Page loading... Please wait.
5|4|90 - उत्तमैकाभ्यां च
॥ तस्मै पाणिनये नमः ॥
5|4|90
SK 794
उत्तमैकाभ्यां च   🔊
सूत्रच्छेदः
उत्तमैकाभ्याम् (पञ्चमीद्विवचनम्) , च (अव्ययम्)
अनुवृत्तिः
अह्नः  5|4|88 (प्रथमैकवचनम्) , अह्नः 6/1  5|4|88 (सप्तम्येकवचनम्) , न  5|4|89 (अव्ययम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
उत्तम-एकाभ्याम् अह्नः अह्नः न
सूत्रार्थः
"पुण्य" शब्दस्य विषये तथा च "एक" शब्दस्य विषये अहन् शब्दस्य अह्न-आदेशः न भवति ।
अह्नोऽह्न एतेभ्यः 5|4|88 इत्यनेन सूत्रेण तत्पुरुषसमासे उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य "अह्न" इति आदेशः उक्तः अस्ति । अयम् आदेशः "पुण्य" शब्दस्य विषये तथा "एक" शब्दस्य विषये न भवति ।

अस्मिन् सूत्रे "उत्तम" तथा "एक" एतौ शब्दौ प्रयुक्तौ स्तः । द्वयोः प्रयोजनम् क्रमेण पश्यामः -

[1] "उत्तम"शब्दस्य प्रयोजनम् -
अह्नोऽह्न एतेभ्यः 5|4|88 अस्मिन् सूत्रे प्रयुक्तः "एतेभ्यः" इति शब्दः अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः 5|4|87 इत्यस्मात् "अहस्सर्वैकदेशसंख्यातपुण्याच्च" इत्यस्य अनुवृत्तिं कारयितुम् स्थापितः अस्ति । परन्तु अस्यां अनुवृत्तौ "उत्तम"शब्दस्य (= अन्तिमस्थाने विद्यमानस्य शब्दस्य) शब्दस्य अनुवृत्तिः न स्वीकरणीया - इति वर्तमानसूत्रेण स्पष्टीकर्तुम् वर्तमानसूत्रे "उत्तम" इति शब्दः गृह्यते । The word उत्तम is used here in the meaning of "last" । The last word of अहस्सर्वैकदेशसंख्यातपुण्याच्च, viz "पुण्य" does not cause अहन् to be converted to अह्न - इति अत्र आशयः ।

यथा - पुण्यम् अहः [विशेषणं विशेष्येण बहुलम् 2|1|57 इति कर्मधारयसमासः]
= पुण्य + अहन् + टच् [राजाहस्सखिभ्यष्टच् 5|4|91 इति टच्]
→ पुण्याहन् + अ [ अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः]
→ पुण्याह् + अ [नस्तद्धिते 6|4|144 इति टिलोपः]
→ पुण्याह
पुण्यम् अहः पुण्याहम् । अत्र रात्राह्नाहाः पुंसि 2|4|29 इत्यनेन पुँस्त्वे प्राप्ते पुण्यसुदिनाभ्यामह्नः क्लीबता इष्टा इत्यनेन नपुँसकलिङ्गं विधीयते ।

विशेषः -
अ) अस्मिन् सूत्रे "उत्तम" इत्यस्य स्थाने "पुण्य" इत्यस्यैव ग्रहणम् वस्तुतः समीचीनम् अस्ति, तेन सूत्रार्थज्ञाने सम्भ्रमः अपि न जायते । पाणिनिना "पुण्य" इत्यस्य स्थाने "उत्तम" इति कृतः प्रयोगः विचित्रः अस्ति इति व्याख्यानैः स्पष्टीक्रियते । अतः कौमुदीकारः वदति - "पुण्यैकाभ्यामित्येव सूत्रयितुमुचितम्" ।
आ) केचन पण्डिताः अस्मिन् सूत्रे निर्दिष्टस्य "उत्तम" शब्दस्य अन्यत् एकम् प्रयोजनम् अस्ति इति मन्यन्ते । तेषां मतेन अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः 5|4|87 इत्यस्मात् सूत्रात् "सङ्ख्यात" शब्दस्य अह्नोऽह्न एतेभ्यः 5|4|88 इत्यत्र अनुवृत्तिः न करणीया - इति ज्ञापनार्थम् "उत्तम"शब्दः अत्र प्रयुक्तः अस्ति । According to some experts, the word "उत्तम" in this sutra is used to block the अनुवृत्ति of संख्यात as well as पुण्य in the sutra अह्नोऽह्न एतेभ्यः 5|4|88 । अतः एतेषां मतेन "सङ्ख्यातम् अहः" इत्यत्र अहन्-शब्दस्य अह्न-आदेशः न भवति, अतः "सङ्ख्याताहः" इत्येव समस्तपदं सिद्ध्यति ।

[2] "एक"शब्दस्य प्रयोजनम् -
यस्मिन् समस्तपदे "एक" इति शब्दः पूर्वपदरूपेण तथा च "अहन्" शब्दः उत्तरपदरूपेण विद्यते, तस्मात् राजाहस्सखिभ्यष्टच् 5|4|91 इत्यनेन टच्-प्रत्यये कृते अहन्-शब्दस्य अह्नोऽह्न एतेभ्यः 5|4|88 इत्यनेन प्राप्तः अह्न-आदेशः वर्तमानसूत्रेण निषिध्यते ।

यथा - एकम् अहः [पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे 2|2|1 इत्यनेन एकदेशिसमासः]
= एक + अहन् + टच् [राजाहस्सखिभ्यष्टच् 5|4|91 इति टच्]
→ एकाहन् + अ [ अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः]
→ एकाह् + अ [नस्तद्धिते 6|4|144 इति टिलोपः]
→ एकाह
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उत्तमैकाभ्यां च परस्य अह्नः इत्ययम् आदेशो न भवति। उत्तमशब्दो ऽन्यवचनः पुण्यशब्दम् आचष्टे। पुण्यग्रहणम् एव न कृतम् वैचित्र्यार्थम् पुण्याहः। एकाहः। केचित् तु उपोत्तमस्य अपि प्रतिपत्त्यर्थं वर्णयन्ति। तेन सङ्ख्यातशब्दादपि परस्य न भवति, सङ्ख्याताहः इति।
`पुण्याहम्` [`पुण्याहः`--काशिका] इति। विशेषणम्? 2|1|56 इत्यादिना समासः। `एकाहः` इति। अत्रापि `पूर्वकालैक` 2|1|48 इत्यादिना। कथं पुनः `उत्तमैकाभ्याम्` पुण्यशब्दात्? प्रतिषेधो लभ्यते? इत्यत आह--`उत्तमशब्दोऽन्त्यवचनः` इत्यादि। `अहःसर्वेकदेश` 5|4|87 इत्यादौ सूत्रे पुण्यशखब्दस्यान्ते नदिष्टत्वात्। `अग्त्यः` इति। उत्तमशब्देऽपि प्रतिषेधार्थ इहान्त्यवचन उपात्तः। तस्मात्? पुण्यशब्दमाचष्टे। अथ पुण्यग्रहणमेव कस्मान्न कृतम्, लरघु ह्रेवं सूत्रं भवति? इत्याह--`पुण्यग्रहणमेव` इत्यादि। वैचित्र्यं हि सूत्रकृतेरिष्यते, तच्चोत्तमग्रहणे सति सम्पद्यते। यस्माद्वैचित्र्यार्थमुत्तमग्रहणं कृतम् न पुण्यग्रहणम्। `केचि` इत्यादि। पुण्यग्रहणे कत्र्तव्ये यदुत्तमग्रहणं कृतं तत्प्रयोजनम्--उत्तमशब्दस्यापि संखक्यातस्य प्रतिषेधप्रतिपत्तिर्यथा स्यादित्येवं केचिद्वर्णयन्ति। भवति तत्सामीप्यात्? ताच्छब्द्यम्--गङ्गायां घोष इत्यादि। तस्माच्छक्त उत्तमशब्दः सामीप्यादुपोत्तमशब्दमभिधातुमिति तेषामभिप्रायः। `तेन` इत्यादिना प्रतिषेधस्योपोत्तमशब्दप्रतिपत्तेः पलं दर्शयति॥
केचितत्वित्यादि। यथा ठ्प्रथमयोःऽ इति प्रथमाद्वितीययोर्ग्रहणं द्विवचननिर्द्देशात्, तथैवात्राप्युतमग्रहणसामर्थ्यादुपोतमोतमयोर्द्वयोरपि ग्रहणमिति तेपामभिप्रायः। अत्र पक्षे उतमौ द्वावेकश्चापर इति बहुवचनप्रसङ्गात् सौत्रो द्विवचननिर्देशः। एकशब्दस्यापूर्वनिपातः ठल्पाच्तरम्ऽ इत्यस्यानित्यत्वज्ञापनार्थः ॥
सिद्धान्तकौमुदी
आभ्यामह्नादेशो न । उत्तमशब्दोऽन्त्यार्थः । पुण्यशब्दमाह । पुण्यैकाभ्यामित्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तवाची । एकाहः । उत्तमग्रहणमुपान्त्यस्यापि संग्रहार्थमित्येके । संख्याताहः ॥
उत्तमैकाभ्यां च - उत्तमैकाभ्यां च । ननु उत्तमशब्दात्परस्याऽहन्शब्दस्याऽह्नादेशाऽप्रसक्तेरुत्तमग्रहणं व्यर्थमित्यत आह — उत्तमशब्द इति । उत्तमशब्दोऽन्त्ये वर्तते । यथा द्वादशाहेउदयनीयातिरात्र उत्तममहः॑ इति अन्त्यमिति गम्यते ।अहःसर्वैकदेशसङ्ख्यातपुण्या॑दित्युपात्तेषु अन्त्यः पुण्यशब्दो विवक्षित इत्यर्थः । तर्हिपुण्यैकाभ्या॑मित्येव कुतो न सूत्रितमित्याशङ्क्य स्वतन्त्रेच्छत्वान्नमहर्षेरित्याह — पुण्यैकाभ्यामित्येवेति । पुण्याहमिति । पुण्यमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः ।पुण्यसुदिनाभ्यां चे॑ति नपुंसकत्वम् । एकाह इति । एकमहरिति विग्रहेपूर्वकालैके॑ति समासः । टच् टिलोपः । उपान्त्यस्यापीति ।लक्षणये॑ति शेषः । परुण्येत्यनुक्त्वा उत्तमग्रहणमेव लक्षणाबीजम् । उत्तमे च एकं चेति द्वन्द्वः, सौत्रं द्विवचनमिति भावः । सङ्ख्याताह इति । सङ्ख्यातमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः । "रात्राह्नाहा" इति पुंस्त्वम् । उपान्त्यसङ्खातशब्दपूर्वकत्वान्नाऽह्नादेशः ।
उत्तमैकाभ्यां च - पुण्याहमिति ।पुण्यसुदिनाभ्या॑मिति क्लीबत्वं वक्ष्यति । उपान्त्यस्यापीति । यथाप्रथमयो॑रिति प्रथमाद्वितीययोग्र्रहणं द्विवचननिर्देशात्, तथेहापि उत्तमग्रहणसामथ्र्यादन्त्ययोद्र्वयोग्र्रहणम् । उत्तमौ चैकश्चेति विग्रहे सौत्रं द्विवचनमिति तेषामाशयः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.