणार्थः क्रियते, स इह समुदाये स्थानिन्यनर्थको जायते। तस्मादुकारानुबन्धवत इदं ग्रहणम्। ननु चोत्त्वे कत्र्तव्ये `पूर्वत्रासिद्धम्` 8|2|1 इति रुत्त्वमसिद्धम्, तदसतो रोः कथमुत्त्वं शक्यते विधातुम्? इत्यत आह--`रुत्वमप्याश्रयात्? सिद्धम्` इति। यदि रुत्वमसिद्धं स्यात्, तदा स्थानित्वेन रोराश्रयणमनर्थकं स्यात्; कस्यचिदुकारानुबन्धविशिष्टस्य रोरसम्भवात्। तस्मादाश्रयादेव रोरसिद्धत्वं नास्तीति। `तस्यापि` इति। यत्रापि परतो रोरुत्त्वमुच्यते तस्य `सुरुआओता 3 अत्र` इति `दूराद्धूते च` 8|2|84 इति प्लुतः। `देवदत्ता 3 अत्र` इति। अत्रापि `गुरोऽनृतोऽनन्तस्याप्येकैकसय प्राचाम्` 8|2|86 इत्यनेन। अथ किमर्थं `अप्लुतादप्लुते` इत्युच्यते? न ह्रतोऽतीति च तपरकरणस्य वर्णस्य निर्देशे क्रियमाणे प्लुतात्परस्य प्लुते वा परतः प्राप्नोति? इत्यत आह--`प्लुतस्य` इत्यादि। ननु च सिद्धः प्लुतः स्वरसन्धिषु, यदयम्? `प्लुतप्रगृह्रा आचि` 6|1|125 इति प्रकृतिभावं शास्ति? एवं मन्यते--प्रकृतिभाव एवैतज्ज्ञापकं स्यात्। अथापि कथञ्चित्? स्वरसन्धिविषयं ज्ञापकं स्यात्, तथा रोदत्त्वं स्वरसन्धिर्न भवति। अथापि संहिता काय्र्यविषयं ज्ञापकं स्यात्, तथापि रोरुत्त्वं मंहिताकार्य्यं न भवति। येन हि वर्णाः सन्धीयन्ते तत्? संहिताकार्यम्, न चोत्त्वेन वर्णाः संहिता भवन्ति; पुनरप्याद्गुणाद्यपेक्षणादिति॥
उकारानुबन्धकस्येति। यदि रुशब्दसमुदायः स्थानी स्याद्, अगुर्वर्थम्, तर्वर्थमित्यादावपि प्रसज्येत। ठ्ससजुषो रुःऽ इत्यत्र चोकारस्यानुनासिकत्वप्रतिज्ञयाऽनुबन्धकरणमनर्थकं स्यात्, तद्ध्यत्रैव सूत्रे विशेषणार्थं क्रियते। रुत्वमपीति। अपिशब्दः पुनः शब्दस्यार्थे। यदि पुना रुत्वमसिद्धं स्यात्, स्थानित्वेनाश्रयणमनुपपन्नं स्यात्; उकारानुबन्धकस्य कस्यचिद्रोरभावात्। तस्यापीति। निमितबूतस्यापीत्यर्थः। सुस्रोता3 अत्र न्वसीति। ठ्दूराद्धूते च, इति प्लुतः, नुशब्दः प्रश्ने। अश्विन् आत्रेति। अश्वशब्दान्मत्वर्थीय इनिः, सम्बुद्ध्यन्तं चैतत्, ठ्गुरोरनृतःऽ इति प्लुतः, हे अश्विन् अत्रैव प्रदेशे पयस्तिष्ठत्वित्यर्थः। प्रायेण तु तकारान्तं पठ।ल्ते, तत्राश्विच्छन्दस्य व्युत्पत्तिर्मृग्या। ननु तपरकरणादेव प्लुतात्परस्य प्लुते वा परतो न भविष्यति, यथा दीर्घे ? तत्राह--प्लुतस्यासिद्धत्वादिति। ननु च सिद्धः प्लुतः स्वरसन्धिषु यदयं ठ्प्लुतप्रगृह्या अचिऽ इति प्रकृतिभावं शास्ति, यस्य हि विकारः प्राप्नोति तस्य प्रकृतिभावो विधातव्यः, न च प्लुतस्यासिद्धत्वे प्लुतस्य सतो विकारप्राप्तिरित्यनर्थकं तत् स्यात्? अस्तु स्वरसन्धिषु प्लतः सिद्धः, रोरुत्वं तु स्वरसन्धिर्न भवति। यदि तु संहिताधिकारे यद्विधीयते तन्मात्रविषयं ज्ञापकमाश्रीयते शक्यमकर्तम्--ठप्लुतादप्लुतेऽ इति ॥
सिद्धान्तकौमुदी
अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति । भोभगोअघो (कौमुदी-167) इति प्राप्तस्य यत्वस्यापवादः । उत्वं प्रति रुत्वस्यासिद्धत्वं तु न भवति । रुत्वमनूद्य उत्वविधेः सामर्थ्यात् ॥
अतो रोरप्लुतादप्लुते - शिवर् अच्र्य इति स्थिते — अतो रोः ।ऋत उ॑दित्यत उदित्यनुवर्तते । "अत" इति पञ्चमी ।एङः पदान्तादती॑त्यतोऽतीत्यनुवर्तते । तदाह — अप्लुतादिति । नन्वत्र उत्वं बाधित्वाभोभगोअघोअपूर्वस्य योऽशि॑ इति यत्वं परत्वात्स्यात् । नच यत्वस्यासिद्धत्वादुत्वं निर्बाधमिति वाच्यं, कृते ।ञपि उत्वे तस्य स्थानिवत्त्वेन रुत्वाद्यत्वस्य दुर्निवारत्वादत आह — यत्वस्यापवाद इति । यद्यपि भोभगोअघो इत्यंशे उत्वं नापवादः, तथाप्यपूर्वस्येत्यंशे उत्वमपवादः प्राप्त एव अपूर्वकस्य रोर्यत्वे अतो रोरित्यस्यारम्भादिति भावः । ननूत्वं प्रति रोरसिद्धत्वात् कथमुत्वं तस्येत्यत आह — उत्वं प्रतीति ।
अतो रोरप्लुतादप्लुते - यत्वस्यासिद्धत्वादुत्वे कृतेऽपि तस्य स्थानिवत्त्वेन रुत्वाद्यत्वं स्यादित्याशङ्कायामाह-यत्वस्यापवाद इति । उत्वविधेः सामथ्र्यादिति । न चअतो रोरप्लुता॑दिति सूत्रं परित्यज्यरोः सुपी॑ति सूत्रानन्तरम्अत उरती॑त्येव लाघवादुच्यतां किमनेन सामथ्र्याश्रयणप्रयासेनेति वाच्यम्; तथाहि सति उत्बस्यासिद्धतयाशिवोऽच्र्य॑ इत्यादावाद्गुणस्याऽप्रवृत्तिप्रसङ्गात् ।
लघुसिद्धान्तकौमुदी
अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति। शिवोर्ऽच्यः॥
महाभाष्यम्
अतो रोरप्लुतादप्लुते (2550) (रुत्वाधिकरणम्) (पदाक्षेपभाष्यम्) किमर्थमप्लुतादप्लुत इत्युच्यते ? (समाधानभाष्यम्) प्लुतात्परस्य प्लुते वा परतो मा भूत् ‐ - इति । प्लुत्पतारस्य ‐ - सुस्रोता 3 अत्र न्वसि । प्लुते परतः ‐ - तिष्ठतु पय आ3ग्निदत्त । अतः ‐ - अति इत्युच्यते, कः प्रसङ्गः प्लुतात्परस्य प्लुते वा परतः स्यात् ? असिद्धः प्लुतः, तस्यासिद्धत्वात् प्राप्नोति ।। (अप्लुताप्लुतपदार्थनिर्णये एकदेशिभाष्यम्) अथ अप्लुतात् ‐ - अप्लुते इत्युच्यमानेऽपि यावताऽसिद्धः प्लुतः, कस्मादेवात्र न प्राप्नोति ? अप्लुतभाविनोऽप्लुतभाविनीत्येवमेतद्विज्ञायते ।। (एकदेशिनोज्ञापकाश्रयेण समाधानभाष्यम्) नैतदस्ति प्रयोजनम्। सिद्धः प्लुतः स्वरसंधिषु। कथं ज्ञायते? यदयं प्लुतः प्रकृत्येति प्लुतस्य प्रकृतिभावं शास्ति, सतो हि कार्यिणः कार्येण भवितव्यम्।। (6216 एकदेशिवार्तिकम् ।। 1 ।।) - अप्लुतादप्लुतवचनेऽकारहशोः समानपदे प्रतिषेधः - अप्लुतादप्लुतवचनेऽकारहशोः समानपदे प्रतिषेधो वक्तव्यः । पयो3ट्, पयो3द ।। (6217 समाधानवार्तिकम् ।। 2 ।।) - न वा बहिरङ्गलक्षणत्वात् - न वा वक्तव्यम् । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गः प्लुतः, अन्तरङ्गमुत्वम् । असिद्धं बहिरङ्गमन्तरङ्गे ।। इहापि तर्हि प्राप्नोति ‐ - सुस्रोता3 अत्र न्वसि । अन्तरङ्गोऽत्र प्लुतः बहिरङ्गमुत्वम् ।। (प्लुतोत्वयोरन्तरङ्गत्वबहिरङ्गत्वव्यवस्थापकभाष्यम्) क्व पुनरिहान्तरङ्गः प्लुतः क्व वा बहिरङ्गमुत्वम्, उत्वं वाऽन्तरङ्गम् ‐ - प्लुतो वा बहिरङ्गः ? वाक्यान्तस्य वाक्यादावन्तरङ्गः प्लुतः, बहिरङ्गमुत्वम् । समानवाक्ये पदान्तस्य पदादावुत्वमन्तरङ्गम्, बहिरङ्गः प्लुतः ।। (सिद्धान्तभाष्यम्) किं पुनः कारणं बहिरङ्गत्वमुत्वे हेतुर्व्यपदिश्यते, न पुनरसिद्धत्वमपि ? यथैव ह्ययं बहिरङ्ग एवमसिद्धोऽपि । एवं मन्यते ‐ - असिद्धः प्लुत आश्रयात्सिद्धो भवति ।। अथवा यस्यां नाप्राप्तायां परिभाषायामुत्वमारभ्यते, साऽऽश्रयात्सिद्धा स्यात् । कस्यां च नाप्राप्तायाम् ? असिद्धपरिभाषायाम् । बहिरङ्गपरिभाषायां पुनः प्राप्तायामप्राप्तायां च ।।