Page loading... Please wait.
5|4|65 - शूलात्‌ पाके
॥ तस्मै पाणिनये नमः ॥
5|4|65
SK 2136
शूलात्‌ पाके   🔊
सूत्रच्छेदः
शूलात् (पञ्चम्येकवचनम्) , पाके (सप्तम्येकवचनम्)
अनुवृत्तिः
डाच्  5|4|57 (प्रथमैकवचनम्) , कृञः  5|4|58 (पञ्चमीबहुवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
शूलात् पाके कृञः डाच्
सूत्रार्थः
कृ-धातोः योगे प्रयुक्तात् "शूल" शब्दात् पाकस्य निर्देशार्थम् डाच्-प्रत्ययः भवति ।
कृ-धातोः योगे प्रयुक्तात् "शूल" ( spear / an instrument with a pointed tip) अस्मात् शब्दात् पाकस्य निर्देशार्थम् "डाच्" प्रत्ययः भवति ।

यथा - शूलं करोति मांसम् (शूले मांसं पचति / cooks meat in a pointed vessel) इत्येव = शूला करोति । प्रक्रिया इयम् -

शूल + डाच्
→ शूल् + आ [टेः 6|4|143 इति टिलोपः]
→ शूला

विशेषः -
1. डाच्-प्रत्ययान्तशब्दानाम् ऊर्यादिच्विडाचश्च 1|4|61 इत्यनेन "निपात" तथा "गति" द्वेऽपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -
अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् 1|1|37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः "अव्यय"संज्ञकाः अपि सन्ति ।
आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा "गतिसंज्ञा"कारणात् कुगतिप्रादयः 2|2|18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - "शूलाकृतः", "शूलाकृत्य" - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषाम् उच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र "शूला करोति" एतादृशम् शब्दद्वयमेव लेखनीयम् ।
इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः 1|4|80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः "शूला करोति" इत्येव वक्तव्यम्, न हि "करोति शूला" इति ।

2. इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4|1|82 अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितम् अस्ति, अतः अनेन सूत्रेण उक्तः "डाच्" प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - "शूलं करोति मांसम्" इति । अत्र "शूलं करोति" इति शब्दः "शूले पचति" इत्यस्मिन् अर्थे ग्रहीतव्यः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कृञः इत्येव। शूलशब्दात् पाकविषये डाच् प्रत्ययो भव्ति कृञो योगे। शूले पचति शूलाकरोति मांसम्। पाके इति किम्? शूलं करोति कृदन्नम्।
`शूलाकरोति मांसम्` इति। पचतीत्यर्थः॥
शूलं करोति कदन्नमिति। शूलमूदरतोदः, कुत्सितमन्नं कदन्नम् ॥
सिद्धान्तकौमुदी
शूलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥
शूलात् पाके - शूलात्पाके ।डा॑जिति शेषः । शूलाकरोतीति । अत्र करोतिः पाके वर्तते । तदाह — शूलेन पचतीत्यर्थ इति ।
शूलात् पाके - शूलात्पाके । पाके किम् । शूलं करोति कदन्नं । शूलमुदररोगः । सत्यादशपथे । सत्सु साधु सत्यम् ।तत्र साधु॑रिति प्राग्घितीयत्वाद्यति प्राप्ते अतएव निपातनाद्यः । अन्तोदात्तोऽयम् ।सत्येनोत्तभिता भूनिः॑ऋतं च सत्यं चे॑त्यत्र तथा दर्शनात् । सत्याकरोतीति । भाण्डं — — रत्नादिद्रव्यजातम् । क्रेतव्यमिति ।मयैवैतद्ग्राह्र॑मिति बुद्द्या परीक्षादिना, सत्यङ्कारद्रव्यप्रदानेन च दृढं करोतीत्यर्थः । तथ्यमिति । तथैव तथ्यम् ।पादार्घाभ्यां च॑इति चकारस्यानुक्तसमुच्चयार्थत्वात्स्वार्थे यत् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.