Page loading... Please wait.
6|1|108 - सम्प्रसारणाच्च
॥ तस्मै पाणिनये नमः ॥
6|1|108
SK 330
सम्प्रसारणाच्च  
सूत्रच्छेदः
सम्प्रसारणात् (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
पूर्वः  6|1|107 (प्रथमैकवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
सम्प्रसारणात् पूर्वपरयोः एकः पूर्वः
सूत्रार्थः
सम्प्रसारणात् अनन्तरम् पूर्वपरयोः एकः पूर्ववर्णादेशः भवति ।
सम्प्रसारणम् इत्यक्ते यण्-वर्णस्य स्थाने इक्-वर्णस्य आदेशः । इग्यणः सम्प्रसारणम् 1|1|45 इत्यनेन सम्प्रसारणसंज्ञा विधीयते । सम्प्रसारणम् क्रियते चेत् जायमानात् इक्-वर्णात् परः सर्वदा अच्-वर्णः एव दृश्यते । तयोः पुनः इको यणचि 6|1|77 इत्यनेन यणादेशः मा भूत् - एतत् स्पष्टीकर्तुम् अस्य सूत्रस्य निर्माणम् कृतम् अस्ति ।

कानिचन उदाहरणानि एतानि -

1. वचिस्वपियजादीनां किति 6|1|15 इत्यनेन वच्, स्वप्, यज्, वद्, आदीनाम् धातूनाम् कित्-प्रत्यये परे सम्प्रसारणम् भवति । यथा -
यज् + क्त [निष्ठा 3|2|102 इति क्त-प्रत्ययः
→ य् अ ज् त [इत्संज्ञालोपः, स्पष्टिकरणार्थम् "य = य् + अ" इति पृथक्करणम् ]
→ इ अ च् त [वचिस्वपियजादीनां किति 6|1|15 इत्यनेन कित्-प्रत्यये परे यकारस्य सम्प्रसारणम् इकारः । अत्र केवलं यकारस्यैव सम्प्रसारणम् भवति, "य् + अ" इत्यस्य वर्णद्वयस्य न, इति स्मर्तव्यम् ]
→ इ च् त [इकार-अकारयोः इको यणचि 6|1|77 इत्यनेन यणादेशः भवति चेत् पुनः यकारस्यैव निर्माणम् भवेत् । परन्तु तस्य अपवादत्वेन सम्प्रसारणाच्च 6|1|108 इति पूर्वरूप-एकादेशः इकारः]
→ इष् त [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8|2|36 इति जकारस्य षकारः]
→ इष्ट [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वम्]

2. श्वयुवमघोनामतद्धिते 6|1|133 इत्यनेन श्वन्, युवन् , मघवन् इत्येतेषां तद्धितभिन्ने प्रत्यये परे सम्प्रसारणम् भवति । यथा -
युवन् + ङे [चतुर्थ्यैकवचनस्य प्रत्ययः]
→ यु व् अ न् + ए [इत्संज्ञालोपः, स्पष्टिकरणार्थम् "व = व् + अ" इति पृथक्करणम् ]
→ यु उ अ न् + ए [श्वयुवमघोनामतद्धिते 6|1|133 इति सम्प्रसारणम् । वकारस्य सम्प्रसारणम् उकारः।]
→ यु उ न् ए [उकार-अकारयोः इको यणचि 6|1|77 इत्यनेन यणादेशः भवति चेत् पुनः वकारस्यैव निर्माणम् भवेत् । परन्तु तस्य अपवादत्वेन सम्प्रसारणाच्च 6|1|108 इति पूर्वरूप-एकादेशः उकारः ]
→ यूने [अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः]

3. ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च 6|1|16 इत्यनेन ग्रह्, व्यध्, प्रच्छ् एतेषां किति ङिति च परे सम्प्रसारणम् भवति । यथा -
प्रच्छ् + लट् [वर्त्तमाने लट् 3|2|102 इति लट्]
→ प्रच्छ् + तिप् [तिप्तस्झि.. 3|4|78 इति तिप्-प्रत्ययः]
→ प्रच्छ् + श + तिप् [तुदादिभ्यः शः 3|1|77 इति श-विकरणम्]
→ प् र् अ च्छ् + अ + ति [इत्संज्ञालोपः, स्पष्टिकरणार्थम् "प्र = प् + र् + अ " इति पृथक्करणम् ]
→ प् ऋ अ च्छ् + अ + ति [ सार्वधातुकमपित् 1|2|4 इत्यनेन श-प्रत्ययस्य ङित्वद्भावे प्राप्ते ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च 6|1|16 इति ऋकारस्य सम्प्रसारणम् रेफः]
→ प् ऋ च्छ् + अ + ति [ऋकार-अकारयोः इको यणचि 6|1|77 इत्यनेन यणादेशः भवति चेत् पुनः रेफस्यैव निर्माणम् भवेत् । परन्तु तस्य अपवादत्वेन सम्प्रसारणाच्च 6|1|108 इति पूर्वरूप-एकादेशः ऋकारः ]
→ पृच्छति ।

4. "त्रयाणाम् पूरणः" अस्मिन् अर्थे "त्रि" शब्दात् "तीय" इति तद्धितप्रत्ययः विधीयते, तथा च प्रक्रियायाम् त्रेः सम्प्रसारणम् च 5|2|55 इत्यनेन सम्प्रसारणम् भवति । प्रक्रिया इयम् -
त्रि + तीय [त्रेः सम्प्रसारणम् च 5|2|55 इति तीय-प्रत्ययः]
→ त् + र् + ई + तीय
→ त् + ऋ + ई + तीय [त्रेः सम्प्रसारणम् च 5|2|55 इति सम्प्रसारणम् । ऋकारस्य सम्प्रसारणम् रेफः]
→ त् + ऋ + तीय [ऋकार-ईकारयोः सम्प्रसारणाच्च 6|1|108 पूर्वरूप-एकादेशः ऋकारः]
→ तृतीय

ज्ञातव्यम् - वेदेषु अस्मिन् सूत्रे वा छन्दसि 6|1|106 इत्यनेन विकल्पः क्रियते । अस्मिन् विषये विस्तारेण वा छन्दसि 6|1|106 इत्यत्रैव उक्तम् अस्ति ।
One-line meaning in English
After doing सम्प्रसारण, the letter generated due to the सम्प्रसारण and the स्वर that follows it together undergo a पूर्वरूप-एकादेश.
काशिकावृत्तिः
पूर्वः इत्येव। सम्प्रसारणातचि परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। यजि इष्टम्। वपि उप्तम्। ग्रहि गृहीतम्। सम्प्रसरणविधानसामर्थ्यात् विगृहीतस्य श्रवणे प्राप्ते पूर्वत्वं विधीयते। वा छन्दसि 6|1|106 इत्येव, मित्रो नो अत्र वरुणो यज्यमानः। परपूर्वत्वविधाने सत्यर्थवत् सम्प्रसारणविधानम् इति इष्ट इत्येवम् आदिषु पूर्वत्वभावे यणादेशो भवत्येव। अन्तरङ्गे च अचि इऋतार्थं वचनम् इति बाह्ये पश्चात् सन्निपतिते पूर्वत्वं न भवति। शकह्वौ। शकह्वर्थम्।
सम्प्रसारणस्य यणादेशो मा भूदित्येवमर्थमिदं परपूर्वत्वं विधीयते। यदि चात्र यणादेशः स्यात्, तदा संप्रसारणविधानामनर्थकं स्यात्? तस्मात्। सम्प्रसारणविधानसामथ्र्यादेव यणादेशो न भविष्यति, तत्? किमर्थमिदं विधीयते? इत्याह--`सभ्प्रसारणविधानसामथ्र्यात्` इत्यादि। सम्प्रसारणविधानसामथ्र्याद्यणादेशो न भवतीति विगृहीतस्याकृतसंहिताकार्यस्य श्रवणं प्राप्नोति, तस्मान्मा भूदेष दोष इति परपूर्वत्वं विधीयते। `वा च्छन्दसीत्येव` इत्यादि। अत्रापि पूर्ववद्वाक्यभेदो द्रष्टव्यः; अन्यथा भाषायां न स्यात्। `यज्यमानः` [यज्यमानौ--काशिका] इति। परपूर्वत्वाभावपक्षे यणादेशः। कथं पुनरत्र यणादेशः, यावता विगृहीतस्यैव ग्रहणेन भवितव्यम्, इदानीमेव ह्रुक्तम्--सम्प्रसारणविधानसामथ्र्याद्विगृहीतस्यैव श्रवणे प्राप्ते परपूर्वत्वं विधीयते? इत्यत आह--परपूर्वत्वविधाने` इत्यादि। अनारब्धे हि परपूर्वत्वे विगृहीतस्यैव श्रवणं प्राप्नोति, मा भूत्? सम्प्रसारणस्य वैय्यथ्र्यमिति कृत्वा। सति तु परपूर्वत्वे यत्र परपूर्वत्वम्--इष्टमित्यादौ, तत्रार्थवत्? सम्प्रसारणम्। अतः परपूर्वत्वाभावपक्षे यणादेशो भवत्येव। अथेह कस्मान्न भवति--शकह्वौ शकह्वर्थमिति; अत्र हि शकं ह्वयतीति क्विप्, यजादित्वात्? सम्प्रसारणम्, परपूर्वत्वम्, तस्य `अग्तादिवच्च` 6|1|85 इति सम्प्रसारणग्रहणेन ग्रहणात्? सम्प्रसारणासम्प्रसारणयोरेकादेशस्य सम्प्रसारणस्य व्यपदेशभावत्वात्, औकारेऽर्थशब्दे च परतो व्यवस्थिते `सम्प्रसारणाच्च` 6|1|108 इति परपूर्वत्वं प्राप्नोति? इत्यत आह--`अन्तरङ्गे चाचि` इत्यादि। योऽयं ह्वयतेरेचः स्थाने विहित आकारः स सम्प्रसारणस्यान्तरङ्गः प्रत्यासन्नः; उभयोरप्येकधात्वन्तर्गतत्वात्। औकारोऽर्थशब्दाकारश्च विप्रकृष्टः। विप्रकृष्टस्तु देशतः कालतश्च, यदाह--`ब्राआह्रे` इति। यस्य धातोः सम्प्रसारणमवयवः, तत्रानन्तर्भावाद्बाह्रः। कालतश्च, यदाह--`पश्चात्? सन्निपतिते` इति। पूर्वरूपविधानकालादुतरकालं सन्निहित इत्यर्थः। तत्र सन्निकृष्टविप्रकृष्टयोरचोः प्रत्यासत्तेरन्तरङ्गो योऽच्? तत्रेदं वचनं प्रवत्र्तते, ततर चरितार्थमिति विप्रकृष्ट औकारादौ पश्चात्? सन्निहते न भवति॥
सम्प्रसारणविधानसामर्थ्यादिति। कथं पुनः सामर्थ्यम्, यावता संहितायां यण् विधीयते, असंहितायां संप्रसारणं चरितार्थम् ? नैत दस्ति; ठ्संहितैकपदे नित्याऽ इति वचनात्। वा च्छन्दसीत्येवेति। पूर्ववद्वाक्यभेदेन सम्बन्धः। यज्यमान इति। नन्विदानी मेवोक्तम्--विगृहीतस्य श्रवणं प्राप्नोति, तत्कथमत्र यणादेशः ? अत आह-पूर्वत्वविधाने हीति। सत्यम्, अनारब्धे पूर्वत्वे विगृहीतश्रवणं प्राप्नोति, सम्प्रसारणविधानं व्यर्थं मा भूदिति, पूर्वत्वविधाने हि सति तत्प्रतिपतिविषये अर्थवत्सम्प्रसारणमिति पूर्वत्वाभावपक्षे यणादेशे भवत्येव, ठ्सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणम्ऽ, यस्मिन्नङ्गे संप्रसारणमवस्थितं तदन्तर्भूतो योऽच् तेनैव सह यथा स्यात्, इह मा भूत्--शकह्वौ, शकह्वर्थमिति, शकान् ह्वयतीति क्विपि यज्ञादित्वात्सम्प्रसारणम्, योऽन्त्यो धातोराकारः तस्मिन्नेवाङ्गेऽन्तर्भवति तस्य तावत् पूर्वत्वम्, विभक्त्योकारोऽर्थशब्दाकारश्च न तस्मिन्नङ्गेऽन्तर्भवत इति तयोः पूर्वत्वं न भवति। अत्र परिहारः--यणः स्थाने य इक् स संप्रसारणम्, एकादेशस्तु न यण्स्तानिकः, वर्णाश्रयत्वाच्चान्तादिवद्भावोऽपि नास्ति, एवं पूर्वत्वमेव तावन्न सम्प्रसारणम्, किं पुनः, तत्स्थानिक ऊकार इति पूर्वैकादेशाभावः। सम्प्रसारणदीर्घत्वे तु वचनसामर्थ्यादेकादेशस्य पूर्वं प्रत्यन्तवद्भावात् सम्प्रसारणव्यपदेशः। वृत्तिकारस्तु सम्प्रसारणत्वमभ्युपेत्य परिहारान्तरमाह--अन्तरङ्गे चेति । देशतो विप्रकर्षोऽत्र बाह्यत्वेनोपवर्णितः। कालतो विप्रकर्षस्तु पश्चादुपनिपाततः ॥ धातावनन्तर्भावकृतं बाह्यत्वम्, पश्चादुपनिपातस्तु स्पष्ट एव ॥
सिद्धान्तकौमुदी
संप्रसारणादचि परे पूर्वरूपमेकादेशः स्यात् । एत्येधत्यूठ्सु (कौमुदी-73) । विश्वौहः । विश्वौहेत्यादि । छन्दस्येव ण्विरिति पक्षे णिजन्ताद्विच् ॥
सम्प्रसारणाच्च - संप्रसारणमिति । तेन वाहो यो यण् वकारस्तस्य ऊडिति लभ्यते । संप्रसारणमित्यननुवृत्तौ "अलोऽन्त्यस्य" इति हकारस्य स्यात् । तदनुवृत्तौ तु ऊठो यण्स्थानिकत्वूलाभान्नालोऽन्त्यस्येति भवति । विआ ऊ आह् असिति स्थिते- । संप्रसारणाच्च ।इको यणची॑त्यतोऽचीति "अमि पूर्वः" इत्यतः पूर्व इति चानुवर्तते । "एकः पूर्वपरयोः" इत्यधिकृतम् । तदाह — संप्रसारणादित्यादिना । विआ ऊह असिति स्थिते आद्गुणमाशङ्क्याह — एत्येधत्यूठ्स्विति ।अनेन गुणापवादो वृद्धि॑रिति शेषः । विआऔहः । विआऔहा । इत्यादीति । विआवाड्भ्याम् विआवाड्भिः । विआवाड्भ्यः । विआऔहे । विआऔहः । विआऔहः । विआऔहोः विआऔहाम् । विआवाट्त्सु विआवाट्सु । ननु वहश्चेति ण्विविधौ "छन्दसि सहः" इत्यतश्छन्दसीति केचिदनुवर्तयन्ति । तन्मते विआआह्शब्दस्य लोके कथं प्रयोग इत्यत आह — छन्दस्येव ण्विरितिपक्षे णिजन्ताद्विजिति । विआं वाहयतीत्यर्थे वाह् इ इति ण्यन्तात्अन्येभ्योऽपि दृश्यते॑ इति विचिनेड्वशि कृती॑ति इडभावे णिलोपेऽपृक्तलोपे उपपदसमासे विआआह्शब्दो सोते प्रयोगार्हः । किन्तु तस्य ऊठ् न भवति,अचः परस्मि॑न्निति णिलोपस्य स्थानिवत्त्वाऽभावेन तस्य भत्वाऽभावात् । वाहयतेः क्विपि विआवाह्शब्दस्य तूठ् निर्हाध एव,क्वौ लुप्त॑मिति णिलोपस्य स्थानिवत्त्वाऽभावेन तस्य भत्वाऽनपायात् । अत एवविभाषा पूर्वाह्णापरह्णाभ्या॑मिति सूत्रे प्रष्ठौह आगतं प्रष्ठवाङ्रूपर्यमिति लौकिकविग्रहवाक्ये "प्रष्ठौह" इति प्रयोगः सङ्गच्छते । क्वचित्पुस्तकेछन्दस्येव ण्विरिति प्रामाणिकाः॑ इति पठते । "कव्यपुरीष" इत्याद्युत्तरसूत्रे तदनुवृत्तेरावश्यकत्वादिति तदाशयः । अनः=शकटं वहतीत्यर्थे अनसि वहेः क्विप्, अनसो डश्चेति सस्य डश्च ।वचिस्वपियजादीनां किती॑ति यजादित्वाद्वकारस्य सम्प्रसापरणमुकारः ।संप्रसारणाच्चे॑ति पूर्वरूपम् । अनडुहिति रूपं । ततः सुबुत्पत्तिः ।
सम्प्रसारणाच्च - संप्रसारणाच्च ।अमि पूर्वः॑इत्यतःपूर्व॑इति वर्तते॑इकोयणची॑त्यतोऽचीति च,एकः पूर्वपरयो॑रिति ताधिक्रियते । तदाह — — संप्रसारणादचीत्यादिना.छन्दस्येव ण्विरिति ।वहश्चे॑ति सूत्रेभजो ण्विः॒॑छन्दसि सहः॑इत्यतो ण्विप्रत्यस्यच्छन्दसी॑त्यस्य चाऽनुवृत्तेरिति भावः । स्यादेतत् — ॒वाहः॑इत्येव सूत्रमस्तु, संप्रसारणमेवाऽन्न विधीयतां, तस्य लघूपधगुणो कृतेवृद्धिरेची॑ति वृद्धौ सिद्धंविआऔह॑इत्यादि, किमूठ्ग्रहणेन । सत्यम् । एवं स्थिते क्रियमाणमूठ्ग्रहणं बहिरङ्गपरिभाषां ज्ञापयति । तस्यां हि सत्यां जातस्य बहिरङ्गस्य संप्रसारणस्याऽसिद्धत्वादन्तरङ्गो गुणो न स्यादिति भाष्ये स्थितम् । नन्वनकारान्तोपपदेऽकारान्तोपसर्गोपपदे च रूपे विशेषः स्यादिति कथमऋठग्रहणं ज्ञापकमिति चेत्, अत्राहुः कैयटादयः — -भाष्यकारोक्तज्ञापकबलेनैव तादृशस्थले ण्विप्रत्ययाऽभावोऽनुमीयत इति । एतेन भुवं वहतीति भूवाट् । भूहः । भूहा । प्रौहः । प्रौहेत्यादिप्रयोगाः परास्ताः ।
लघुसिद्धान्तकौमुदी
संप्रसारणादचि पूर्वरूपमेकादेशः। एत्येधत्यूठ्स्विति वृद्धिः। विश्वौहः, इत्यादि॥
महाभाष्यम्
संप्रसारणाच्च (2545) (छन्दसि वेत्यस्य सम्बन्धबोधकं भाष्यम्) वाच्छन्दसीत्येव । मित्रावरुणौ यज्यमानः, मित्रावरुणौ इज्यमानः ।। (6206 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।) - संप्रसारणात्परपूर्वत्वे समानाङ्गग्रहणसमानाङ्गप्रतिषेधार्थम् - संप्रसारणात्परपूर्वत्वे समानाङ्गग्रहणं कर्तव्यम् । किं प्रयोजनम् ? असमानाङ्गप्रतिषेधार्थम् । असमानाङ्गस्य मा भूदिति ‐ - शकह्वर्थम्, परिव्यर्थम् ।। (6207 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 2 ।।) - सिद्धमसंप्रसारणात् - सिद्धमेतत् । कथम् ? असंप्रसारणात् । कथमसंप्रसारणम् ? वाक्यस्य संप्रसारणसंज्ञा, न वर्णस्य ।। अथ वर्णस्य संप्रसारणसंज्ञायां दोष एव । वर्णस्य च संप्रसारणसंज्ञायां न दोषः । कथम् ? अन्योऽयं संप्रसारणासंप्रसारणयोः स्थाने एक आदिश्यते ।। (6208 एकदेशिनः समाधानान्तरवार्तिकम् ।। 3 ।।) - कार्यकृतत्वाद्वा - अथवा सकृत् कृतं पूर्वत्वमिति कृत्वा पुनर्न भविष्यति । तद्यथा ‐ - वसन्ते ब्राह्मणोऽग्नीनादधीतेति सकृदाधाय कृतः शास्त्रार्थ इति कृत्वा पुनः प्रवृत्तिर्न भवति ।। (एकदेशिसमाधानासङ्गतिबोधकभाष्यम्) विषम उपन्यासः । युक्तं यत्तस्यैव पुनः प्रवृत्तिर्न भवति । यत्तु तदाश्रयं प्राप्नोति न तच्छक्यं बाधितुम् । तद्यथा ‐ - वसन्ते ब्राह्मणोऽग्निष्टोमादिभिः क्रतुभिर्यजेत ‐ - इति अग्र्याधाननिमित्तं वसन्ते वसन्त इज्यते । तस्मात्पूर्वोक्त एव परिहारः ‐ - सिद्धमसंप्रसारणात् ‐ - इति ।। (असंप्रसारणत्वे आक्षेपभाष्यम्) यदि तर्हि नेदं संप्रसारणम्, हूत इति दीर्घत्वं न प्राप्नोति ।। (6209 समाधानवार्तिकम् ।। 4 ।।) - दीर्घत्वं वचनप्रामाण्यात् - अनवकाशं दीर्घत्वं तद्वचनप्रामाण्याद्भविष्यति ।। (6210 समाधानान्तरवार्तिकम् ।। 5 ।।) - अन्तवत्त्वाद्वा - अथवा पूर्वस्य कार्यं प्रत्यन्तवद्भवतीति दीर्घत्वं भविष्यति ।। (6211 एकादेशप्रकरणशेषे विप्रतिषेधोपसंख्यानवार्तिकम् ।। 6 ।।) - आटो वृद्धेरियङ् - आटो वृद्धिर्भवतीत्येतस्मादियङ् भवति विप्रतिषेधेन । आटो वृद्धिर्भवतीत्यस्यावकाशः ‐ - ऐक्षिष्ट, ऐहिष्ट । इयङोऽवकाशः ‐ - अधीयाते, अधीयते । इहोभयं प्राप्नोति ‐ - अध्यैयाताम्, अध्यैयत । इयङादेशो भवति विप्रतिषेधेन ।। नैष युक्तो विप्रतिषेधः, अन्तरङ्गाऽऽटो वृद्धिः । काऽन्तरङ्गता ? वर्णावाश्रित्याटो वृद्धिः, अङ्गस्येयङादेशः । एवं तर्हीदमिह संप्रधार्यम् ‐ - आट् क्रियताम् इयङादेश इति, किमत्र कर्तव्यम् ? परत्वादियङ् । नित्य आडागमः, कृतेऽपीयङि प्राप्नोति ‐ - अकृतेऽपि । इयङि्प नित्यः,कृतेऽप्याटि प्राप्नोति ‐ अकृतेऽपि। अनित्य इयङ्, न हि कृत आटि प्राप्नोति । किं कारणम् ? अन्तरङ्गाऽऽटो वृद्धिः । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् । न चात्राडेवेयङो निमित्तं विहन्ति, अवश्यं लक्षणान्तरमाटो वृद्धिः प्रतीक्ष्या । उभयोर्नित्ययोः परत्वादियङादेशः ।। (6212 विप्रतिषेधोपसंख्यानवार्तिकम् ।। 7 ।।) - आद्गुणात्सवर्णदीर्घत्वमाङभ्यासयोः - आद्गुणात्सवर्णदीर्घत्वं भवति विप्रतिषेधेन । क्व ? आङभ्यासयोः । आद्गुणस्यावकाशः ‐ - खट्वा ‐ - इन्द्रः ‐ - खट्वेन्द्रः, खट्वोदकम् । सवर्णदीर्घत्वस्यावकाशः ‐ - दण्डाग्रम्, क्षुपाग्रम् । इहोभयं प्राप्नोति ‐ - अद्य-आ-ःढ़द्य;ढा-अद्योढा, कदा-आ-ःढ़द्य;ढा-कदोढा, उप-इ-इजतुः-उपेजतुः, उप-उ-उपतुः-उपोपतुः । सवर्णदीर्घत्वं भवति विप्रतिषेधेन ।। (उदाहरणान्यथासिद्धिसाधकभाष्यम्) अभ्यासार्थेन तावन्नार्थः । अस्त्वत्राद्गुणः, आद्गुणे कृते अयवौ च, हलादिः शेषः, पुनराद्गुणो भविष्यति । भवेत्सिद्धम् ‐ - उपेजतुः, उपेजुरिति । इदं तु न सिद्ध्यति ‐ - उपोपतुः, उपोपुरिति । अत्र ह्याद्गुणे कृत ओदन्तो निपात इति प्रगृह्यसंज्ञा, प्रगृह्यः प्रकृत्येति प्रगृह्याश्रयः प्रकृतिभावः प्राप्नोति । पदान्तप्रकरणे प्रकृतिभावः न चैष पदान्तः । पदान्तभक्तः पदान्तग्रहणेन ग्राहिष्यते । एवं तर्ह्येतदेवात्र नास्ति ‐ - ओदन्तो निपात इति । किं कारणम् ? लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ।। इहापि तर्हि ‐ - यद्योढा, कदोढेति । भवेद्रूपं सिद्धं स्यात् ।। (6213 विप्रतिषेधाभावे दोषदर्शकवार्तिकम् ।। 8 ।।) - स्वरदोषस्तु - स्वरे तु दोषो भवति । अद्योढा ‐ - एवं स्वरः प्रसज्येत, अद्योढा ‐ - सति चेष्यते ।। (विप्रतिषेधाभावे पररूपानर्थक्यबोधकभाष्यम्) आङि पररूपवचनं चेदानीमनर्थकं स्यात् । नानर्थकम्, ज्ञापनार्थम् । किं ज्ञाप्यम् ? (6214 पररूपवचनज्ञापनवार्तिकम् ।। 9 ।।) - आङि पररूपं तु ज्ञापकमन्तरङ्गबलीयस्त्वस्य - एतज्ज्ञापयत्याचार्यः ‐ - अन्तरङ्गं बलीयो भवतीति । किं पुनरिहान्तरङ्गं किं बहिरङ्गम्, यावतो द्वे पदे आश्रित्य सवर्णदीर्घत्वमपि भवत्याद्गुणोऽपि । धातूपसर्गयोर्यत्कार्यं तदन्तरङ्गम् । कुत एतत् । पूर्वमुपसर्गस्य हि धातुना योगो भवति, नाद्यशब्देन । किमर्थं तर्ह्यशब्दः प्रयुज्यते ? अद्यशब्दस्यापि समुदायेन योगो भवति ।। किमेतस्य ज्ञापने प्रयोजनम् ? (6215 ज्ञापनप्रयोजनवार्तिकम् ।। 10 ।।) - प्रयोजनं पूर्वसवर्णपूर्वत्वतहिलोपटेनङेर्यङिस्मिन्ङिणलौत्वमन्तरङ्गं बहिरङ्गलक्षणाद्वर्णविकारात् - पूर्वसवर्णः प्रयोजनम् । अग्नी अत्र, वायू अत्र । पूर्वसवर्णश्च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकार आवादेशः । पूर्वसवर्णदीर्घत्वं भवत्यन्तरङ्गतः । पूर्वसवर्ण ।। पूर्वत्व । शकह्वर्थम्, परिव्यर्थम् । पूर्वत्वं च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् । पूर्वत्वं भवत्यन्तरङ्गतः । पूर्वत्व ।। तहिलोप । अकार्यत्र, अहार्यत्र, पचेदम् । तहिलोपौ च प्राप्नुतः, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् । तहिलोपौ भवतोऽन्तरङ्गतः । तहिलोप ।। तेन । वृक्षेणात्र, प्लक्षेणात्र । इनादेशश्च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् । इनादेशो भवत्यन्तरङ्गतः । तेन ।। ङेर्य । वृक्षायात्र, प्लक्षायात्र । ङेर्यादेशश्च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः ‐ - एङः पदान्तादति 6|1|109 इति परपूर्वत्वम् । ङेर्यादेशो भवत्यन्तरङ्गतः । ङेर्य ।। ङिस्मिन् । यस्मिन्निदम्, तस्मिन्निदम् । स्मिन्भावश्च प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् । स्मिन्भावो भवत्यन्तरङ्गतः । ङिस्मिन् ।। ङिणलौत्वम् । अग्नाविदम्, ययावत्र । ङिणलौत्वं प्राप्नोति, बहिरङ्गलक्षणश्च वर्णविकारः सवर्णदीर्घत्वम् । औत्वं भवत्यन्तरङ्गतः ।। (प्रयोजनाक्षेपभाष्यम्) नैतानि सन्ति प्रयोजनानि । विप्रतिषेधेनाप्येतानि सिद्धानि । (ज्ञापनप्रयोजनसमर्थकभाष्यम्) इदं तर्हि प्रयोजनम् ‐ - वृक्षा अत्र, प्लक्षा अत्र । पूर्वसवर्णश्च प्राप्नोति बहिरङ्गलक्षणश्च वर्णविकारः ‐ - अतो रोरप्लुतादप्लुते 6|1|113 इत्युत्वम् । पूर्वसवर्णो भवत्यन्तरङ्गतः । न चावश्यमिदमेव प्रयोजनम् । आद्ययोगे बहूनि प्रयोजनानि सन्ति यदर्थमेषा परिभाषा कर्तव्या । प्रतिविधेयं दोषेषु ।।