Page loading... Please wait.
5|4|97 - उपमानादप्राणिषु
॥ तस्मै पाणिनये नमः ॥
5|4|97
SK 799
उपमानादप्राणिषु   🔊
सूत्रच्छेदः
उपमानात् (पञ्चम्येकवचनम्) , अप्राणिषु (सप्तमीबहुवचनम्)
अनुवृत्तिः
टच् तत्पुरुषस्य 6/1 [5|4|86]  5|4|91 (प्रथमैकवचनम्) , शुनः  5|4|96 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
तत्पुरुषस्य शुनः उपमानात् अप्राणिषु टच्
सूत्रार्थः
उपमानवाची प्रयुक्तः श्वन् शब्दः यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण प्रयुज्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । परन्तु समस्तपदेन प्राणिनः निर्देशः क्रियते चेत् अयम् प्रत्ययः न विधीयते ।
यस्मिन् तत्पुरुषसमासे "श्वन्" इति शब्दः "उपमानम्" अस्मिन् अर्थे प्रयुज्यते, तथा च यत्र समस्तपदेन प्राणिनः निर्देशः न भवति, तत्र "टच्" इति समासान्तप्रत्ययः क्रियते ।
यथा -
आकर्षः श्वा इव [A wooden object is just like a dog - शुनः प्रतिकृतिः इत्याशयः । अत्र उपमितं व्याघ्रादिभिः सामान्याप्रयोगे 2|1|56 इत्यनेन तत्पुरुषसमासः भवति ।]
→ आकर्ष + श्वन् + टच [वर्तमानसूत्रेण समासान्तः टच्-प्रत्ययः]
→ आकर्ष + श्व् + अ [नस्तद्धिते 6|4|144 इति टिलोपः]
→ आकर्षश्व
आकर्षः श्वा इव सः आकर्षश्व । A wooden instrument that resembles a dog is called आकर्षश्व.

एवमेव, फलकं श्वा इव = फलकश्वः इत्यपि सिद्ध्यति ।

अस्मिन् सूत्रे "अप्राणिषु" इति निर्दिश्यते, अतः "वानरः श्वा इव" (A monkey that looks just like a dog) इत्यत्र टच्-प्रत्ययः न भवति । वानरः श्वा इव सः वानरश्वा ।अत्र "वानर + श्वन् → वानरश्वन्" इति समासः जायते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उपमानवाची यः श्वन्शब्दो ऽप्राणिषु वर्तते तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। आकर्षः श्वेव आकर्षश्वः। फलकश्वः। उपमितं व्याघ्रादिभिः इति समासः। उपमानातिति किम्? न श्वा अश्वा लोष्टः। अप्राणिषु इति किम्? वानरः श्वेव वानरश्वा।
`आकर्शआः` इति। अत्र आआ उपमानम्। `अआआ लोष्टः` इति। अत्राआशब्दोऽप्राणिनि लोष्टे वत्र्तते, न तूपमानम्। `वानरआआ` इति। उपमितं व्याघ्रादिभिः` इति समासः। अत्र प्राणिनि वानरओति शब्दो वत्र्तते॥
अश्वा लोष्ट इति। अत्र ठ् नञस्तत्पुरुषात्ऽ इति प्रतिषेधेन भाव्यम्, तस्मान्निः श्वा लोष्ट इति प्रत्युदाहर्तव्यम् ॥
सिद्धान्तकौमुदी
अप्राणिविषयकोपमानवाचिनः शुनष्टच्स्यात् । आकर्षः श्वेव आकर्षश्वः । अप्राणिषु किम् । वानरः श्वेव वानरश्वा ॥
उपमानादप्राणिषु - उपमानादप्राणिषु । आकर्षः ओवेति । आकृष्यते कुसूलदिगतधान्यमनेनेत्याकर्षः — पञ्चाङ्गुलो दारुविशेषः ।उपमितं व्याघ्रादिभिः॑ इति समासः । टच् टिलोपः, आकर्षआ इति रूपम् । उपमानात्किम् । शुनो निष्क्रान्तो निःआआ ।
उपमानादप्राणिषु - आकर्षः ओवेति ।उपमितं व्याघ्रादी॑ति समासः । आकृष्यतेऽनेन खलादिगतं धान्यमित्याकर्षः काष्ठविशेषः । उपमानात्किम् । निष्क्रान्तः शुनो निःआआ ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.