Page loading... Please wait.
6|1|111 - ऋत उत्‌
॥ तस्मै पाणिनये नमः ॥
6|1|111
SK 279
ऋत उत्‌   🔊
सूत्रच्छेदः
ऋतः (पञ्चम्येकवचनम्) , उत् (प्रथमैकवचनम्)
अनुवृत्तिः
अति  6|1|109 (सप्तम्येकवचनम्) , ङसि-ङसोः  6|1|110 (सप्तमीद्विवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
ऋतः ङसिङसोः अति पूर्वपरयोः एकः उत्
सूत्रार्थः
ऋवर्णात् /ऌवर्णात् परस्य ङसिँ/ङस्-प्रत्यययोः अकारे परे पूर्वपरयोः एकः उकारादेशः भवति ।
ह्रस्व-ऋकारात् / ह्रस्व ऌकारात् परः पञ्चम्येकवचनस्य ङसिँ-प्रत्ययः / षष्ठ्येकवचनस्य ङस्-प्रत्ययस्य अकारः अग्रे आगच्छति चेत् पूर्वपरयोः एकः उकारादेशः भवति । सः च उरण् रपर 1|1|51 इत्यनेन रपरः / लपरः भवति (इत्युक्ते तस्मात् परः रेफः /लकारः आगच्छति ) । यथा -

1) पितृ + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]
→ पितृ + अस् [इत्संज्ञालोपः,]
→ पितुर् स् [इको यणचि 6|1|77 इत्यनेन यणादेशे प्राप्ते अपवादत्वेन ऋत उत् 6|1|111 इति उकारः । उरण् रपर 1|1|51 इत्यनेन सः रपरः]
→ पितुर् [रात्सस्य 8|2|24 इति सकारलोपः]
→ पितुः [<खरवसानयोर्विसर्जनीयः>> 8|3|15 इति विसर्गनिर्माणम्]

2) मातृ + ङस् [षष्ठ्येकवचनस्य प्रत्ययः]
→ मातृ + अस् [इत्संज्ञालोपः,]
→ मातुर् स् [इको यणचि 6|1|77 इत्यनेन यणादेशे प्राप्ते अपवादत्वेन ऋत उत् 6|1|111 इति उकारः । उरण् रपर 1|1|51 इत्यनेन सः रपरः]
→ मातुर् [रात्सस्य 8|2|24 इति सकारलोपः]
→ मातुः [<खरवसानयोर्विसर्जनीयः>> 8|3|15 इति विसर्गनिर्माणम्]

3) गम्ऌ + ङस् [षष्ठ्येकवचनस्य प्रत्ययः]
→ गम्ऌ + अस् [इत्संज्ञालोपः,]
→ गम् उल् स् [इको यणचि 6|1|77 इत्यनेन यणादेशे प्राप्ते अपवादत्वेन ऋत उत् 6|1|111 इति ऌकारस्य उकारः । उरण् रपर 1|1|51 इत्यनेन सः लपरः]
→ गमुल् [संयोगान्तस्य लोपः 8|2|23 इति सकारलोपः]


ज्ञातव्यम् - अस्मिन् सूत्रे "ऋत्" इत्यत्र तकारेण तपरकरणम् क्रियते, येन केवलं ह्रस्व ऋकार-ऌकारयोः ग्रहणं भवति । "उत्" इत्यत्र तु तकारः उच्चारणार्थः अस्ति, अत्र तपरकरणस्य आवश्यकता न, यतः अत्र उकारः विधीयमानः अस्ति । अतः अणुदित्सवर्णस्य चाप्रत्ययः 1|1|69 इत्यनेन सः सवर्णग्रहणम् न करोति ।
One-line meaning in English
If an ऋकार / ऌकार is followed by the ङसिँ or ङस् प्रत्यय, the पूर्व and पर are combined to form an उकार.
काशिकावृत्तिः
ङसिङसोः इत्येव। ऋकारान्तादुत्तरयोः ङ्सिङसोः अति परतः पूर्वपरयोः उकार एकादेशो भवति। होतुरागच्छति। होतुः स्वम्। द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यः स लभते ऽन्यतरव्यपदेशं इति उरण् रपरः 1|1|51 इति रपरत्वम् अत्र कृत्वा रात् सस्य 8|2|24 इति सलोपः कर्तव्यः।
`द्वयोः षष्ठीनिर्दिष्टयोः स्थाने` इत्यादि। किं पुनर्होतुरित्यादावनिष्टं स्याद्यदि रपरत्वं न क्रियेत? न किञ्चित्; न्यायतस्तु प्राप्नोति रपरत्वमपि, तदवश्यं कत्र्तव्यम्। तमेव न्यायं न्यां दर्शयितुम्--`द्वयोः षष्ठीनिर्दिष्टयोः स्थाने` इत्युक्तम्। ऋत इति तपकरणं दिर्घनिवृत्त्यर्थम्। तेन `उन्योर्ग्रः` 3|3|29 `प्रे स्त्रोऽयज्ञे` 3|3|32 इत्यादौ न भवति। उदित्येतदपि तपरकरणं दीर्घनिवृत्त्यर्थमेव, आन्तरतम्याद्द्विमात्रस्य स्थाने द्विमात्र एव प्राप्नोति। ननु च `भाव्यमनोऽण्? सवर्णान्? न गृह्णाति`(व्या।प।35) इति सवर्णानां ग्रहणं न भविष्यतीति तत्? किमेतन्निवृत्यर्थेन तपरकरणेन? एवं तह्र्रेतज्ज्ञापयति--भवत्यत्र ह्रुकरेम भाव्यमानेन सवर्णस्य ग्रहणमिति। तेनामू, अमूभ्यामित्यत्र `अदसोऽसेर्दादु दो मः` 8|2|80 इति दीर्घस्य स्थाने दीर्घ ऊकारो भवति॥
द्वयोः षष्टीनिर्द्दिष्टयोरित्यादि। न्यायप्राप्तिप्रदर्शनमेतत्, न पुनापरत्वेऽक्रियमाणे किञ्चिदनिष्टम् ठृतःऽ इति तपरकरणं दीर्घनिवृत्यर्थम्, ठुन्न्योर्ग्रहःऽ ठ्प्रेस्त्रोऽयज्ञेऽ इत्यादौ न भवति। ठुच्ऽ इत्यपि तपरकरणं दीर्घनिवृत्यर्थमेव, आन्तर्यतो हि द्विमात्रस्य द्विमात्र एव प्राप्नोति। ननु ठ्भाव्यमानोऽण्सवर्णान्न गृह्णातिऽ इति ? एवं तर्ह्येज्ज्ञापयति-ठ्भाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ इति, तेनामूभ्यामित्यत्र ठदसोसेर्दादु दो मःऽ इति दीर्घस्य दीर्घ ऊकारो भवति। इह गम्लृप्रभृतिभ्यो ङसिङ्सोः कृतयोः ऋकरलुकारयोः सवर्णसंज्ञाविदानादस्मिन्नुत्वे लपरत्वे च कृते संयोगान्तलोपे गमुलिति रूपं भवति ॥
सिद्धान्तकौमुदी
ऋदन्तान्ङसिङसोरति परे उकार एकादेशः स्यात् । रपरत्वम् ॥
ऋत उत् - ङसिङसोस्तृज्वत्त्वे क्रोष्टृ अस् इति स्थिते — ऋत उत् । "एङः पदान्तादति"ङसि ङसोश्चे॑त्यतः-॒अती॑तिङसिङसो॑रिति चानुवर्तते ।ङसिङसो॑रित्यवयवषष्ठी,-॒अती॑त्यत्रान्वेति ।अङ्गस्ये॑त्यधिकृतम् "ऋत" #इत्यनेन विशेष्यते, ततस्तदन्तविधिसत्दाह — ऋदन्तादित्यादिना । रपरत्वमिति । ऋकारस्य अकारस्य च स्थाने प्राप्नुवत उकारस्य ऋकारस्थानिकत्वानपायादिति भावः । उदिति तपरकरणं द्विमात्रनिवृत्त्यर्थम् । न चभाव्यमानोऽसवर्णान्न गृह्णाती॑त्येव तन्निवृत्तिः सिध्यतीति वाच्यं, तस्याऽनित्यत्वादिह द्विमात्रप्राप्तौ तन्निवृत्त्यर्थत्वात् । तदनित्यत्वं त्वनेनैव तपरकरणेन ज्ञाप्यते । ततश्चयवलपरे यवला वेति मकारस्याऽनुनासिका एव भवन्ती॑तिच्छ्वो॑रिति सूत्रे कैयटः । यत्तुतपरत्वं ढ्रलोपे इति दीर्घनिवृत्त्यर्थ॑मिति, तन्न । "उरण्रपरः" इति सूत्रे "ऊ,-रपरः" इति भाष्यप्रयोग विराधाता । सुपत्रवाहिता बाणा ज्वलिता इव पन्नगाः । नैरृतोरस्यभाव्यन्त सवितू रश्मयो यथा॑ इति रामायणप्रयोगविरोधाच्चेत्यलम् ।
ऋत उत् - ऋत उत् । ऋकाराकारयोरेकादेशे सति ह्यस्व एव उकारः स्यान्न तु दीर्घ इत्येतदर्थकेन तपरकरणेन भाव्यमानोऽण्क्वचित्सवर्णान्गृह्णातीति ज्ञाप्यते, तेन यवलपरे हकारे मस्य विधीयमाना यवला अनुनासिका भवन्ति ।
लघुसिद्धान्तकौमुदी
ऋतो ङसिङसोरति उदेकादेशः। रपरः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.