Page loading... Please wait.
6|1|10 - श्लौ
॥ तस्मै पाणिनये नमः ॥
6|1|10
SK 2490
श्लौ   🔊
सूत्रच्छेदः
श्लौ (सप्तम्येकवचनम्)
अनुवृत्तिः
अनभ्यासस्य  6|1|8 (षष्ठ्येकवचनम्) , धातोः  6|1|8 (षष्ठ्येकवचनम्)
अधिकारः
एकाचो द्वे प्रथमस्य  6|1|1
सम्पूर्णसूत्रम्
धातोः अनभ्यासस्य श्लौ द्वे |
सूत्रार्थः
श्लौ परे यस्य धातोः द्वित्वम् न कृतम् अस्ति तस्य (यथानिर्दिष्टम्) द्वित्वं भवति ।
"श्लु" इति प्रत्ययलोपस्य एका संज्ञा अस्ति, या प्रत्ययस्य लुक्-श्लु-लुपः 1|1|61 इत्यनेन दीयते । यत्र "श्लु" संज्ञया प्रत्ययलोपः भवति, तत्र वर्तमानसूत्रेण अनभ्यासस्य अङ्गस्य द्वित्वम् भवति ।

किम् नाम "अनभ्यासः"? पूर्वोभ्यासः 6|1|4 इत्यनेन द्वित्वे कृते द्वयोः यः पूर्वः (प्रथमः), तस्य "अभ्यास"संज्ञा भवति । अतः यस्य धातोः द्वित्वं कृतं नास्ति, तादृशः धातुः "अनभ्यासः धातुः" इत्युच्यते । अस्य धातोः श्लौ-परे द्वित्वं भवति ।

यथा, जुहोत्यादिगणस्य "दा" धातोः प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

दा + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ दा + तिप् [तिप्तस्.. 3|4|78 इति तिप्]
→ दा + शप् + ति [कर्तरि शप् 3|1|68 इति शप्]
→ दा + ति [जुहोत्यादिभ्यः श्लुः 2|4|75 इति प्रत्ययस्य श्लुः (लोपः)।]
→ दा दा + ति [प्रत्ययस्य श्लु-इत्यनेन लोपे कृते श्लौ 6|1|10 इत्यनेन अङ्गस्य द्वित्वं भवति ]
→ द दा + ति [ह्रस्वः 7|4|60 इति ह्रस्वः]
→ ददाति ।

अत्र शप्-विकरणस्य लोपः "श्लु" संज्ञया कृतः अस्ति । अतः लोपात् अनन्तरम् श्लौ 6|1|10 इत्यनेन अङ्गस्य द्वित्वं अपि क्रियते ।
One-line meaning in English
When a प्रत्यय is removed using the word श्लु, अङ्ग which is not yet duplicated is duplicated.
काशिकावृत्तिः
श्लौ परतः अनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितियस्य वा यथायोगं द्वे भवतः। जुहोति। बिभेति। जिह्नेति।
`श्लौ परतः` इति। ननु च प्रत्ययादर्शननं श्लुः, तच्चाभावरूपम्, न चाभावे पौर्वापर्यमस्ति, तदुयुक्तमुक्तम्? श्लौ परत इति? स्थानिनः परत्त्वात्त्स्यापि तद्द्वारेण पौर्वापर्यमौपचारिकं गृहीत्वैव युक्तमुक्तमित्यदोषः॥
श्लौ परत इति। वर्णानामपि युगपदवस्थानाभावाद् बुद्धिपरिकल्पितं पोर्वापर्यम्, तच्चाभावरूपेण श्लुनाप्युपपद्यत् इति भावः। अनब्यासस्येति। अधीकारमात्रैणैतदुक्तम्, न तु श्लौ साभ्यासो भवति। एवं द्वितीयस्य चेत्यत्र द्रष्टव्यम् ॥
सिद्धान्तकौमुदी
धातोर्द्वे स्तः । जुहोति । जुहुतः । अदभ्यस्तात् (कौमुदी-2479) इत्यत् । हुश्नुवोः - (कौमुदी-2387) इति यण् । जुह्वति ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
धातोर्द्वे स्तः। जुहोति। जुहुतः।
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.