Page loading... Please wait.
6|1|104 - नादिचि
॥ तस्मै पाणिनये नमः ॥
6|1|104
SK 165
नादिचि  
सूत्रच्छेदः
(अव्ययम्) , आत् (पञ्चम्येकवचनम्) , इचि (सप्तम्येकवचनम्)
अनुवृत्तिः
पूर्वसवर्णः  6|1|103 (प्रथमैकवचनम्) , प्रथमयोः  6|1|103 (सप्तमीद्विवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
आत् इचि प्रथमयोः पूर्वसवर्णः न
सूत्रार्थः
अवर्णात् प्रथमा-द्वितीययोः इच्-वर्णे परे "प्रथमयोः पूर्वसववर्णः" इत्यनेन पूर्वसवर्णदीर्घः न भवति ।
प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन निर्दिष्टस्य पूर्वसवर्णदीर्घस्य अयम् अपवादः । अकार/आकारात् प्रथमाद्वितीया-विभक्त्योः इच्-प्रत्याहारस्य वर्णे परे प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घः न भवति । यथा -

1) बाल + औ [प्रथमाद्विवचनस्य प्रत्ययः]
→ बालौ [वृद्धिरेचि 6|1|88 इत्यनेन वृद्धि-एकादेशे प्राप्ते ; विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; नादिचि 6|1|104 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः वृद्धिरेचि 6|1|88 इत्यनेन वृद्धि-एकादेशः ]

2) फल + औट् [द्वितीयाद्विवचनस्य प्रत्ययः]
→ फल + शी [नपुँसकाच्च 7|1|19 इति औट्-प्रत्ययस्य शी-आदेशः]
→ फल + ई [लशक्वतद्धिते [1।3।7]] इति शकारस्य इत्संज्ञा, लोपः]
→ फले [आद्गुणः 6|1|87 इत्यनेन गुण-एकादेशे प्राप्ते ; विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; नादिचि 6|1|104 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः [आद्गुणः 6|1|87 इत्यनेन गुण-एकादेशः ]

3) माला + औ [प्रथमाद्विवचनस्य प्रत्ययः]
→ माला + शी [औङः चापः 7|1|18 इति औट्-प्रत्ययस्य शी-आदेशः]
→ माला + ई [लशक्वतद्धिते [1।3।7]] इति शकारस्य इत्संज्ञा, लोपः]
→ माले [आद्गुणः 6|1|87 इत्यनेन गुण-एकादेशे प्राप्ते ; विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; नादिचि 6|1|104 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः [आद्गुणः 6|1|87 इत्यनेन गुण-एकादेशः ]

4) हाहा + औट् [प्रथमाद्विवचनस्य प्रत्ययः]
→ हाहौ [वृद्धिरेचि 6|1|88 इत्यनेन वृद्धि-एकादेशे प्राप्ते ; विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते ; नादिचि 6|1|104 इत्यनेन पूर्वसवर्णदीर्घस्य निषेधः । अतः वृद्धिरेचि 6|1|88 इत्यनेन वृद्धि-एकादेशः ]
One-line meaning in English
When अकार / आकार is followed by a प्रत्यय of प्रथमा or द्वितीया विभक्ति that begins with a letter of इच्-प्रत्याहार, then the पूर्वसवर्णदीर्घ mandated by "प्रथमयोः पूर्वसवर्णः" does not happen.
काशिकावृत्तिः
अवर्णातिचि पूर्वसवर्णदीर्घो न भवति। वृक्षौ। प्लक्षौ खट्वे। कुण्डे। आतिति किम्? अग्नी। इचि इति किम्? वृक्षाः।
`खट्वे` इति। `औङ आपः` 7|1|18 इति शीभावः। `कुण्डे` इति। अत्रापि `नपुंसकाच्च` 7|1|19 इति, तत्र कृते `आद्गुणः` 6|1|84 इति गुणः॥
खट्वे इति। ठौङ् आपःऽ इति औङ्ः शीभावः। कुण्कडे इति। अत्रापि ठ्नपंसकाच्चऽ इति ॥
सिद्धान्तकौमुदी
अवर्णादिचिपरे न पूर्वसवर्णदीर्घः । आद्गुणः (कौमुदी-69) । एङः पदान्तादति (कौमुदी-86) । शिवोऽर्च्यः । अत इति तपरः किम् । देवा अत्र । अतीति तपरः किम् । श्व आगन्ता । अप्लुतात्किम् । एहि सुस्रोत3 अत्र स्नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । अप्लुतादिति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् । तपरकरणस्य तु न सामर्थ्यं दीर्घनिवृत्त्या चरितार्थत्वात् । अप्लुते इति किम् । तिष्ठतु पय अ3ग्निदत्त । गुरोरनृत (कौमुदी-97) इति प्लुतः ॥
नादिचि - नादिचि । न-आदिति छेदः । आदिति पञ्चमी । पूर्वसवर्ण इत्यनुवर्तते । तदाह — अवर्णादिति । अनेन शिव — उ इत्यत्र पूर्वसवर्णदीर्घनिषेधः । आद्गुण इति । शिव उ इति स्थिते आद्गुणे इति गुणं बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते तस्मिन्निषिद्धे सति बाधके निवृत्ते गुणः पुनरुन्मिषति ।देवदत्तस्य हन्तरि हते देवदत्तस्य न पुनरुन्मज्जन॑मिति न्यायस्तु नात्र प्रवर्तते । देवदत्ते हते सति तद्धन्तुर्हने देवदत्तस्य न पुनरुन्मेष इति हि तदर्थः । देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य उन्मेषोऽस्त्येव । प्रकृते च पूर्वसवर्णदीर्घेण गुणो न हतः । किन्तु हननोद्यम सजातीयं प्रसक्तिमात्रं पूर्वसवर्णदीर्घस्य स्थितम् । प्रसक्ते च तस्मिन्निषदे गुणोन्मेषो निर्बाध एवेति स्वादिष्विति सूत्रे कैयटे स्पष्टम् ।अपवादे निषिद्दे उत्सर्गस्य स्थितिः॑ इति न्यायश्च एतन्मूलक एव । "तौ सत्" "भिद्योद्ध्यौ नदे" इत्यादिनिर्देशाश्चात्रानुकूला इत्यलम् । एङः पदान्तादतीति । शिवो-अच्र्य इति स्थिते ओकारस्य अकारस्य च स्थाने पूर्वरूपमोकारः । देवा अत्रेति । देवास्-अत्रेति स्थिते, सस्य रुः तस्य दीर्घादाकारात्परत्वादतः परत्वाऽभावादुत्वं न, — किन्तु "भोभगो" इति यत्वे, लोपः शाकल्यस्ये॑ति [यकार]लोपः । आ आगन्तेति । आस्-आगन्तेति स्थिते सस्य रुः । तस्य ह्यस्वाकारपरकत्वाऽभावादुत्वं न, किन्तु — यत्वं, लोपश्च । एहीति । सुरुआओत३र् — अत्रेति स्थिते प्लुतात्परस्य रोरुत्वनिवृत्तये अप्लुतादिति पदमित्यर्थः । नन्वत्र रोरतः परत्वाभावादेव उत्वनिवृत्तिसिद्धेरप्लुतादिति व्यर्थमेवेत्यत आह — प्लुतस्यासिद्धत्वादिति । उत्वे कर्तव्ये प्लुतस्यासिद्धत्वादतः परोऽयं रुः । अतस्तस्य उत्वे प्राप्ते तन्निवृत्त्यर्थमप्लुतादित्यावश्यकमित्यर्थः । नन्वप्लुतादित्युक्ते ।ञपि रोरुत्वमत्र दुर्वारम्, उत्वे कर्तव्ये प्लुतस्यासिद्धतया अप्लुतात्परत्वस्यापि सत्त्वादित्यत आह — प्लुतादितीति । विशेषणे तु तत्सामथ्र्यान्नासिद्धत्वमिति । यदि उत्वे कर्तव्ये प्लुतस्यासिद्धत्वं, तर्हि अप्लुतादिति विशेषणं व्यर्थमेव स्यात् । दत्तेऽपि विसेषणे प्लुतस्यासिद्धतयाऽप्लुतात्परत्वस्यापि सत्त्वेन उत्लप्राप्तिदोषतादवस्थ्यात् । अतोऽप्लुतादिति विशेषणसामथ्र्यात्प्लुतस्य नाऽसिद्धत्वमिति विज्ञायते इत्यर्थः । नन्वेवमपि अप्लुतादिति व्यर्थं,प्लुतात् परस्य रोरत॑ इति तपरकरणादेव उत्वनिवृत्तिसिद्धेः । नच उत्वे कर्तव्ये प्लुतस्याऽसिद्धत्वादतः परत्वस्यापि सत्त्वादुत्वं स्यादिति वाच्यं; तपरकरणसामथ्र्यादेव प्लुतस्याऽसिद्धत्वाऽबावविज्ञानेन अतः परत्वाभावेनैव उत्वनिवृत्तेः सम्भवादित्यत आह — तपरकरणस्येति ।प्लुतस्यासिद्धत्वाऽभावसाधने॑ इति शेषः । कुत एतदत आह — दीर्घनिवृत्त्येति ।देवा-अत्रे॑त्यादौ दीर्घव्यावृत्त्या लब्धप्रयोजनकत्वादित्यर्थः । येन विना यदनुपपन्नं तत्तस्य गमकम् । यथा दिवा अभुञ्जानस्य पीनत्वं रात्रिभोजनं विना अनुपपद्यमानं रात्रिभोजनस्य गमकम् । प्रकृते तु प्लुतस्यासिद्धत्वेऽपि "अत" इति तपरकरणंदेवा अत्रे॑त्यादौ दीर्घव्यावृत्तिरूपं प्रयोजनं लब्ध्वा उपपद्यमानं सत्कथं प्लुतस्यासिद्धत्वाऽभावं गमयितुं शक्नुयादिति भावः । तिष्ठतु पय आ३ग्निदत्तेति । अत्र पयस् इति स्थिते, सस्य रुः, तस्य प्लुतपरकत्वादुत्वं न । ननु दूराद्धूते चेति वाक्यस्य टेः प्लुतविधानात् कथमिह अग्निदत्तशब्दे आद्यवर्णस्य प्लुत इत्यत आह — गुरोरिति ।
नादिचि - तद्धिनादिची॑ति पूर्वसवर्णदीर्घे निषिद्धे पुनरुत्सर्गस्य वृद्धेः प्रवृत्त्यैव सिध्यति नान्यथेति । नन्वेवंनान्तःपादमव्यपरे॑ इति पाठेसुजाते अआसूनृते॑उपप्रयन्तो अध्वर॑मित्यादौएङः पदान्तादती॑ति पूर्वरूपमेव हि तेन निषिध्येत, तस्मश्च निषिद्धेएचोऽडयवायावः॑ इत्युत्सर्गोऽपि प्रवर्तेत ।मैवम् ; बाधके निषिद्धे बाध्यमपि क्वचिन्नेति स्वीकारात्तत्सिद्धेः ।
लघुसिद्धान्तकौमुदी
आदिचि न पूर्वसवर्णदीर्घः। वृद्धिरेचि। रामौ॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.