Page loading... Please wait.
6|1|101 - अकः सवर्णे दीर्घः
॥ तस्मै पाणिनये नमः ॥
6|1|101
SK 85
अकः सवर्णे दीर्घः  
सूत्रच्छेदः
अकः (पञ्चम्येकवचनम्) , सवर्णे (सप्तम्येकवचनम्) , दीर्घः (प्रथमैकवचनम्)
अनुवृत्तिः
अचि  6|1|77 (सप्तम्येकवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः
सूत्रार्थः
अक्-वर्णात् परस्य सवर्णे अच्-वर्णे परे पूर्वपरयोः एकः दीर्घ-एकादेशः भवति ।
अक्-प्रत्याहारे अ, इ, उ, ऋ, ऌ - एते वर्णाः आगच्छन्ति । एतेषां परस्य सवर्णे अचि परे पूर्वपरयोः एकः सवर्णदीर्घः भवति ।
अयमेव सवर्णदीर्घसन्धिः ।

उदाहरणानि एतादृशानि ।
1. अकारः/आकारः + अकारः/आकारः = आकारः ।
दैत्य + अरि = दैत्यारि । गङ्गा + अरि = गङ्गारि । हिम + आलय = हिमालय । गङ्गा + आलय = गङ्गालय ।

2. इकारः/ईकारः + इकारः/ईकारः = ईकारः ।
इति + इदम् = इतीदम् । मुनि + ईश = मुनीश । नदी + इयम् = नदीयम् । श्री + ईश = श्रीश ।

3. उकारः/ऊकारः + उकारः/ऊकारः = ऊकारः ।
भानु + उदय = भानूदय । शिशु + ऊति = शिशूति । साधू + उपेतः = साधूपेतः । वधू + ऊति = वधूति ।

4. (ऋकार-ऌकारौ परस्परयोः सवर्णौः स्तः, अतः) ऋकारः/ॠकारः/ऌकारः + ऋकारः/ॠकारः/ऌकारः = ॠकारः ।
पितृ + ऋणम् = पितॄणम् । होतृ + ऌकारः = होतॄकारः ।

अत्र वार्त्तिकद्वयं ज्ञातव्यम् -

1. ऋति सवर्णे ऋ वा - ह्रस्व-ऋकारात् / ह्रस्व-ऌकारात् ह्रस्व-ऋकारे परे विकल्पेन "ऋ" इत्येव जायते । अयं "ऋ" वर्णः ह्रस्व-ऋकारः नास्ति, अपितु "नरसिंहऋकारः" अस्ति । इत्युक्ते, अस्मिन् ऋ-वर्णे द्वौ रेफौ तथा एकः ह्रस्व-ऋकारः समाविष्टाः सन्ति । एतादृशम् अयम् विशेषः वर्णः द्विमात्रिकः अस्ति ।
अतः "होतृ + ऋकार" इत्यत्र अनेन वार्त्तिकेन विकल्पेन नरसिंहवर्णे कृते "होत्ऋकारः" इति सिद्ध्यति । विकल्पाभावे सवर्णदीर्घं कृत्वा "होतॄकारः" इत्यपि सिद्ध्यति । तथा च, ऋत्यकः 6|1|128 अनेन सूत्रेण पाक्षिके प्रकृतिभावे कृते "होतृऋकार" इति अपि रूपं सिद्ध्यति ।

2. ऌति सवर्णे ऌ वा - ह्रस्व-ऋकारात् / ह्रस्व-ऌकारात् ह्रस्व-ऌकारे परे विकल्पेन "ऌ" इत्येव जायते । अयं "ऌ" वर्णः ह्रस्व-ऌकारः नास्ति, अपितु "नरसिंहऌकारः" अस्ति । इत्युक्ते, अस्मिन्ऌ-वर्णे द्वौ लकारौ तथा एकः ह्रस्व-ऌकारः समाविष्टाः सन्ति । एतादृशम् अयम् विशेषः वर्णः द्विमात्रिकः अस्ति ।
अतः "होतृ + ऌकार" इत्यत्र अनेन वार्त्तिकेन विकल्पेन नरसिंहवर्णे कृते "होत्ऌकारः" इति सिद्ध्यति । विकल्पाभावे सवर्णदीर्घं कृत्वा "होतॄकारः" इत्यपि सिद्ध्यति । तथा च, ऋत्यकः 6|1|128 अनेन सूत्रेण पाक्षिके प्रकृतिभावे कृते "होतृऌकार" इति अपि रूपं सिद्ध्यति ।


ज्ञातव्यम् -
1) द्वयोः वर्णयोः "सवर्ण"-संज्ञा तदा भवति यदा तयोः मुखस्थित-उच्चारणस्थानम् तथा आभ्यन्तरप्रयत्नाः समानाः सन्ति । तुल्यास्यप्रयत्नं सवर्णम् 1|1|9 इत्यत्र अस्मिन् विषये विस्तारेण चर्चा कृता अस्ति ।
2) अस्मिन् सूत्रे "अचि" इत्यस्य अनुवृत्तिः किमर्थम् आवश्यकी? तुल्यास्यप्रयत्नं सवर्णम् 1|1|9 तथा नाज्झलौ 1|1|10 इत्याभ्याम् दीर्घ-ईकार-शकारयोः तथा दीर्घ-ऋकार-षकाराणाम् अपि सावर्ण्यं जायते । (एषः बिन्दुः अस्मिन् लेखे विस्तारेण पाठितः अस्ति) । अतः "नदी + शेते" एतादृशेषु स्थलेषु अनेन सूत्रेण सवर्णदीर्घं मा भूत्, इति दर्शयितुम् अत्र अचि-ग्रहणम् आवश्यकम् अस्ति ।
3) एतत् सूत्रम् आद् गुणः 6|1|78 , वृद्धिरेचि 6|1|88 तथा इको यणचि 6|1|77 एतेषाम् सर्वेषाम् अपवादरूपेण आगच्छति । तथा, अतो गुणे 6|1|97 एतत् सूत्रम् सवर्णदीर्घस्यापि अपवादरूपेण आगच्छति ।
One-line meaning in English
When an अक् letter is followed by a सवर्ण अच् letter, then the पूर्व and पर letters are combined to form a दीर्घ-एकादेश.
काशिकावृत्तिः
अकः सवर्णे अचि परतः पूर्वपरयोः स्थाने दीर्घ एकादेशो भवति। दण्डाग्रम्। दधीन्द्रः। मधूदके। होतृ̄श्यः। अकः इति किम्? अग्नये। सवर्ने इति किम्? दध्यत्र। अचि इत्येव, कुमारी शेते। नाज्झलौ 1|1|10 इत्यत्र यतचिति प्रत्याहारग्रहणं तत्र ग्रहणकशास्त्रस्य अनभिनिर्वृत्तत्वात् सवर्णा न गृह्यन्त इति सवर्नत्वमीकारशकारयोरप्रतिषिद्धम्। सवर्णदीर्घत्वे ऋति ऋ वा वचनम्। ऋति सवर्णे परभूते तत्र ऋ वा भवति इति वक्तव्यम्। होतृ ऋकारः होतृकारः। यदा न ऋ तदा दीर्घ एव होतृ̄कारः। लृति लृ वा वक्तव्यम्। ल्ट्ति सवर्णे परतो लृ वा भवति इति वक्तव्यम्। होतृ लृकारः होत्लृकारः। होतृ̄कारः। ऋकारलृकारयोः सवर्णासंज्ञाविधिरुक्तः। दीर्घपक्षे तु समुदायान्तरतमस्य लृवर्णस्य दीर्घस्य अभावातृकारः क्रियते।
Text Unavailable. Please use feedback link below to provide the text if you have.
अग्नय इति। ठ्घेर्ङितिऽ इति गुणे कृते दीर्घत्वप्रसङ्गः। दध्यत्रेति। असति सवर्णग्रहणे यणादेशस्य दीर्घस्य च विषयविभागो न ज्ञायेत, ततश्च पर्यायः स्यात्। कुमारी शेत इति। ननु च तुल्यास्यप्रयत्नत्वेऽपि सावर्ण्यमत्र नास्ति, ठ्नाज्ज्ञलौऽ इति प्रतिषेधात्? इत्यत आह--नाज्झलावित्यर्त्रति। ठाणुदित्सवर्णस्य चाप्रत्ययःऽ इति ग्रहणकवाक्यम्, तच्च ठ्नाज्झलौऽ इत्यस्य प्रवृत्तिसमये नाभिनिर्वृतम्, तस्य हि सवर्णसंज्ञाङ्गम्, तेन यावत्सा न प्रवर्तते तावदनभिनिर्वृतम्। सवर्णसंझाऽपि स्वापवादे ठ्नाज्झलौऽ इत्यस्मिन्नप्रवृते न प्रवर्तते, ततश्च पूर्वं ठ्नाज्झलौऽ इत्यस्य प्रवृत्तिः, पश्चात्सवणसंज्ञायाः प्रवृत्तिः, पश्चाद् ग्रहणकवाक्यस्येति एष क्रमः। तेन ठ्नाज्झलौऽ इत्यत्रागृहीतसवर्णानामचां ग्रहणमिति इकारशकारयोः सावर्ण्यमपतिषिद्धम्, तस्मादचीत्यनुवर्त्यमिति। ऋति र्ःअ व वचनमिति। मध्ये रेफभक्ती द्वे, आदितोऽज्भक्तेरर्द्धमात्रा, एवमन्ततः। एवम् लृतीत्यत्रापि मध्ये द्वे लकारभक्ती, अभितः पूर्ववत्। एवं द्विमात्रयौरप्येतयोरीषत्स्पृष्टत्वाद्विवृताभ्यामृकारलृकाराभ्यामसावर्ण्यादग्रहणाद्दीर्घसंज्ञाया अभावाद्वचनम्। अर्द्धतृतीयमात्रत्वातत्कालत्वाभावादित्यन्ये। एतच्च सवर्णसंज्ञाया प्रपञ्चितम्। दीर्घपक्षे त्विति। ऋकारलुकारयोः समुदायः स्थानी, न च तस्यान्तरतमो दीर्घः सम्भवति, अतोऽवयवस्य योऽन्तरतमः स एव भवति। तत्रापि लृवर्णस्य दीर्घासम्भवादृकारस्य योऽन्तरतमः स एव भवति। तत्रापि लृवर्णस्य दीर्घासम्भवादृकारस्य योऽन्तरतमः स ऋकार एव भवति ॥
सिद्धान्तकौमुदी
अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । अचि किम् । कुमारी शेते । नाज्झलाविति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः । ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । अकः किम् । हरये ॥ अकोऽकि दीर्घ इत्येव सुवचम् ॥ ।ऋति सवर्णे ऋ वा (वार्तिकम्) ॥ होतृकारः ॥लृति सवर्णे लृ वा (वार्तिकम्) ॥ होत्लृकारः । पक्षे ऋकारः सावर्ण्यात् । ऋति ऋ वा लृति लृ वा इत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्रा । अभितोऽज्भक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ । शेषं प्राग्वत् । इहोभयत्रापि ऋत्यकः (कौमुदी-92) इति पाक्षिकः प्रकृतिभावो वक्ष्यते ॥
अकः सवर्णे दीर्घः - अकः सवर्णे । "अक" इति पञ्चमी ।इको यणची॑त्यतोऽचीत्यनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । तदाह-अकः सवर्णेऽचीत्यादिना । दैत्यारिरिति । दैत्य-अरिरिति स्थिते द्वयोरकारयोरेको दीर्घ आकारः, स्थानसाम्यात् । श्री-ईश इति स्थिते ईकारयोरेक ईकारः । विष्णु-उदय इति स्थिते उकारयोरूकारः । त्राचीत्यनुवृत्तेः किं प्रयोजनमिति पृच्छति-अचि किमिति । कुमारी शेत इति ।अची॑त्यननुवृत्तावीकारस्य शकारस्य च तालुस्थानविवृतप्रयत्नसाम्येन सवर्णतया तयोर्दीर्घ ईकार एकादेशः स्यात् । तन्निवृत्त्यर्थमचीत्यनुवर्तनीयमिति भावः । ननु ईकारशकारयोः स्थानप्रयत्नसाम्येऽपि न सावण्र्यं,नाज्झला॑विति निषेर्थात् । अतः "कुमारी शेते" इत्यत्र "अकःसवर्ण" इत्यस्याऽप्रसक्तेरचीत्यनुवृत्तिव्र्यर्थैवेत्यत आह — नाज्झलावितीति । नाज्झलाविति सावण्र्यनिषेधो वार्णसमाम्नायिकानामेव, नतु दीर्घप्लुतानामपि,आदिरन्त्येन सहेते॑त्यनेन वार्णसमाम्नायिकानामेवाऽच्शब्दवाच्यत्वावगमात् । अत ईकारशकारयोः सावण्र्यसत्त्वात्कुमारी शेत इत्यत्रातिप्रसङ्गः स्यादित्यचीत्यनुवृत्तिरावश्यकीत्यर्थः । ननु वार्णसमाम्नायिकानामेव अच्शब्दवाच्यत्वेऽपि अच्शब्दोपस्थितैरकारादिभिह्र्यस्वदीर्घप्लुतानामपि ग्रहणं भवति, अणुदित्सूत्रबलात् । अत ईकारशकारयोर्न सावण्र्यप्रसक्तिरित्यजनुवृत्तिव्र्यर्थैवेत्यत आह — ग्रहणकेति । अणुदित्सवर्णस्येति ग्रहणकसूत्रं हि लब्धात्मकमेव सत् "अस्य च्वौ" इत्यादौ प्रवृत्तिमर्हति । नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रमिदं न लब्धात्मकं । तद्धि सवर्णपदघटितत्वात्सवर्णपदार्थावगमोत्तरमेव लब्धात्मकम् । सवर्णसंज्ञाविधायकं च तुल्यास्यसूत्रं सामान्यतः स्वार्थं बोधयदपि नाज्झलावित्यपवादविषयं परिह्मत्य तदन्यत्रैव पर्यवसानं लब्ध्वा स्वकार्यक्षमतामश्नुते । उक्तं च — ॒प्रकल्प्यापवादविषयमुत्सर्गोऽभिनिविशते॑ इति । एवं चाऽणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकतया नाज्झलावित्यत्राऽज्ग्रहणेन दीर्घप्लुतानां ग्रहणाऽभावेन ईकारशकारयोः सावण्र्यनिषेधाऽभावेन सावण्र्यसत्त्वात्कुमारी शेत इत्यत्राऽकः सवर्ण इति प्राप्तौ तन्निवृत्त्यर्थमचीत्यनुवृत्तिराश्रयणीयेत्यर्थः । तदेतन्नाज्झलाविति सावण्र्यनिषेधो यद्यपीति ग्रन्थव्याख्यावसरे प्रपञ्चितम् । अकोऽकि दीर्घ इत्येव सुवचमिति । एवंच सवर्णग्रहणं न कर्तव्यमिति लाघवम् । दध्युकार इत्यत्र तु यथासंख्याश्रयणान्नातिप्रसङ्गः । ततश्च अचीत्यनुवृत्तिरपि नाश्रयणीयेति भावः ।॒ऋति ऋ वा॑ इति वार्तिकमकः सवर्ण इत्यतोऽनुवृत्तसवर्णपदेन योजयित्वा पठति — ऋति सवर्णे ऋ वा । अक इत्यनुवर्तते । एकः पूर्वपरयोरिति च । अकः सवर्णे ऋति परे पूर्वपरयोरृइत्येकादेशः स्यादित्यर्थः । होतृकार इति । होतृ-ऋकार इति स्थितेऽनेन द्वयोरृकारयोः स्थाने ऋकारविलक्षणो नृसिंहवद्द्व्यन्तरात्मा ऋकारो रेफद्वयवान् कश्चिद्वर्णो भवति । एतदभावपक्षे रूपं दर्शयति — होतृकार इति । "अकः सवर्ण" इति दीर्घः ।लृति सवर्णे लृ वा । अकः सवर्णे लृति परे पूर्वपरयोर्लृ इत्येकादेशो वा स्यादित्यर्थः । होत्लृकार इति । होतृ-लृकार इति स्थिते ऋकारस्य लृकारस्य च स्थाने नृसिंहपद्द्व्यन्तरात्मा लृकारो द्विलकारवान् कश्चिद्वर्णो भवति । पक्ष इति । उक्तद्व्यन्तरात्मकवर्णाऽभावपक्षे ऋकारस् लृकारस्य च स्थानेऽकः सवर्ण इति दीर्घो भवन्नृलृवर्णयोरिति सावण्र्यादृकार एव भवति, लृकारस्य दीर्घाऽभावादिति भावः । अत एव होतृ-लृकार इत्यत्र सवर्णदीर्घपक्षे होतृकार इत्येवोदाह्मतं भाष्ये । अथ "ऋति ऋ वा"लृति लृ वे॑त्यत्र विधेयवर्णस्वरूपं विविनक्ति — उभयत्रापि विधेयं वर्णद्वयं द्विमात्रमिति । तदेवोपपादयति — आद्यस्य मध्य इति । एका मात्रेति । व्यञ्जनानामर्धमात्रतया एकैकस्य रेफस्य अर्धमात्रत्वादिति भावः । अभितोऽज्भक्तेरिति । "अभित" इत्यनन्तरंरेफा॑विति शेषः ।अज्भक्ते॑रिति सामान्याभिप्रायमेकवचनम् । रेफद्वयस्य पुरस्तादुपरिष्टाच्च विद्यमानयोह्र्यस्वऋकारांशयोरन्या मात्रेत्यर्थः । द्वितीयस्य इति ।विधेयस्ये॑ति शेषः । शेषं प्राग्वदिति । लकारयोरेका मात्रा, तावभितो विद्यमानयोर्लृकारांशयोरन्या मात्रेत्यर्थः । एतच्च तुल्यास्यसूत्रे भाष्यकैयटयोः स्पष्टम् । एतेन दीर्घे प्राप्ते ह्यस्व ऋकारो लृकारश्चात्र विधीयत इति प्राचीनग्रन्थः परास्तः । पाक्षिक इति । वैकल्पिक इत्यर्थः । प्रकृतिभाव इति । निर्विकारस्वरूपेणावस्थानमित्यर्थः । सन्ध्यभाव इति यावत् ।
अकः सवर्णे दीर्घः - नाज्झलावित्यादि । अयं भावः — विधेयभेदे वाक्यभेदात्संभवन्त्यामेंकवाक्यतायां तदयोगात्तुल्यास्यप्रयत्न॑मित्यस्यनाज्झलौ॑ इत्यस्य च एकवाक्यत्वलाभायअज्झल्भिन्नं सवर्ण॑मित्यर्थोऽभ्युपेयते ।अज्झल्भिन्न॑मित्यत्र परस्परनिरूपिततुस्यत्वविशिष्टास्यप्रयत्नकौ यावज्झलौ, तदुभयभिन्नत्वं विवक्षितम् । तथाचयो ह्यस्वदीर्घात्मको वर्णो येन वर्णेन तादृशेन तुल्यास्यप्रयत्नस्तदुभयं मिथः सवर्णं भवति॑, तथायेन हला तुस्यास्यप्रयत्नकं यद्धल्, तदुभयंमिथः सवर्णं स्यात्,यश्च दीर्घप्लुतात्मको वर्णो येन हला तुल्यास्यप्रयत्नस्तदुभयमपि मिथः सवर्ण॑मित्यर्थः फलितः । ततश्चानेन सूत्रद्वयेन सवर्णसंज्ञायां सिद्धायाम्अणुदित्सवर्णस्ये॑ति ग्राहकशास्त्रं प्रवर्तते, ननु ततः प्राक् । अतोनाज्झलौ॑ इत्यनेन आक्षरसमाम्नायिकानामेव सावण्र्यं व्युदस्यते, नतु सर्वेषाम् । तेनात्र दीर्घशकारयोः सावण्र्यमस्त्येवेति तद्वारणायअकः सवर्णे॑ इत्यात्राऽचीत्यनुवर्तनं युक्तमिदम् । यदा तूष्मणामीषद्विधृतत्वं परिकल्प्यनाज्झलौ॑ इति सूत्रं प्रत्याख्यायते, तदेह सवर्णसूत्रेअची॑ति नानुवर्तनीयम् ।हे पिषासो इत्यादौ गुरोरनृतः-॒इत्याकारस्य प्लुते कृते ततः परस्य सस्य इणः परत्वेन षत्वं स्यात्,नाज्झलौ॑ इत्यत्राकारप्रश्लेषेण दीर्घहकारयोः सावण्र्याऽभावेऽपि प्लुताकारस्य हकारसवर्णत्वेनेण्त्वादित्याशङ्क्य तत्समाधानार्थमाश्च आश्चेति द्वन्द्वं कृत्वा सवर्णदीर्घेण दीर्घात्परत्र प्लुतोऽपि प्रश्लिष्यत इति क्लिष्टव्याख्यानमपि नाश्रयणीयम् । विआपाभिरित्यादौ ढत्वादेरप्यप्रसक्तिः । स्वराणामूष्माणां च प्रयत्नभेदेन सावण्र्याऽभावादिति सुगमोऽयं पन्थाः । अकोऽकीत्येवेति ।अकोऽकि दीर्घः॑ इत्येवेत्यर्थः । सुवचमिति । यथासङ्ख्यसंबन्धेनदध्यत्रे॑त्यादावतिप्रसङ्गाऽभावात् ,ऋ॑इति तिंरशतः संज्ञेत्युक्तत्वात्होतृ-लृकार॑ इत्यत्र ऋकारस्य ऋकारपरत्वमस्त्येवेत्यप्रसङ्गाभावादीकारशकारयोः सावण्र्ये सत्यप्यचीत्यनुवर्तनं विनैव समीहीतिरूपसिद्धेश्चेति भावः ।ऋति ऋ वा॑ लृति लृ वे॑ति वार्तिकं सूत्रस्थेन सवर्णपदेन योजयित्वा पठति ।ऋति सवर्ण इत्यादि । नन्वेवम्अकः सवर्णे-॑ इति सवर्णपदाऽकरणे वार्तिकयोः सवर्णग्रहणं कर्तव्यम्, सूत्रे तुअकोऽकी॑ति कर्तव्यमिति विपरीतगौरवात्कथम्अकोऽकीत्येव सुवच॑मित्युक्तमिति चेदत्राहुः — भाष्यकारैरेतद्वार्तिकद्वयस्य प्रत्याख्यानान्नास्त्येव गौरवमिति । प्रत्याश्याने तूपपर्त्तिर्लृकारान्तेषु विचारयिष्यते ।वर्णद्वयं द्विमात्रमिति । एतेनदीर्घे प्राप्ते ह्यस्वलृकारश्च विधीयते॑ इति प्राचो व्याख्यानमाकरविरुद्धमिति ध्वनितम् ।
लघुसिद्धान्तकौमुदी
अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारः। श्रीशिः। विष्णूदयः। होतॄकारः॥
महाभाष्यम्
अकः सवर्णे दीर्घः (2538) (दीर्घाधिकरणम्) (6198 उपसंख्यानवार्तिकम् ।। 1 ।।) - सवर्णदीर्घत्वे ऋति ऋ वावचनम् - सवर्णदीर्घत्वे ऋति ऋ वा भवतीति वक्तव्यम् । होतृ ऋकारः ‐ - होतृकारः ।। (6199 उपसंख्यानवार्तिकम् ।। 2 ।।) - लृति ल्लृ वा - लृति ल्लृ वा भवतीति वक्तव्यम् । होतृ लृकारः ‐ - होत्ल्लृकारः । इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम् ।।