Page loading... Please wait.
5|4|89 - न संख्यादेः समाहारे
॥ तस्मै पाणिनये नमः ॥
5|4|89
SK 793
न संख्यादेः समाहारे  
सूत्रच्छेदः
(अव्ययम्) , सङ्‍ख्यादेः (षष्ठ्येकवचनम्) , समाहारे (सप्तम्येकवचनम्)
अनुवृत्तिः
तत्पुरुषस्य  5|4|86 (षष्ठ्येकवचनम्) , अह्नः  5|4|88 (प्रथमैकवचनम्) , अह्नः  5|4|88 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
अह्नः अह्नः सङ्ख्यादौ तत्पुरुषस्य समाहारे न
सूत्रार्थः
समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य "अह्न" इति आदेशः न भवति ।
अह्नोऽह्न एतेभ्यः 5|4|88 इत्यनेन सूत्रेण तत्पुरुषसमासे उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य "अह्न" इति आदेशः उक्तः अस्ति । अयम् आदेशः यद्यपि सङ्ख्यावाचकस्य पूर्वपदस्य उपस्थितौ भवितुम् अर्हति, तथापि समाहारस्य विषये अयम् आदेशः वर्तमानसूत्रेण निषिध्यते ।

यथा -
द्वयोः अह्नोः समाहारः [तद्धितार्थोत्तरपदसमाहारे च 2|1|51 इति द्विगुसमासः]
→ द्वि + अहन् + टच् [राजाहस्सखिभ्यष्टच् 5|4|91 इति समासान्तः टच्-प्रत्ययः]
→ द्व्यहन् + अ [इको यणचि 6|1|77 इति यणादेशः]
→ द्व्यह् + अ [अह्नष्टखोरेव 6|4|145 इति टिलोपः]
→ द्व्यह [रात्राह्नाहाः पुंसि 2|4|39 इति पुंस्त्वम् ]

अहन्-शब्दस्य अह्नोऽह्न एतेभ्यः 5|4|88 इत्यनेन प्राप्तः अह्नादेशः नैव भवति इति प्रक्रियाविशेषः अत् स्मर्तव्यः ।

एवमेव - त्रयाणाम् अह्नाम् समाहारः त्र्यहः ।

स्मर्तव्यम् - "द्वाभ्यां अहभ्याम् आगतः" एतादृशेषु वाक्येषु द्विगुसमासान्तप्रातिपदिकात् विहितस्य अजादितद्धितप्रत्ययस्य द्विगोर्लुगनपत्ये [4।1।88]] इत्यनेन लुक् भवति । यथा -
द्वाभ्यां अहभ्याम् आगतः
= द्वि + अहन् + अण् [ततः आगतः __ 4।3।74__ अस्मिन् अर्थे औत्सर्गिकः अण्-प्रत्ययः । तद्धितार्थोत्तरपदसमाहारे च 2|1|51 इति द्विगुः]
→ द्वि + अहन् + टच् + अण् [राजाहस्सखिभ्यष्टच् 5|4|91 इति समासान्तः टच्-प्रत्ययः]
→ द्वि + अहन् + टच् [द्विगोर्लुगनपत्ये [4।1।88]] इति तद्धितप्रत्ययस्य लुक्]
→ द्व्यहन् + अ [इको यणचि 6|1|77 इति यणादेशः]
→ द्व्यह् + अ [अह्नष्टखोरेव 6|4|145 इति टिलोपः]
→ द्व्यह [रात्राह्नाहाः पुंसि 2|4|39 इति पुंस्त्वम् ]
द्वाभ्यां अहभ्याम् आगतः द्व्यहः । एवमेव - द्वयोः अह्नोः भवः द्व्यहः ।
,
विशेषः - अस्मिन् सूत्रे "सङ्ख्यादेः" इति पदम् वस्तुतः न आवश्यकम्, यतः तत्पुरुषसमासस्य विषये "समाहार"समासः सङ्ख्यादिः एव भवितुम् अर्हति । अतः केवलं "न समाहारे" इत्येव उच्यते चेदपि पर्याप्तम् । अतएव कौमुद्यामुच्यते - "संख्यादेरिति स्पष्टार्थम्" ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सङ्ख्यादेस् तत्पुरुषस्य समाहारे वर्तमानस्य अहःशब्दस्य अह्नादेशो न भवति। पूर्वेण प्राप्तः प्रतिषिद्यते। द्वे अहनी समाहृते द्व्यहः। त्र्यहः। समाहारे इति किम्? द्वयोरह्नोः भवः द्व्यह्नः। त्र्यह्नः। तद्धितार्थ इति समासे कृते अणः आगतस्य द्विगोर् लुगनपत्ये 4|1|88 इति लुक्।
`द्व्यहः` इति। `अह्नष्टखोरेव` 6|4|145 इति टिलोपः॥
ठ्सङ्खयादेःऽ इति न वक्तव्यम्; अन्यस्य समाहारे वृत्यसम्भवात् ॥
सिद्धान्तकौमुदी
समाहारे वर्तमानस्य संख्यादेरह्नादेशो न स्यात् । संख्यादेरिति स्पष्टार्थम् । द्व्योरह्नोः समाहारो द्व्यहः । त्र्यहः ॥
न संख्याऽ‌ऽदेः समाहारे - न सङ्ख्यादेः । अह्नादेश इति । "अह्नोऽह्नः" इत्यतस्तदनुवृत्तेरिति भावः । ननु सङ्ख्यादिभिन्नस्य तत्पुरुषस्य समाहारेऽभावादेव सिद्धे सङ्ख्यादेरिति व्यर्थमित्यत आह — स्पष्टार्थमिति । द्व्यह इति । समाहारे द्विगुः । टच्,रात्राह्ने॑ति पुंस्त्वम् । सङ्ख्यादित्वात्प्राप्तस्याऽह्नादेशस्य निषेधः । त्र्यह इति । त्रयाणामह्नां समाहार इति विग्रहः । समासादि द्व्यहवत् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.