Page loading... Please wait.
5|4|55 - देये त्रा च
॥ तस्मै पाणिनये नमः ॥
5|4|55
SK 2126
देये त्रा च  
सूत्रच्छेदः
देये (सप्तम्येकवचनम्) , त्रा (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
कृ-भू-अस्ति-योगे  5|4|50 (सप्तम्येकवचनम्) , साति  5|4|52 (लुप्तप्रथमान्तनिर्देशः) , च  5|4|53 () , सम्पदा  5|4|53 (तृतीयैकवचनम्) , तद्-अधीन-वचने  5|4|55 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
तदधीनवचने देये कृ-भू-अस्ति योगे सम्पदा च सातिः, त्रा च
सूत्रार्थः
"तस्य अधीनम् देयम्" अस्मिन् सन्दर्भे "कृ", "भू", "अस्" तथा "सम्पद्" एतेषां योगे प्रातिपदिकात् "त्रा" तथा "साति" एतौ प्रत्ययौ भवतः ।
"तस्य अधीनः" (dependent on / belongs to / captured by / obtained by etc) अस्मिन् सन्दर्भे कृ", "भू", "अस्" तथा "सम्पद्" एतेषां योगे प्रातिपदिकात् <तदधीनवचने>> 5|4|54 इत्यनेन साति-प्रत्ययः भवति । यदि एतादृशः अधीनत्वं प्राप्तः पदार्थः "देयः" अस्ति (= नियमम् अनुसृत्य दातव्यः अस्ति), तर्हि तस्य निर्देशार्थम् प्रातिपदिकात् "त्रा" इति प्रत्ययः वर्तमानसूत्रेण विकल्पेन विधीयते । पक्षे पूर्वसूत्रेण "साति" इत्यपि प्रत्ययः भवति ।

यथा - कस्यांश्चन पूजायाम् ब्राह्मणेभ्यः काचन दक्षिणा देया - इति चिन्तयामः । अस्यां स्थितौ यदि सा दक्षिणा ब्राह्मणेभ्यः दीयते, तर्हि सा दक्षिणा "ब्राह्मणाधीना" भवति इति वक्तुं शक्यते । अयम् ब्राह्मणाधीना दक्षिणा "देया" अपि अस्ति, अतः अत्र वर्तमानसूत्रेण "साति" तथा "त्रा" द्वावपि प्रत्ययौ भवतः । यथा - "दक्षिणा ब्राह्मणसात् भवति / दक्षिणा ब्राह्मणत्रा भवति" ।
अनयोः प्रत्यययोः प्रयोगः "कृ" / "भू", / "अस्" / "सम्पद्" एतेषाम् योगे भवितुम् अर्हति । यथा -
अ) दक्षिणां ब्राह्मणसात् करोति / ब्राह्मणत्रा करोति ।
आ) दक्षिणा ब्राह्मणसात् भवति / ब्राह्मणत्रा भवति ।
इ) दक्षिणा ब्राह्मणसात् स्यात् / ब्राह्मणत्रा स्यात् ।
ई) दक्षिणा ब्राह्मणसात् सम्पद्यते / ब्राह्मणत्रा सम्पद्यते ।

अन्यानि उदाहरणानि -
1. माण्डलिकः धनम् राजसात् राजत्रा वा करोति । धनम् राजसात् राजत्रा वा भवति / स्यात् / सम्पद्यते ।
2. धनिकः शुल्कम् शासकसात् शासकत्रा वा करोति । शुक्लम् शासकसात् शासकत्रा वा भवति / स्यात् / सम्पद्यते ।
आदयः ।

यत्र "देयम्" न विद्यते तत्र तु वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - पिता पुत्रम् आचार्याधीनम् आचार्यसात् वा करोति । अत्र यद्यपि पिता आचार्याय पुत्रम् ददाति, तथापि अयं पुत्रः "देयः" नास्ति, अपितु केवलम् पाठनकार्यार्थम् पुत्रस्य समर्पणम् कृतम् अस्ति । अतः अत्र वर्तमानसूत्रेण त्रा-प्रत्ययः न भवति । पूर्वसूत्रेण तदधीनवचने 5|4|54 इत्यनेन "साति" प्रत्ययः तु भवत्येव ।

ज्ञातव्यम् -
1. समर्थानां प्रथमाद्वा 4|1|82 इत्यत्र पाठितायां महाविभाषायाम् इदम् सूत्रम् प्रवर्तते, अतः अनेन सूत्रेण उक्तः "त्रा" प्रत्ययः विकल्पेनैव भवति । पक्षे "साति" प्रत्ययः, उत वाक्यस्य अपि प्रयोगः भवितुम् अर्हति । यथा - दक्षिणां ब्राह्मणसात् करोति / ब्राह्मणत्रा करोति / ब्राह्मणाधीनम् करोति ।

2. साति-प्रत्ययान्तशब्दाः तथा च "त्रा" प्रत्ययान्तशब्दाः सर्वेऽपि तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तदधीनवचने च इति अनुवर्ते। तस्य विशेषणं देयग्रहणम्। दातव्यं देयम्। तदधीने देये त्रा प्रत्ययो भवति, चकारात् सातिश्च कृभ्वस्तिभिः सम्पदा च योगे। ब्राह्मनेभ्यो देयम् इति यद् विज्ञातम्, तद् यदा तेषा समर्पणेन तदधीनं क्रियते तदात्रा प्रत्ययः। ब्राह्मणाधीनं देयं करोति ब्राह्मणसात्करोति। ब्राह्मणत्रा करोति। ब्राह्मणत्रा भवति। ब्राह्मणत्रा स्यात्। ब्राह्मणत्रा सम्पद्यते। देये इति किम्? राजसाद् भवति राष्ट्रम्।
`राजसाद्भवति राष्टम्` इति। पूर्वेण सातिरेव भवति॥
ब्राह्मणत्राकरोतीति। स्वरादिष्वयं त्रान्तः पठितव्यः, तेनाव्ययत्वात्सोर्लुक्। अपर आह--तत्रैव ठ्चव्यर्थाश्चऽ इति पठ।ल्ते, तत्र बहुवचननिर्द्देशादच्व्यर्थस्यापि त्राप्रत्यस्य साहचर्येण परिग्रहादव्ययत्वमिति। राजसाद्भवति राष्ट्रमिति। पूर्वेण सातिरेव भवति ॥
सिद्धान्तकौमुदी
तदधीने देये त्रा स्यात्सातिश्च कृभ्वादियोगे । विप्राधीनं देयं करोति विप्रत्रा करोति । विप्रत्रा संपद्यते । पक्षे विप्रसात्करोति । देये किम् । राजसाद्भवति राष्ट्रम् ॥
देये त्रा च - देये त्रा च । तदधीनवचन इत्येवानुवर्तते । कृभ्वादियोगे इति । कृभ्वस्तिभिः संपदा च योगे इत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.