Page loading... Please wait.
6|1|107 - अमि पूर्वः
॥ तस्मै पाणिनये नमः ॥
6|1|107
SK 194
अमि पूर्वः   🔊
सूत्रच्छेदः
अमि (सप्तम्येकवचनम्) , पूर्वः (प्रथमैकवचनम्)
अनुवृत्तिः
अकः  6|1|101 (पञ्चम्येकवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
अकः अमि पूर्वपरयोः एकः पूर्वः संहितायाम्
सूत्रार्थः
अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकम् पूर्वरूपम् भवति ।
अम्-प्रत्ययः कुत्र कुत्र भवति?
1) स्वौजस्.. 4|1|2 इत्यनेन द्वितीया-एकवचनस्य अम्-प्रत्ययः विधीयते ।
2) परस्मैपदस्य उत्तमपुरुषैकवचनस्य मिप्-प्रत्यतस्य ङित्-लकाराणाम् विषये तस्थस्थमिपाम् तान्तन्तामः 3|4|101 इत्यनेन "अम्" इति आदेशः भवति ।

एतयोः उभयोः विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । अक्-वर्णात् परः एताभ्याम् कोऽपि अम्-प्रत्ययः अग्रे आगच्छति चेत् वर्तमानसूत्रेण अक्-वर्णस्य तथा अम्-इत्यस्य अकारस्य पूर्वपरयोः एकः पूर्वरूप-एकादेशः विधीयते ।

यथा -
1. "राम + अम्" इत्यत्र -
- अकः सवर्णे दीर्घः 6|1|101 इत्यनेन सवर्णदीर्घे प्राप्ते ;
- अपवादत्वेन अतो गुणे 6|1|97 इत्यनेन पररूप-एकादेशे प्राप्ते;
- विप्रतिषेधेन परत्वात् प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ;
- अपवादत्वेन अमि पूर्वः इति पूर्वरूप-एकादेशं कृत्वा
- "रामम्" इति रूपम् सिद्ध्यति ।

तथैव माला + अम् → मालाम् , साधु + अम् → साधुम् इत्यत्रापि अस्य सूत्रस्य प्रसक्तिः अस्ति ।

2. पठ्-धातोः लङ्लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रियायाम् -
पठ् + लट् [वर्त्तमाने लट् 3|2|123 इति लट्-लकारः]
→ अट् + पठ् + लट् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अडागमः]
→ अ + पठ् + शप् + लट् [कर्त्तरि शप् 3|1|68 इति औत्सर्गिकम् विकरणम् शप्]
→ अ + पठ् + अ + मिप् [तिप्तस्झि.. 3|4|78 इति मिप्-प्रत्ययः]
→ अ + पठ् + अ + अम् [तस्थस्थमिपाम् तान्तन्तामः 3|4|101 इति मिप्-प्रत्ययस्य अम्-आदेशः]
→ अपठम् [अकः सवर्णे दीर्घः 6|1|101 इत्यनेन सवर्णदीर्घे प्राप्ते ; अपवादत्वेन अतो गुणे 6|1|97 इत्यनेन पररूप-एकादेशे प्राप्ते; अपवादत्वेन अमि पूर्वः इति पूर्वरूप-एकादेशः]

तथैव लृङ्लकारस्य रूपम् "अपठिष्यम्" , लुङ्लकारस्य रूपम् "अपाक्षम्" एते अपि एवमेव सिद्ध्यतः ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "अमि" परे इति उक्तम् अस्ति । अतः अक्-वर्णात् अनन्तरम् अम्-प्रत्ययः आगच्छति चेत् पूर्वपरयोः एकः पूर्वरूपः भवति इति अर्थः जायते । परन्तु आदेः परस्य 1|1|54 इत्यनेन अम्-प्रत्ययस्य केवलं आदिवर्णस्य (अकारस्य) एव अक्-वर्णेन सह पूर्वरूपम् भवति, सम्पूर्णस्य अम्-प्रत्ययस्य न, इति ज्ञातव्यम् ।
2. सिद्धान्तकौमुद्याम् अस्मिन् सूत्रे "अचि" इत्यस्य अनुवृत्तिः स्वीकृता अस्ति । अस्य कारणम् बालमनोरमायाम् दीयते - यदि केवलम् "अमि" उति उच्येत, तर्हि सम्पूर्णस्य अम्-प्रत्ययस्य एकादेशः भवेत्, न हि केवलम् अकारस्य । अतः अत्र "अचि" इति स्वीकृत्य एकादेशे केवलम् अकारस्यैव ग्रहणं भवति न हि मकारस्य - इति निर्दिष्टम् अस्ति । परन्तु अस्मिन् विषये तत्वबोधिनीकारः आदेः परस्य 1|1|54 इत्येव पर्याप्तम् अस्ति इति प्रतिपादियति ।
3. वेदेषु अस्मिन् सूत्रे वा छन्दसि 6|1|107 इत्यनेन विकल्पः क्रियते । अस्मिन् विषये विस्तारेण वा छन्दसि 6|1|107 इत्यत्र उक्तम् अस्ति ।
One-line meaning in English
When a letter from the अक् प्रत्याहार is followed by the अच् letter of the अम्-प्रत्यय, the पूर्व and पर are combined together to form a पूर्वरूप-एकादेश.
काशिकावृत्तिः
अकः इत्येव। अमि परतोटकः पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति। वृक्षम्। प्लक्षम्। अग्निम्। वायुम्। पूर्वग्रहणम् किम्? पूर्व एव यथा स्यात्, पूर्वसवर्णो ऽन्तरतमो मा भूतिति, कुमारीम् इत्यत्र हि त्रिमात्रः स्यात्। वा छन्दसि 6|1|106 इत्येव, शमीं च, शम्यं च। गौरीं च, गौर्यं च।
पूर्वसवर्णदीर्घत्वे प्राप्ते वचनमिदम्। दीर्घ इति चेहानुवत्र्तते, अन्यथा हीदं वचनमनर्थकं स्यात्। अथ पूर्वग्रहणं किमर्थम्, यावता प्रकृतं यत्? पूर्वंग्रहणं तदेवेहानुवर्त्तिष्यत इति? अत आह--`पूर्वग्रहणम्` इत्यादि। यथाजातीयकः पूर्वस्तथाजातीयक एव यथा स्यादित्येवमर्थं पूर्वग्रहणम्। एवकारेण यद्व्यवच्छिन्नं तद्दर्शयितुमाह--`पूर्वसवर्णान्तरतमो मा भूत्` इति। पूर्वसवर्णश्चासावन्तरतमश्चेति कर्मधारयः। असति हि पूर्वग्रहणे यत्? पूर्वकं पूर्वग्रहणं तेनैवानुवर्त्तितव्यम्, तस्मिश्चानुवर्तमाने ततसम्बद्धं सव्रणग्रहणपि अनुवत्र्तेत, तथा च `स्थानेऽन्तरतमः` 1|1|49 इत्यनया परिभाषया पूर्वस्य यः सवर्णः स एव परसज्येत। किं पुनरेवं सत्यनिष्टं स्यात्, वृक्षमित्यादौ द्विमात्रस्य स्थानिनो द्विमात्र एव स्यादिति चेत्? नैतदस्ति; एवं हि वचनमिदमनर्थकं स्यात्, `प्रथमयोः पूर्वसवर्णः` 6|1|98 इत्यनेन सिद्धत्वादित्यत आह--`कुमारिमित्यत्र हि` इत्यादि। कुमारीशब्दस्येकारो द्विमात्रः, अमोऽकारो मात्रिकः; तत्समुदायात्मकश्चात्र स्थानी, तत्र पूर्वसवर्णो विधीयमानस्त्रिमात्रलस्य स्थानिनोऽन्तरतमस्त्रिमात्र एव स्यात्, पूर्वग्रहणे तु सति यथाजातीयक एव पूर्वः, तथाजातीयक एव द्विमात्रो भवति। `वा छन्दसीत्येव` इत्यादि। यदि तरहि `वा छन्दसि` 6|1|102 इत्यनुवत्र्तते, तेन सहास्यैकवाक्यतायां भाषायां परपूर्वत्वं न सिध्यति? नैतदस्ति; यस्मात्? तदिहानुवर्तमानं पूर्ववद्वाक्यभेदेन च्छन्दस्येव विकल्पं करोति, न भाषायाम्॥
ठ्दूर्घात्ऽ इति नानुर्क्तते, आरम्भसामर्थ्यात्। पूर्वग्रहणमित्यादि। यः पूर्वः श्रुतः, स एव यथा स्यात्, कः पुनरन्यः प्राप्नोति ? तत्राह--पूर्वसवर्णो दीर्घो मा भूदिति। क्वचितु समासः पठ।ल्ते, स कर्मधारयो द्रष्टव्य। एतदुक्तं भवति--असतीह पूर्वह्रहणे प्रकृतं पूर्वग्रहणमनुवर्त्यम्, तस्मिंश्चानुवर्तमाने तत्सम्बद्धं सवर्णग्रहणमप्यनुवर्त्यम्, ततश्च पूर्वस्य यः सवर्णः स एवान्तरतमः प्रसज्येत, तत्र को दोषः ? न तावद्वृक्षमित्यातदौ द्विमात्रस्य स्थानित्वेन द्विमात्रप्रसह्गः, वचनसामर्थ्यात् ठ्प्रथयोः पूर्वसवर्णःऽ इत्येव दीर्घस्य सिद्धत्वात् ? अत आह--कुमारीमित्यत्रेति। वा च्छन्दसीत्येवेति। एतच्च वाक्यभेदेन सम्बद्ध्यते, अन्यथा भाषायां न स्यात्। शम्यं चेति। विकल्पविदानसामर्थ्यात्पूर्वत्वाभावे पूर्वसवर्णदीर्घोऽपि न भवति, तयोरत्र विशेषाभावादिति यणादेश एव भवति ॥
सिद्धान्तकौमुदी
अकोऽम्यचि परतः पूर्वरूपमेकादेशः स्यात् । रामम् । रामौ ॥
अमि पूर्वः - ॒अकः सवर्ण॑ इति बाधित्वा "अतो गुण" इति पररूपं प्राप्तम्-तद्बाधित्वा॒प्रथमयो॑रिति पूर्वसवर्णदीर्घे प्राप्ते — अमिपूर्वः । "अकः सवर्णे दीर्घ" इत्यतोऽक इति पञ्चम्यन्तमनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् ।इको यणची॑त्यतोऽचीत्यनुवर्तते । तदाह — अकोऽम्यचीति । अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थः ।राम॑मिति मकारादकारस्य अमवयवाऽकारस्य च पूर्वरूपमकार एको भवति । अचीत्यनुवृत्तौअकोऽमि परे पूर्वपरयोः पूर्वरूपमेकादेशः स्या॑दिति लभ्यते । तथा सति अमो मकारसहितस्य पूर्वरूपं स्यात् । तन्मा भूदित्यजनुवृत्तिः । रामाविति । राम औडिति स्थिते हलन्त्यमिति टकारस्य इत्संज्ञायां लोपः औटष्टकारः सुडिति प्रत्याहारार्थः ।
अमि पूर्वः - अमिपूर्वः ।प्रथमयो॑रिति पूर्वसवर्णदीर्घे प्राप्तेऽयमारम्भः ।इको यणची॑त्यतोऽचीत्यनुवर्तते, तदाह — अम्यचीति । अमि योऽच् तस्मिन् । अमोऽवयवे अचीति यावत् । तेन मकारसहितस्य पूर्वरूपं नेति स्थितं मनोरमायाम् । एवम्अक्षादूहिन्या॑मित्यादावपिऊहिन्यां योऽच्तस्मि॑न्नित्यादि बोध्यम् ।पदास्वैरिबाह्रे॑त्यादिनिर्देशाश्चास्मिन्व्याख्याने लिङ्गमित्यपि स्थितम् । कथं तर्हि काशिकादावमि परत इत्येवोक्तं, न त्वम्यचीति चेदत्राहुः-॒तस्मादित्युत्तरस्या,॑आदेः परस्ये॑त्यादेरेवादेश इति निर्णीतेएकः पूर्वपरयो॑रित्यादेशः पूर्वपरयोर्वर्णयोरेव भविष्यतीत्याशयेन नोक्तमिति ।
लघुसिद्धान्तकौमुदी
अकोऽम्यचि पूर्वरूपमेकादेशः। रामम्। रामौ॥
महाभाष्यम्
अमि पूर्वः (2544) (पूर्वरूपाधिकरणम्) (छन्दसि विकल्पबोधकं भाष्यम्) वा च्छन्दसीत्येव । यमीं च यम्यं च, शमीं च शम्यं च, गौरीं च गौर्यं च, किशोरीं च किशोर्यं च ।।