Page loading... Please wait.
5|4|82 - प्रतेरुरसः सप्तमीस्थात्‌
॥ तस्मै पाणिनये नमः ॥
5|4|82
SK 950
प्रतेरुरसः सप्तमीस्थात्‌   🔊
सूत्रच्छेदः
प्रतेः (पञ्चम्येकवचनम्) , उरसः (पञ्चम्येकवचनम्) , सप्तमीस्थात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
अच्  5|4|75 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
प्रतेः सप्तमीस्थात् उरसः अच्
सूत्रार्थः
"प्रति" इत्यनेन सह "उरसि" इति सप्तम्यन्तस्य पदस्य समासे जाते तस्मात् "अच्" इति समासान्तप्रत्ययः भवति ।
यस्मिन् समासे "प्रति" इति शब्दः पूर्वपदरूपेण, तथा च सप्तम्यर्थे प्रयुक्तः "उरस्" इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासात् "अच्" इति समासान्तप्रत्ययः भवति । यथा -

उरसि वर्तते इति [अव्ययं विभक्तिसमीप... 2|1|6 इति अव्ययीभावसमासः]
→ प्रति + उरस् + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]
→ प्रत्युरस [इको यणचि 6|1|77 इति यणादेशः]

उरसि वर्तते तत् प्रत्युरसम् ।

यत्र "उरस्" शब्दः सप्तम्यर्थे न प्रयुज्यते, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - प्रतिगतम् उरः प्रत्युरः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रतेः परो य उरस्शब्दः तदन्तात् समासातच् प्रत्ययो भवति, स चेदुरस्शब्दः सप्तमीस्थो भवति। सप्तम्यर्थे वर्तते इत्यर्थः। उरसि वर्तते। विभक्त्यर्थे अव्ययम् इति समासः। प्रत्युरसम्। सप्तमीस्थातिति किम्? प्रतिगतम् उरः प्रत्युरः।
`सप्तमीस्थात्` इति। सप्तम्यां तिष्ठतीति सप्तमीस्थः, `सुपि स्थः` 3|2|4 इति कप्रत्ययः। यश्च सप्तम्यर्थे वत्र्तते, एवं सप्तमीस्थो भवतीत्याह--`सप्तम्यर्थे वत्र्तते` इति। `प्रतिगतमुरः प्रत्युरः` इति। `अत्यादयः क्रान्ताद्यर्थे द्वितीयया` (वा। 91) इति समासः॥
सप्तम्यर्थे वर्तत इति। न ह्यन्यदुरःशब्दस्य सप्तमीस्थत्वं नामेति भावः ॥
सिद्धान्तकौमुदी
उरसि इति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.