Page loading... Please wait.
5|4|99 - नावो द्विगोः
॥ तस्मै पाणिनये नमः ॥
5|4|99
SK 801
नावो द्विगोः  
सूत्रच्छेदः
नावः (पञ्चम्येकवचनम्) , द्विगोः (पञ्चम्येकवचनम्)
अनुवृत्तिः
टच् तत्पुरुषस्य 6/1 [5|4|86]  5|4|91 (प्रथमैकवचनम्) , अतद्धितलुकि  5|4|92 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
तत्पुरुषस्य द्विगोः नावः अतद्धितलुकि टच्
सूत्रार्थः
यस्मिन् द्विगुसमासे "नौ" शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । परन्तु द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य यदि लुक् भवति तर्हि अयम् टच् प्रत्यय न भवति ।
यस्मिन् द्विगुसमासे "नौ" शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । परन्तु यदि प्रक्रियायाम् द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य लुक् भवति, तत्र टच् प्रत्ययः न विधीयते ।

कानिचन उदाहरणानि एतानि -

1. पञ्चानां नावाम् समाहारः [तद्धितार्थोत्तरपदसमाहारे च 2|1|51 इति द्विगुसमासः]
→ पञ्चन् + नौ + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]
→ पञ्चन् + नाव् + अ [एचोऽयवायावः 6|1|78 इति आवादेशः]
→ पञ्च + नाव् + अ [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः]
→ पञ्चनाव
पञ्चानां नावां समाहारः पञ्चनावम् । एवमेव - द्विनावम्, त्रिनावम्, सप्तनावम्, दशनावम् एतादृशाः शब्दाः अपि सिद्ध्यन्ति ।
अत्रापि प्रक्रियायाम् टच्-प्रत्ययात् पूर्वम् कोऽपि अन्यः तद्धितप्रत्ययः नैव विधीयते, अतः तद्धितलुक् अपि अत्र न सम्भवति । अतः अत्र टच्-प्रत्ययः भवत्येव ।

3. पञ्चभ्यः नौभ्यः आगतम्
पञ्चन् + नौ + रूप्य [ततः आगतः अस्मिन्नर्थे हेतुमनुष्येभ्यः रूप्यः 4|3|81 इत्यनेन रूप्य-प्रत्ययः । तद्धितार्थोत्तरपदसमाहारे च 2|1|51 इति तद्धितप्रत्ययस्य विषये द्विगुसमासः]
→ पञ्चन् + नौ + टच् + रूप्य [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् प्रत्ययः तद्धितप्रत्ययात् पूर्वम् विधीयते यतः समासः तु "पञ्चन् + नौ" इत्यस्यैव भवति । रूप्य-प्रत्ययः केवलम् समासनिमित्तकः अस्ति, समासस्य अवयवः न ।]
→ पञ्चन् + नाव् + अ + रूप्य [एचोऽयवायावः 6|1|78 इति अवादेशः]
→ पञ्च + नाव + रूप्य [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः]
→ पञ्चनावरूप्य
पञ्चभ्यः नौभ्यः आगतम् पञ्चनावरूप्यम् । अत्र प्रक्रियायाम् "रूप्य" इति तद्धितप्रत्ययः विधीयते, परन्तु तस्य लोपः नैव क्रियते (द्विगोर्लुगनपत्ये 4|1|88 इत्यस्य प्रसक्तिः अत्र न विद्यते यतः अत्र "रूप्य" इति अजादिप्रत्ययः नास्ति) । अतः अत्र "टच्" इति समासान्तप्रत्ययः अवश्यं कर्तव्यः ।

4. षट् नावः प्रियाः अस्य [अनेकमन्यपदार्थे 2|2|24 इति बहुव्रीहिसमासः । अस्मिन् समासे प्रारम्भे तद्धितार्थोत्तरपदसमाहारे च 2|1|51 इति द्विगुसमासः]
= षष् + नौ + टच् + प्रिय [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् समासान्तप्रत्ययः द्विगुसमासस्य अन्ते विधीयते अतः "प्रिय" शब्दात् पूर्वमेव अस्य स्थापनं क्रियते ।]
→ षष् + नाव् + अ + प्रिय [एचोऽयवायावः 6|1|78 इति अवादेशः]
→ षड् + नाव् + अ + प्रिय [पदान्तषकारस्य झलां जशोऽन्ते 8|2|29 इति जश्त्वे डकारः]
→ षड्नावप्रिय ।
षट् नावः प्रियाः अस्य सः षड्नावप्रियः ।

5. पञ्चभिः नौभिः क्रीतः
= पञ्चन् + नौ + ठक् [आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक् 5|1|19 इति ठक्-प्रत्ययः । तद्धितार्थोत्तरपदसमाहारे च 2|1|51 इति तद्धितप्रत्ययस्य विषये द्विगुसमासः]
→ पञ्चन् + नौ [अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5|1|28 इति द्विगुसमासस्य विषये विहितस्य आर्हीय-प्रत्ययस्य लुक्]
→ पञ्च + नौ [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः]
→ पञ्चनौ
पञ्चभिः नौभिः क्रीतः सः पञ्चनौः अत्र वस्तुतः तत्पुरुषसमासः एव भवति, परन्तु प्रक्रियायाम् "ठक्" इति समासनिमित्तकस्य तद्धितप्रत्ययस्य लुक् क्रियते । अतः अत्र वर्तमानसूत्रेण समासान्तप्रत्ययः न भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
नौशब्दान्तात् द्विगोः टच् प्रत्ययो भवति समासान्तः। द्वे नावौ समाहृते द्विनावम्। त्रिनावम्। द्विनावधनः। पञ्चनावप्रियः। द्वाभ्यां नौभ्यामागतं द्विनावरूप्यम्। द्विनावमयम्। द्विगोः इति किम्? राजनौः। अतद्धितलुकि इत्येव, पञ्चभिर् नौभिः क्रीतः पञ्चनौः। दशनौः।
`द्विनावम्? त्रिनावम्` इति। `तद्धितार्थोत्तरपद` 2|1|50 इत्यादिना द्विगुः। `द्विनावधनः` इति। द्वे नावौ धनं यस्येति बहुव्रीहौ कृते पूर्वयोः पदयोस्तेनैव सूत्रेणोत्तरपदे द्विगुः। पञ्चनावप्रियम्? इति। पूर्वेण तुल्यमेतत्? द्विनावरूप्यम्, द्विनावमयम्` इति। तेनैव सूत्रेम तद्धितार्थे द्विगुः। पूर्ववद्रूप्यमयटौ। `राजनौः` इति। षष्ठीसमासः। `पञ्चनौः` इति आर्हीयस्य 5|1|19 ठकः `अध्यर्धपूर्वं` 5|1|28 इत्यादिना लुक्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
नौशब्दान्ताद्द्विगोष्टच् स्यान्न तु तद्धितलुकि । द्वाभ्यां नौभ्यामागतः द्विनावरूप्यः । द्विगोर्लुगनपत्ये (कौमुदी-1080) इत्यत्र अचीत्यस्यापकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । अतद्धितलुकीति किम् । पञ्चभिर्नौभिः क्रीतः पञ्चनौः ॥
नावो द्विगोः - नावो द्विगोः । न तु तद्धितलुकीति ।गोरतद्धितलुकी॑त्यतो मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । द्विनावरूप्य इति । तद्धितार्थे समासः, टच्, आवादेशः ।हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः॑ । तस्य "द्विगोर्लुगनपत्ये" इति लुकमाशङ्क्याह — द्विगोर्लुगनपत्ये इत्यत्रेति । अपकर्षणादिति ।गोत्रेऽलुगची॑त्यत्तरसूत्रादित्यर्थः । पञ्चनावप्रिय इति । पञ्च नावः प्रिया यस्येति विग्रहे उत्तरपदे द्विगुः, टचि, आवादेशः । द्विनावमिति । द्वयोर्नावोः समाहार इति विग्रहे द्विगुः । टच् । आवादेशः । "सनपुंसकम्" इति नपुंसकत्वम् । त्रिनावमिति । तिसृणां नावां समाहार इति विगरहः । द्विनाववत् । पञ्चनौरिति । तद्धितार्थे समासः । आर्हीयष्ठक्,अध्यर्धे॑ति लुक् ।
नावो द्विगोः - द्विनावरूप इति ।हेतुमनुष्येभ्यः — ॑इति रूप्यः । पञ्चनौरिति । आर्हीयष्ठत् ।अध्यर्धपूर्वे॑ति लुक् । खार्याः । द्विगोरिति । खारीशब्दान्ताद्द्विगोरित्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.