Page loading... Please wait.
5|4|77 - अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः
॥ तस्मै पाणिनये नमः ॥
5|4|77
SK 945
अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः   🔊
सूत्रच्छेदः
अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः (प्रथमाबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अच्प्रत्ययान्ता एते शब्दा निपात्यन्ते। समासे व्यवस्था अपि निपातनादेव प्रतिपत्तव्या। आद्यास्त्रयो बहुव्रीहयः। अदृश्यानि अविद्यमानानि वा चत्वारि यस्य सो ऽचतुरः। विगतानि चत्वारि यस्य स विचतुरः। शोभनानि चत्वारि यस्य स सुचतुरः। अतः परे एकादश द्वन्द्वाः। स्त्री च पुमांश्च स्त्रीपुंसौ। इह न भवति, स्त्रियाः पुमानिति। धेनुश्च अनड्वांश्च धेन्वनडुहौ। ऋक् च साम च ऋक्षामे। वाक् च मनश्च वाङ्मनसे। अक्षि च भ्रुवौ च अक्षिभ्रुवम्। दाराश्च गावश्च दारगवम्। ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम्। टिलोपो निपात्यते। पादौ च अष्ठीवन्तौ च पदष्ठीवम्। पादस्य पद्भावो निपात्यते। नक्तं च दिवा च नक्तंदिवम्। दप्तम्यर्थवृत्तयोरव्यययोः समासो ऽपि निपातनादेव। रात्रौ च दिवा च रात्रिंदिवम्। पूर्वपदस्य मान्तत्वं निपात्यते। अहनि च दिवा च अहर्दिवम्। ननु च पर्यायावेतौ, कथम् अनयोर् द्वन्द्वः? वीप्सायां द्वन्द्वो निपात्यते। अहन्यहनि इत्यर्थः। एको ऽव्यव्यीभावः साकल्ये सरजसमभ्यवहरति। बहुव्रीहौ न भवति, सह रजसा सरजः पङ्कजम् इति। ततः तत्पुरुषः निश्चितं श्रेयो निःश्रेयसम्। निःश्रेयस्कः पुरुषः इत्यत्र न भवति। ततः षष्ठीसमासः पुरुषस्य आयुः पुरुषायुषम्। द्वन्द्वे न भवति, पुरुषश्च आयुश्च पुरुषायुषी। ततो द्विगू द्वे आयुषी समाहृते द्व्यायुषम्। त्र्यायुषम्। इह न भवति, द्व्योरायुः द्व्यायुः त्र्यायुः इति। ततो द्वन्द्वः ऋक् च यजुश्च ऋग्यजुषम्। इह न भवति, ऋग्यजुरस्य उन्मुग्धस्य ऋग्यजुरुन्मुग्धः। जातादिपूर्वपदा उक्षशब्दान्तास्त्रयः कर्मधारयाः जातोक्षः। महोक्षः। वृद्धोक्षः। बहुव्रीहौ न भवति, जातोक्षा ब्राह्मणः। महोक्षा, वृद्धोक्षा इति। ततो ऽव्ययीभावः शुनः समीपम् उपशुनम्। टिलोपाभावः सम्प्रसारणं च निपातनादेव। ततः सप्तमीसमासः गोष्ठे श्वा गोष्ठश्वः। चतुरो ऽच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम्। त्रिचतुराः। उपचतुराः।
`समासे व्यवस्थाऽपि` इत्यादि। समासव्यवस्था=समासनियमः--क्वचिद्वहुव्रीहिरेव, क्वचिद्द्वन्द्व इत्येवमादिका निपातनादेव वेदितव्या; व्यवस्थाभेदस्यान्यस्याभावात्। अपिशब्दादन्यदपि टिलोपादि कार्यं निपातनादेव वेदितव्यम्। `सप्तम्यर्थवृत्तयोः` इत्यादिना हि सप्तम्यर्थवृत्तयोरव्यययोराधेयप्रधानयोः समासो विद्यते। तस्मान्निपातनादेव च भवतीति वेदितवयम्। अपिशब्दात्? समासोऽपि निपातनादेव। `अहर्दिवम्` इति। `रोऽसुपि` 8|2|69 इति नकारस्य रेफः। `ननु च` इत्यादि। अर्थगत्यर्थो हि शब्दप्रयोगः। पर्यायणाञ्चंकेनैवार्थस्योक्तत्वात्? द्वितीयस्य प्रयोगो न सम्भवति। अहर्दिवाशब्दौ पर्यायौ, तत्? कथमनयोद्र्वन्द्वः! न कथञ्चिदिति भावः। वीप्साद्योतनार्थमुक्तस्यापि प्रयोगो न विरुध्यत इति मन्यमान आह--`वीप्सायाम्` इत्यादि। चार्थ उत्पद्यमानो द्वन्द्वो वीप्सायां न प्राप्नोतीत्यतो निपात्यते। एको। एकोऽव्ययीभावः। `साकल्ये` इति। `अव्ययं विभक्ति` 2|1|6 इत्यादिना। `सरजसम्` इति। `अव्ययीभावे चकाले` 6|3|80 इति सहस्य सभावः।`निःश्रेयसम्` इति। प्रादिसमासः। `निश्रेयस्कः` इति। निश्चितं श्रेयोऽनेनेति बहुव्रीहिः, `शेषाद्विभाषा` 5|4|154 इति कप्। `ऋग्यजुरुन्मुग्धः` इति। य उन्मुग्धत्वादृचो यजूंषि मन्यते स ऋग्यजुरिति बहुव्रीहिणोच्यते। `ततोऽव्ययीभावः` इति। `अव्ययं विभक्ति` 2|1|6 इत्यादिना सामीप्ये। `टिलोपाभावः` इत्यादि। उपशुन इत्यत्र `नस्तद्धिते` 6|4|144 इति टिलोपाभावो निपातनादेव। आयुवमघोनामतद्धिते` 6|4|133 इति तद्धितादन्यत्र सम्प्रसारणमुच्यमानं तद्धिते न प्राप्नोतीति तदेव निपातनादेव भवतीति। `चतुरोच्प्रकरणे` इत्यादि। त्रिशब्दादुपशब्दात्? परो यश्चतुरशब्दस्तस्मादच उपसंख्यानं प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्? पूर्वमिव योगविभागमाश्रित्य कत्र्तव्यम्। त्रयो वा चत्वारो वा `त्रिचतुराः` इति। चतुर्णा समीपे `उपचतुराः`। `संख्याव्ययासन्न` 2|2|25 इत्यादिना बहुव्रीहिः। तत्र `बहुव्रीहौ संख्येये डजबहुगणात्` 5|4|73 इति डचि प्राप्तेऽज्विधीयते॥
समासव्यवस्थापीति। क्वचिद्बहुव्रीहेरेव, क्वचिद् द्वन्द्वादेवैत्येवंमादिको नियमःउव्यवस्था। अपिशब्दादन्यदपि टिलोपादिकं तन्निपातनादेव। स्त्रियाः पुमानिति। स्त्रियं प्रति पुमान् शूर इत्यर्थः। अक्षिभ्रुवमिति। प्राण्यङ्गत्वादेकवद्भावः। दारगवमिति। ठ्सर्वो द्वन्द्वे विभाषयैकवद्भवतिऽ। सप्तम्यर्थे वृतयोरव्यययोः समासोऽपि निपातनादेवेति। चार्थेन योगाबावात्, न हि भवति-इह च, एवं चेति। अहर्दिवमिति। ठ्रोऽसुपिऽ इति रेफः। कथमनयोर्द्वन्द्व इति। न कथञाचित्, विरुपाणामपि समानार्थानामेकशेषारम्भात्। वीप्सायामित्यादि। चार्थे विधीयमानो वीप्सायां न प्राप्नोति, एकशेषारम्भाच्च। तस्माद्वीप्सायां द्वन्द्वो निपात्यते, वीप्साद्योतनाच्चैकेन गतार्थत्वमपि नाशङ्कनीयम्, यथा द्विर्वचने--ग्रामोग्रामो रमणीय इति। सरजसमिति। ठव्ययीभावे चाकालेऽ इति सहस्य सभावः। निःश्रेयसमिति। प्रादिसमासः। निःश्रेयस्क इति। निश्चितं श्रेयोऽनेनेति बहुव्रीहिः, शेपलक्षणः कप्, ठ्सोऽपदादौऽ इति सत्वम्। ऋग्यजुरुन्मुग्घ इति। य ऋचो यजुंपि मन्यते। त्रयो वा चत्वारो वा त्रिचतुराः। चतुर्णां समीप उपचतुराः, ठ्बहुव्रीहौ सङ्ख्येतेऽ इति प्राप्तस्य कडचोऽपवादोऽदज्विधीयते ॥
सिद्धान्तकौमुदी
एते पञ्चविंशतिरजन्ता निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वार्यस्य अचतुरः । विचतुरः । सुचतुरः ॥ ।त्र्युपाभ्यां चतुरोऽजिष्यत (वार्तिकम्) ॥ त्रिचतुराः । चतुर्णां समीपे उपचतुराः । तत एकादा द्वन्द्वाः । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगावम् । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनाट्टिलोपः । पदष्ठीवम् । निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा वा नक्तन्दिवम् । रात्रौ च दिवा च रात्रिन्दिवम् । रात्रेर्मान्तत्वं निपात्यते । अहनि च दिवा च अहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह । निःश्रेयान् पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । द्व्यायुषम् । त्र्यायुषम् । ततो द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातोक्षः । महोक्षः । वृद्धोक्षः । शुनः समीपमुपशुनम् । टिलोपाभावः सम्प्रसारणं च निपात्यते । गोष्ठे श्वा गोष्ठश्वः ॥
अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्साम- वाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिव- रत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुष- त्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः - अचतुर । आद्यास्त्रयो बहुव्रीहय इति । बहुव्रीहय एवेत्यर्थः । भाष्यवाक्यमिदम् । अचतुर इति ।नञोऽस्त्यर्थाना॑मिति विद्मानपदलोपः । विचतुर इति । विगतानि चत्वारि यस्येति विग्रहः । सुचतुर इति । सु=शोभनानि चत्वारि यस्येति विग्रहः ।न पूजना॑दिति निषेधो बाध्यते । त्र्युपाभ्यामिति । वार्तिकमिदम् । त्रि उप आभ्यां परो यश्चतुर्शब्दस्तस्मादजिष्यते । त्रिचतुरा इति । त्रयो वा चत्वारो वेति विग्रहः ।सङ्ख्याव्ययासन्ने॑ति बहुव्रीहिः ।बहुव्रीहौ सह्ख्येये ड॑जिति डचं बाधित्वाऽच् । डचि तु टिलोपः स्यात् । उपचतुरा इति । त्रयः पञ्च वेत्यर्थः ।सङ्ख्ययाव्यये॑ति बहुव्रीहिः । अच् । तत एकादश द्वन्द्वा इति । द्वन्द्वा एवेत्यर्थः । इदमपि भाष्यवाक्यम् । स्त्रीपुंसाविति । स्त्री च पुमांश्चेति विग्रहः । अच् । धेन्वड्वाहाविति न भवति । समाहारद्वन्द्वे तुद्वन्द्वाच्चुदषहान्ता॑दित्येव सिद्धम् । ऋक्सामे इति । ऋक्च साम चेति विग्रहः । अच् । टिलोपः । ऋक्सामनी इति न भवति । वाङ्मनसे इति । वाक् च मनस्चेति विग्रहः । अच् । वाङ्मनसी इति न भवति । अक्षिभ्रुवमिति । अच् । प्राण्यङ्गत्वादेकवत्त्वम् । अक्षिभ्रु इति न भवति । दारगवमिति । समाहारद्वन्द्वादच् । "दारगु" इति न भवति । इतरेतरयोगद्वन्द्वे तु दारगावः । ऊर्वष्ठीवमिति । प्राण्यङ्गत्वादेकवत्त्वम् । ऊरू-सक्थिनी । अष्ठीवन्तौ=जानुनी ।सक्थि क्लीबे पुमानू रूः॑ इति,जानूरूपर्वाष्ठीवदस्त्रिया॑मिति चामरः । नन्वडित्त्वादनान्तत्वाच्च कथं टिलोप इत्यत आह — निपातनाट्टिलोप इति । पटष्ठीवमिति । पादौ चाऽष्ठीवन्तौ चेति द्वन्द्वादच् । प्राण्यङ्गत्वादेकवत्त्वम् । नन्वभत्वात्कथमिह पादशब्दस्य पद्भाव इत्यत आह — निपातनादिति । नक्तमिति मान्तमव्ययम् । दिवेत्याकारान्तमव्ययम् । नक्तंदिवेति द्वन्द्वादच् ।यस्येति चे॑त्याकारलोपः,अव्ययीभावश्चे॑त्यव्ययत्वम्, नपुंसकत्वं च ।नाव्ययीभावा॑दित्यम्भावः । मान्तत्वमिति । रात्रौ च दिवा चेति द्वन्द्वे कृते सुब्लुकि कृते रात्रेर्मान्तत्वं निपात्यत इत्यर्थः । यस्येति चे॑त्याकारलोपः, अम्भावश्च । नन्वहन्शब्दार्थस्य दिवाशब्दार्थस्य च एकत्वात्साहित्याऽभावात्कथमिह द्वन्द्वः । अहव्र्यक्तिभेदमादाय द्वन्द्वप्रसक्तावपिविरूपाणामपि समानार्थकाना॑मित्येकशेषो दुर्वार इत्यत आह-वीप्साया द्वन्द्वो निपात्यत इति ।नित्यवीप्सयो॑रिति वीप्सायां द्विर्वचने कृते एकशेषं बाधित्वा द्वन्द्वो निपात्यत इत्यर्थः । सरजसमिति । रजोऽप्यपरित्यज्य इत्यस्वपदविग्रहः । रजः=धूलिः । साकल्ये सहशब्दस्य रजश्शब्देनाऽव्ययीभावः । "अव्ययीभावे चाकाले" इति सह शब्दस्य सभावः । अच् । अव्ययीभाव इति । भाष्ये तथावचनादव्ययीभावस्य ग्रहणमिति भावः । सरजः पङ्कजमिति । रजोभिः परागैः सहेति विग्रहः ।तेन सहेति तुल्ययोगे॑ इति बहुव्रीहिः ।वोपसर्जनस्ये॑ति सहस्य सः । बहुव्रीहित्वान्नाऽच् । निऋश्रेयसमिति । कर्मधारयादच् । तत्पुरुष एवेति । तथा भाष्यादिति भावः ।निःश्रेयानिति । निश्चितं श्रेयो यस्येति बहुव्रीहित्वान्नाऽजिति भावः ।ईथसश्चे॑ति निषेधान्न कप् । पुरुषायुषमिति । षष्ठीसमासादजिति भाष्यम् । ततो द्विगू इति । भाष्यवाक्यमिदम् । द्व्यायुषं त्र्यायुषमिति । द्वयोरायुषोः समाहार इति, त्रयाणामायुषां समाहार इति च विग्रहः । "तद्धितार्थ" इति द्विगोरच् । ततो द्वन्द्व इति । भाष्यवाक्यमिदम् । ऋग्यजुषमिति । ऋचश्च यजूंषि च एषां समाहार इति समाहारद्वन्द्वः । ततस्त्रयः कर्मधारया इति । तथा भाष्यादिति भावः । जातोक्ष इति । जातश्चासावुक्षा चेति विग्रहः । अचि सत्युक्षन्शब्दे टिलोपः । महोक्ष इति । महांश्चासावुक्षा चेति विग्रहः । "आन्महतः" इत्यात्त्वम् । अचि टिलोपः । वृद्धोक्ष इति । वृद्धश्चासावुक्षा चेति विग्रहः । अचि टिलोपः । उपशुनमिति । अव्ययीभावादच्, तथा बाष्यात् । नन्वत्र "नस्तद्धिते" इति टिलोपः कुतो न स्यात्, "अतद्धिते" इति पर्युदासात्आयुवमघोनामतद्धिते॑ इति कथं वा संप्रसारणं स्यादित्यत आह — टिलोपाऽभाः संप्रसारणं च निपात्यत इति । गोष्ठआ इति ।सप्तमीसमासाद॑जिति भाष्यम् । अत एव भाष्यात्सप्तमीसमासः । टिलोपः । "अतद्धिते" इति निषेधान्न संप्रसारणम् । षष्ठीतत्पुरुषे तु — गोष्ठआआ ।
अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्साम- वाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिव- रत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुष- त्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः - अचतुर । निपात्यन्त इति । निपातनफलं तु समासविशेषनियमः, टिलोपादिकं च । तदाह — -आद्या इति । बहुब्राईहय इति । बहुव्रीहय एवेत्यर्थः । तेन तत्पुरुषो अचत्वारो विचत्वार इत्येव भवतीति भावः । एवमुत्तरत्राप्यवधारणमुह्रम् ।त्र्युपाभ्यां चतुरोऽजिष्यते । त्रिचतुरा इति । त्रयश्चत्वारो वेति विग्रहः ।सङ्ख्याव्ययासन्ने॑ति बहुव्रीहिः ।बहुव्रीहौ सङ्ख्येये॑इति डचोऽपवादोऽच् । अक्षिभ्रुवमिति । प्राण्यङ्गत्वादेकवत् । ऊरू चाष्ठीवन्तौ चेति ।सक्थि क्लीबे पुमानूरुः॑इत्यमरः ।जानूरुपूर्वाऽष्ठीवदस्त्रिया॑मिति च । ऊर्वष्ठीवं । पदष्ठीवमिति । प्राण्यङ्गत्वादेकवद्भावः । द्वन्द्वो निपात्यत इति ।विरूपाणामपू॑त्येकशेषं बाधित्वेति शेषः । सरजसमिति ।अव्ययीभावे चाऽकाले॑इति सहस्य सभावः । सरजः पङ्कजमिति.॒सरजसमकरन्दमिर्भरासु॑इति माघप्रयोगस्तु चिन्त्य इति भावः । निःश्रेयानिति ।निश्चितं श्रेयो येने॑ति विग्रहः ।निः श्रेयस्कः॑इति केषाञ्चित्प्त्र्युदाहरणमशुद्धम्,ईयसश्चे॑ति कपो निषेधात् । गोष्ठे ओति । एतेनसप्तमीतत्पुरुष एवे॑ति नियमो दर्शितः, तेन षष्ठीतत्पुरुषेगोष्ठआआ॑इत्येव ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुर्हक्सामवाङ्भनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिः श्रेयसपुरुषायुषद्व्यायुषत्र्यायुर्षग्युजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः (2354) (सूत्रघटकपदोपपादकभाष्यम्) आद्यास्त्रयो बहुव्रीहयः ‐ अद्रष्टा चतुर्णामचतुरः, विद्रष्टा चतुर्णां विचतुरः, सुद्रष्टा चतुर्णां सुचतुरः।। ततः परे एकादश द्वन्द्वाः ‐ स्त्रीपुंस, धेन्वनडुह, ऋक्साम, वाङ्मनस, अक्षिभ्रुव, दारगव, ऊर्वष्ठीव, पदष्ठीव, नक्तन्दिव, रात्रिन्दिव, अहर्दिव।। ततोऽव्ययीभावः ‐ सह रजसा सरजसम्।। ततस्तत्पुरुषः ‐ निश्चितं श्रेयो निःश्रेयसम्।। ततः षष्ठीसमासः ‐ पुरुषस्यायुः पुरुषायुषम्।। ततो द्विगू ‐ द्वे आयुषी द्व्यायुषम्, त्रीण्यायूंषि त्र्यायुषम्।। ततो द्वन्द्वः ‐ ऋक् च यजुश्च ऋग्यजुषम्।। जातादय उक्षान्ताः समानाधिकरणाः ‐ जात उक्षा जातोक्षः, महानुक्षा महोक्षः, वृद्ध उक्षा वृद्धोक्षः।। ततोऽव्ययीभावः ‐ शूनः समीपमुपशुनम्।। ततः सप्तमीसमासः ‐ गोष्टे श्वा गोष्ठश्वः।। (5934 उपसंख्यानवार्तिकम्।। 1 ।।) - चतुरोऽच्प्रकरणे त्र्युषाभ्यामुपसंख्यानम् - (भाष्यम्) चतुरोऽच्प्रकरणे त्र्युपाभ्यामुपसंख्यानं कर्तव्यम्। त्रिचतुराः, उपचतुराः।।