Page loading... Please wait.
6|1|110 - ङसिङसोश्च
॥ तस्मै पाणिनये नमः ॥
6|1|110
SK 246
ङसिङसोश्च   🔊
सूत्रच्छेदः
ङसि-ङसोः (सप्तमीद्विवचनम्) , च (अव्ययम्)
अनुवृत्तिः
पूर्वः  6|1|107 (प्रथमैकवचनम्) , अति  6|1|109 (सप्तम्येकवचनम्) , एङः  6|1|109 (पञ्चम्येकवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
एङः ङसिङसोः अति पूर्वपरयोः एकः पूर्वः
सूत्रार्थः
एङ्-वर्णात् अनन्तरम् ङसिँ-प्रत्ययस्य ङस्-प्रत्ययस्य च अकारः अग्रे आगच्छति चेत् पूर्वपरयोः एकः पूर्वरूपः आदेशः भवति ।
एङ-प्रत्याहारेण एकार-ओकारयोः ग्रहणं भवति । एतेभ्याम् परस्य पञ्चम्येकवचनस्य ङसिँ प्रत्ययस्य षष्ठ्यैकवचनस्य ङस्-प्रत्ययस्य वा अकारः आगच्छति चेत् पूर्वपरयोः एकः पूर्वसवर्णः भवति । यथा -

1. मुनि + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]
→ मुने + अस् [इत्संज्ञालोपः, घेर्ङिति 7|3|111 इति अङ्गस्य गुणः एकारः ]
→ मुनेस् [एचोऽयवायावः 6|1|78 इत्यनेन अयादेशे प्राप्ते अपवादत्वेन ङसिङसोश्च 6|1|110 इति पूर्वरूप-एकादेशः ]
→ मुनेः [रुत्वम्, विसर्गनिर्माणम्]

2. धेनु + ङस्ँ [षष्ठ्यैकवचनस्य प्रत्ययः]
→ धेनो + अस् [इत्संज्ञालोपः, ङिति ह्रस्वश्च 1|4|6 इत्यनेन विकल्पेन घिसंज्ञायाम् प्राप्तायाम् घिसंज्ञापक्षे घेर्ङिति 7|3|111 इति अङ्गस्य गुणः ओकारः ]
→ धेनोस् [एचोऽयवायावः 6|1|78 इत्यनेन अवादेशे प्राप्ते अपवादत्वेन ङसिङसोश्च 6|1|110 इति पूर्वरूप-एकादेशः ]
→ धेनोः [रुत्वम्, विसर्गनिर्माणम्]

3. गो + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]
→ गो + अस् [इत्संज्ञालोपः]
→ गोस् [एचोऽयवायावः 6|1|78 इत्यनेन अवादेशे प्राप्ते अपवादत्वेन ङसिङसोश्च 6|1|110 इति पूर्वरूप-एकादेशः ]
→ गोः [रुत्वम्, विसर्गनिर्माणम्]

4. से + ङस् [षष्ठ्यैकवचनस्य प्रत्ययः]
→ से + अस् [इत्संज्ञालोपः ]
→ सेस् [एचोऽयवायावः 6|1|78 इत्यनेन अयादेशे प्राप्ते अपवादत्वेन ङसिङसोश्च 6|1|110 इति पूर्वरूप-एकादेशः ]
→ सेः [रुत्वम्, विसर्गनिर्माणम्]
One-line meaning in English
If an एकार or ओकार is followed by the ङसिँ or ङस् प्रत्यय, the पूर्व and पर are combined to form a पूर्वरूप-एकादेश.
काशिकावृत्तिः
एङः इति वर्तते, अति इति च। एङः उत्तरयोः ङसिङसोः अति परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। अग्नेरागच्छति। वायोरागच्छति। अग्नेः स्वम्। वायोः स्वम्। अपदान्तार्थः आरम्भः।
`एङ उत्तरयोः` इत्यादि। एङ उत्तरौ यौ ङसिङसौ तयोः सम्बन्ध्यवयवो योऽत्? तस्मिन्? परत इत्यर्थः। `अग्नेरागच्छति` इति। `घेङिति` 7|3|111 इति गुणः। अथ कस्मादत्र यथासंख्यं न भवति, एङावपि हि द्वौ, ङसिङ्सावपि द्वावेवेति प्राप्नोति? नैष दोषः, न ह्रत्र ङसिङसोः परतः कार्यं विधीयते, किं तर्हि? तत्सम्बन्धिन इति, स चैक एव। अथापि सम्बन्धिभेदेन भेदः स्यात्? एवमप्यदोषः, चकारोऽत्र समुच्चायर्थः क्रियते। एवं च समुच्चयो भवति यद्यकैकस्यैङो ङसिङसोः प्रत्येकमपि परतः परपूर्वत्वं भवति; नान्यथा। `ईदग्नेः सोमरुणयोः` 6|3|26 , `ओरावश्यके` 3|1|125 इति च निर्देशस्तदभावं ज्ञापयति। लक्षणव्यभिचारचिह्नेन वा। अल्पाच्तरस्य ङसः परनिपातेन यथासंख्याभावोऽवसीयते॥
एङ् उतरयोरिति। एङ् उतरौ यौ ङसिङ्सौ, तयोर्यः सम्बन्धयकारः, तस्मिन् परत इत्यर्थः। अग्नेरागच्छति, अग्नेः स्वमिति। यद्यपि द्वावेङै, ङसिङसावपि द्वावेव; तथापि यतासङ्ख्यं न भवति, न ह्यत्र ङसिङ्सोः काय विधीयते, किं तर्हि? तत्सम्बन्धिन्यति; स चैक एव। अथापि सम्बन्धिभेदेन तस्य भेदः स्यात् ? एवमपि न दोषः; ठीदग्नेः सोमवरुणयोःऽ, ठ्धातोःऽ इत्यादिनिर्देशात् ॥
सिद्धान्तकौमुदी
एङो ङसिङसोरति परे पूर्वरूपमेकादेशः स्यात् । हरेः । हर्योः । हरीणाम् ॥
ङसिङसोश्च - ङसिङसोश्च ।एङः पदान्ता॑दित्यत "एङ" इति,अती॑ति चानुवर्तते । "अमि पूर्व" इत्यतः "पूर्व" इत्यनुवर्तते । "एकः पूर्वपरयोः" इत्यधिकृतं, तदाह — एङो ङसिङसोरिति । हरेरिति । पूर्वरूपे रुत्वविसर्गौ पञ्चम्येकवचनस्य षष्ठएकवचनस्य च रूपमेतत् । यद्यपि ङसिङसौ द्वौ, एङौ च द्वौ, तथापि न यथासङ्ख्यमिष्यते ।यथासङ्ख्यमनुदेशः समाना, स्वरितेने॑ति सूत्रच्छेदमभ्युपगम्य यत्र स्वरिततं प्रतिज्ञातं तत्रैव यथासङ्ख्याविज्ञानादिति यथासङ्ख्यसूत्रभाष्ये स्पष्टम् । "अच्च घेः" "उपसर्गे घोः किः" इत्यादिनिर्देशाच्च । हर्योरिति । षष्ठीद्विवचने यणादेशे रूपम् । हरीणामिति । "ह्यस्वनद्यापः" इति नुट् ।नामी॑ति दीर्घः ।अट्कुप्वा॑ङिति णत्वम् ।
ङसिङसोश्च - ङसिङसोश्च । इह ङसिङसौ द्वौ, एङावपि द्वौ, तयोर्यथासङ्ख्यं न, अस्वरितत्वात् । अल्पाच्यतरस्य पूर्वनिपाताऽकरणाल्लिङ्गात्,अच्च घेः॑उपसर्गे घोः कि॑रिति निर्देशाच्च ।
लघुसिद्धान्तकौमुदी
एङो ङसिङसोरति पूर्वरूपमेकादेशः। हरेः 2। हर्योः 2। हरीणाम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.