Page loading... Please wait.
6|1|105 - दीर्घाज्जसि च
॥ तस्मै पाणिनये नमः ॥
6|1|105
SK 239
दीर्घाज्जसि च  
सूत्रच्छेदः
दीर्घात् (पञ्चम्येकवचनम्) , जसि (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
पूर्वसवर्णः  6|1|103 (प्रथमैकवचनम्) , प्रथमयोः  6|1|103 (सप्तमीद्विवचनम्) , इचि  6|1|104 (सप्तम्येकवचनम्) , न  6|1|104 (अव्ययम्)
अधिकारः
संहितायाम्  6|1|71 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
दीर्घात् इचि जसि च प्रथमयोः पूर्वसवर्णः न |
सूत्रार्थः
दीर्घस्वरात् प्रथमा-द्वितीययोः इच्-वर्णे परे तथा प्रथमा-बहुवचनस्य जस्-प्रत्यये परे "प्रथमयोः पूर्वसववर्णः" इत्यनेन पूर्वसवर्णदीर्घः न भवति ।
प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन निर्दिष्टस्य पूर्वसवर्णदीर्घस्य अयम् अपवादः । दीर्घस्वरात् प्रथमाद्वितीया-विभक्त्योः इच्-प्रत्याहारस्य वर्णे परे प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घः न भवति । तथैव, दीर्घस्वरात् जस्-प्रत्यये परे अपि प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घः न भवति । यथा -

1) नदी + औ
→ नद्यौ [इको यणचि 6|1|77 इत्यनेन यणादेशे प्राप्ते ; विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; दीर्घात् जसि च 6|1|105 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः इको यणचि 6|1|77 इत्यनेन यणादेशः ]

2) सेनानी + औ
→ सेनान्यौ [इको यणचि 6|1|77 इत्यनेन यणादेशे प्राप्ते ; विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; दीर्घात् जसि च 6|1|105 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः इको यणचि 6|1|77 इत्यनेन यणादेशः ]

3) वधू + जस्
→ वध्वः
→ नद्यौ [इको यणचि 6|1|77 इत्यनेन यणादेशे प्राप्ते ; विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; दीर्घात् जसि च 6|1|105 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः इको यणचि 6|1|77 इत्यनेन यणादेशः ]

4) माला + जस्
→ मालास् [अकः सवर्णे दीर्घः 6|1|101 इत्यनेन सवर्णदीर्घे प्राप्ते ; विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; दीर्घात् जसि च 6|1|105 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः अकः सवर्णे दीर्घः 6|1|101 इत्यनेन सवर्णदीर्घः]
→ मालारुँ [ससजुषोः रुँः 8|2|66 इति रुँत्वम्]
→ मालाः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

5) हाहा + जस्
→ हाहास् [अकः सवर्णे दीर्घः 6|1|101 इत्यनेन सवर्णदीर्घे प्राप्ते ; विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; दीर्घात् जसि च 6|1|105 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः अकः सवर्णे दीर्घः 6|1|101 इत्यनेन सवर्णदीर्घः]
→ हाहारुँ [ससजुषोः रुँः 8|2|66 इति रुँत्वम्]
→ हाहाः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

ज्ञातव्यम् - आकारान्तस्त्रीलिङ्गशब्दात् आकारान्तपुँल्लिङ्गशब्दात् च इच्-प्रत्यये परे नादिचि 6|1|104 इत्यनेनैव पूर्वसवर्णदीर्घनिषेधः भवति, अतः तत्र वर्तमानसूत्रस्य प्रयोगः न करणीयः । यथा - "माला + औ" इत्यत्र तथा "हाहा + औ" इत्यत्रापि नादिचि 6|1|104 इत्यनेनैव पूर्वसवर्णदीर्घनिषेधः भवति ।
One-line meaning in English
When दीर्घस्वर is followed by a प्रत्यय of प्रथमा or द्वितीया विभक्ति that begins with a letter of इच्-प्रत्याहार, then the पूर्वसवर्णदीर्घ mandated by "प्रथमयोः पूर्वसवर्णः" does not happen. Also, when a दीर्घस्वर is followed by the जस्-प्रत्यय, then the पूर्वसवर्णदीर्घ mandated by "प्रथमयोः पूर्वसवर्णः" does not happen.
काशिकावृत्तिः
दीर्घात् जसि इचि च परतः पूर्वसवर्णदीर्घः न भवति। कुमार्यौ। कुमार्यः। ब्रह्मबन्ध्वौ। ब्रह्मबन्ध्वः।
`आत्` इति नानुवत्र्तते, तेनाऽयं दीर्घामात्रात्? पूर्वसवर्णस्य प्रतिषेधः। अथ खट्वा इत्यत्र कथं `प्रथमयोः पूर्वसवर्णः` 6|1|102 इति दीर्घत्वम्? दीर्घादिति वचनं स्पष्टार्थम्। ननु चासति तस्मिन्? वृक्षा इत्यत्रापि स्यात्? नैतदस्ति; यदि ह्रत्रापि स्यात्, तदा पूर्वसत्रे `इचि` इत्येतदपार्थकं स्यात्। इह तर्हि स्यात्--अग्नये इति? इष्टत्वाददोषः। अत्र हि परत्वात्? `जसि च` 7|3|109 इति गुण एव भवति। उत्तरार्थ तर्हि स्यात्--`वा छन्दसि` 6|1|106 इति दीर्घाद्यथा स्यात्? नैतदस्ति; वाग्रहणस्य तत्र व्यवस्थितविभाषाविज्ञानात्--दीर्घादेव भविष्यति न ह्यस्वात्। `जसि च` 7|3|109 इत्येतदपि स्पष्टार्थमेव। ननु चासति `जसि च` इत्येतस्मिन्? युवतीः पश्य, पद्धतीः पश्येत्यादौ शस्यपि प्रतिषेधः स्यात्? ज्ञापकान्न भविष्यति, यदयं `तस्माच्छसो नः पुंसि` 6|1|99 इति पुंग्रहणं करोति, तज्ज्ञापयति--शसि प्रतिषेधो न भवतीति। तद्धि नपुंसके पूर्वसवर्णदीर्घत्वासम्भवात्? स्त्रीनिवृत्त्यर्थमेव क्रियते। यदि च स्तिरियामप्ययं युवतीः पश्येत्यादौ प्रतिषेधः स्यात्, तदा पूर्वसवर्णदीर्घत्वाभावान्नत्वस्य प्रतिप्तिरेव नास्तीति किं पुंग्रहणेन? उत्तरार्थं तर्हि जस्ग्रहणम्? नैतदस्ति; वाग्रहणस्य तत्र व्यवस्थितविभाषात्वविज्ञानादेव जसोऽन्यत्र न भविष्यति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
दीर्घाज्जसि इचि च परे प्रथमयोः पूर्वसवर्णदीर्घो न स्यात् । वृद्धिः । विश्वपौ । सवर्णदीर्घः । विश्वपाः । यद्यपीह औङि नादिची (कौमुदी-165)त्येव सिद्धं जसि तु सत्यपि पूर्वसवर्णदीर्घे क्षतिर्नास्ति तथापि गौर्यौ गौर्य इत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्यम् ॥
दीर्घाज्जसि च - दीर्घाज्जसि च । "प्रथमयोः" इत्यतः "पूर्वसवर्ण" इतिनादिची॑त्यतोने॑तिइची॑ति चानुवर्तते । तदाह दीर्घादित्यादिना । नन्विदं सूत्रं व्यर्थं,नादिची॑त्येव सिद्धेरिति शङ्कते-यद्यपीहेति । ननु जसि विआपा-असिति स्थिते पूर्वसवर्णदीर्घनिषेधार्थमिदं सूत्रमावश्यकं, तत्रनादिची॑त्यस्याऽप्रवृत्तेरित्यत आह-जसि त्विति । माऽस्तु पूर्वसवर्णदीर्घनिषेधः । पूर्वसवर्णदीर्घे सत्यपि जसि "विआपाः" इति सिध्यति । तन्निषेधे सत्यपि "अकः सवर्णे दीर्घः" इति कृते ।ञपि "विआपाः" इत्येवं रूपं सिध्यति । अतः किं तन्निषेधेनेत्यर्थः । परिहरति — तथापीति । इत्यादीति । आदिना लक्ष्म्यावित्यादिसङ्ग्रहः । तत्रनादिची॑त्यस्याऽप्रसक्त्या तन्निषेध आवश्यक इति भावः । ननु दीर्घाज्जसि चे॑ति सूत्रं यदि "गोर्यौ" इत्याद्यर्थमेव, तर्हि ईदन्ताधिकारे गौरीशब्दनिरूपणावसर एव तदुपन्यासो युक्तं इत्यत आह-इहापीति । विआपावित्यत्रनादिची॑त्यस्यदीर्घाज्जसि चे॑त्यस्य च प्राप्तौ परत्वेनदीर्घाज्जसि चे॑त्यस्यैवोपन्यासौचित्यादित्यर्थः ।अमि पूर्वः॑ । विआपाम् ।
दीर्घाज्जसि च - दीर्घाज्जसि च । चकारादिचीत्यनुकृष्यते, नेति चानुवर्तते, तदाह-दीर्घाज्जसि इचि चेति । सूत्रे चकाराऽभावे ह्यस्वाऽकारादिचि दीर्घाकारात्तु जसीति व्यवस्था संभाव्येतेति भावः । इत्याद्यर्थमिति । ननुयू स्त्र्याख्यौ॑ल्वादिभ्यः॑ इति निर्देशादिक्प्रत्याहाराऽच्प्रत्याहारयोरेव निरूढलक्षणेति व्याख्यायतां, तथाच दीर्घस्याऽच्त्वाऽभावाद्गौर्यावित्यादौ पूर्वसवर्णदीर्घो न प्राप्नोतीति किमनेन निषेधसूत्रेणेति चेन्मैवम्, अस्मादेव निषेधाज्ज्ञापकादिगज्भिन्नेष्वपि प्रत्याहरेषु लक्षणा स्वीक्रियते । अन्यथागौरी॑रित्यादौ शसि परतः पूर्वसवर्णदीर्घो न स्यात् । किंचउपार्छती॑त्यादौउरण्रपरः,॑नैषादकर्षुकः॑ इत्यादौइसुसु॑गिति ठस्य कादेशः,अमीषा॑मित्यादौ इणः परस्य सस्य च षत्वं न सिध्यतीति दिक् ।प्रथमयोः — ॑ इति सूत्रानन्तरंदीर्घाच्छसी॑त्येव सुवचम् । दीर्घाच्छस्येव पूर्वसवर्णदीर्घ इति तस्यार्थः । एवं च चकारो न कर्तव्यो, नेति च नानुवर्तनीयमिति महल्लाघवमित्येके ।शसि दीर्घादेवे॑ति विपरीतनियमवारणायनृन्पे॑,कानाम्रेडिते॑ इति निर्देशाश्रयणे प्रतिपत्तिगौरवं स्यादिति यतान्यास एव श्रेय इत्यन्ये ।
लघुसिद्धान्तकौमुदी
पप्यौ 2। पप्यः। हे पपीः। पपीम्। पपीन्। पप्या। पपीभ्याम् 3। पपीभिः। पप्ये। पपीभ्यः 2। पप्यः 2। पप्योः। दीर्घत्वान्न नुट्, पप्याम्। ङौ तु सवर्णदीर्घः, पपी। पप्योः। पपीषु। एवं वातप्रम्यादयः॥ बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.