Page loading... Please wait.
5|4|52 - विभाषा साति कार्त्स्न्ये
॥ तस्मै पाणिनये नमः ॥
5|4|52
SK 2122
विभाषा साति कार्त्स्न्ये  
सूत्रच्छेदः
विभाषा (प्रथमैकवचनम्) , साति (लुप्तप्रथमान्तनिर्देशः) कार्त्स्न्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
सम्पद्यकर्तरि  5|4|50 (सप्तम्येकवचनम्) , कृ-भू-अस्ति-योगे  5|4|50 (सप्तम्येकवचनम्) , अभूत-तद्भावे  5|4|50 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
अभूततद्भावे सम्पद्यकर्तरि कार्त्स्न्ये विभाषा सातिः
सूत्रार्थः
अभूतपूर्वस्य विकारस्य सम्पूर्णरूपेण सम्पादनम् क्रियते चेत् विकारवाचिशब्दात् "कृ" "भू" तथा "अस्" एतेषाम् योगे स्वार्थे विकल्पेन "साति" प्रत्ययः भवति ।
अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः 5|4|50 इत्यनेन सूत्रेण "च्वि" इति प्रत्ययः पाठ्यते । अभूतपूर्वस्य विकारस्य सम्पादने "कृ" "भू" तथा "अस्" एतेषाम् योगे अयम् प्रत्ययः विकारवाचिशब्दात् विधीयते । (अस्य विषयस्य विस्तारः अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः 5|4|50 इत्यत्रैव द्रष्टव्यः) । यदि अयम् विकारः सम्पूर्णरूपेण (अशेषेण, कार्त्स्न्येन) सम्पद्यते, तर्हि तस्मात् विकारवाचिनः शब्दात् "च्वि" प्रत्ययस्य अपवादरूपेण विकल्पेन "साति" इति प्रत्ययः भवति । पक्षे "च्वि" प्रत्ययः अपि भवति, समर्थानां प्रथमाद्वा 4|1|82 इत्यनया महाविभाषया च प्रत्ययं विना वाक्यप्रयोगः अपि भवितुम् अर्हति ।

यथा -
1. अशुक्लः घटः सम्पूर्णरूपेण शुक्लः सम्पद्यते । तत् करोति इत्येव =
शुक्ल + साति
→ शुक्ल + सात् [इकारः उच्चारणार्थः, तकारस्य इत्संज्ञाबाधनार्थः च]
→ शुक्लसात्
→ शुक्लसाद् [झलां जशोऽन्ते 8|2|39 इति पदान्ततकारस्य जश्त्वे दकारः]
→ शुक्लसाद्, शुक्लसात् [वाऽवसाने 8|4|56 इति वैकल्पिकम् चर्त्वम्]

यथा - घटं शुक्लसात् करोति । घटः शुक्लसाद् भवति । घटः शुक्लसात् स्यात् - आदयः ।
पक्षे "घटम् शुक्लीकरोति" इति च्वि-प्रत्ययान्तरूपम् अपि भवितुम् अर्हति ।
पक्षे च महाविभाषया "घटः शुक्लः सम्पद्यते" इति अपि वाक्यप्रयोगः साधु ।

अन्यानि कानिचन उदाहरणानि -
2. अनग्निः शस्त्रम् कार्त्स्येन अग्निः सम्पद्यते (The weapon, which was different from fire becomes unanimous with fire इत्याशयः) । तत् करोति इत्येव = अग्निसात् करोति । एवमेव - अग्निसाद्भवति, अग्निसात् स्यात् ।
विशेषः - अत्र "शस्त्रम् अग्निम् समर्पयति / शस्त्रम् अग्नौ क्षिपति" एतादृशः अर्थः यद्यपि विवक्ष्यते, तथापि वाक्यप्रयोगः तु "अनग्निः शस्त्रम् कार्त्स्येन अग्निः सम्पद्यते" इत्येव क्रियते । अत्र शस्त्रे "अग्निः" इति विकारः सम्पूर्णरूपेण स्थाप्यते (The weapon becomes indifferent from the fire)- इति आशयः अस्ति । यदि एतादृशी विवक्षा न विद्यते, यदि केवलम् "शस्त्रम् अग्नौ क्षिपति" इत्येव विवक्षा अस्ति तर्हि वर्तमानसूत्रस्य प्रयोगः नैव भवितुम् अर्हति । (अस्यां स्थितौ तदधीनवचने 5|4|54 इत्यनेन साति-प्रत्ययः अवश्यम् भवति, परन्तु विग्रहवाक्यं भिद्यते) । एवमेव अग्रेऽपि सर्वत्र ज्ञेयम् ।

3. अनुदकम् लवणम् उदकम् सम्पद्यते , तत् करोति इत्येव = उदकसात्करोति । एवमेव - उदकसाद्भवति, उदकसात्स्यात् ।
4. अभस्मः असुरः भस्म सम्पद्यते, तत् करोति इत्येव भस्मसात्करोति । एवमेव - भस्मसाद्भवति, भस्मसात्स्यात् । (अत्र भस्मन् इति प्रातिपदिकम् अस्ति) ।

स्मर्तव्यम् - "साति" प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

विशेषः - "अग्निसाद्" आदिषु शब्देषु प्रत्ययसकारस्य आदेशप्रत्यययोः 8|3|59 इत्यनेन षत्वे प्राप्ते सात्पदाद्योः 8|3|59 इत्यनेन तत् निषिध्यते । अतः अत्र षत्वम् न भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि इति सर्वम् अनुवर्तते। अस्मिन् विषये विभाष सातिः प्रययो भवति कार्त्स्न्ये गम्यमाने। यदि प्रक्र्तिः कृत्स्नां विकारात्मतामापद्यते इत्यर्थः। अग्निसाद्भवति शस्त्रम्, अग्नीभवति शस्त्रम्। उदकसाद्भवति, उदकीभवति लवणम्। कार्त्स्न्ये इति किम्? एकदेशेन पटः शुक्लीभवति। विभाषाग्रहणम् च्वेः प्रापकम्। प्रत्ययविकल्पस् तु महाविभाषय एव सिद्धः।
`विभाषाग्रहणं च्वेः प्रापकम्` इति। समुच्चयार्थत्वात्। समुच्चयार्थत्वं त्वनेकार्थत्वान्निपातस्य। यद्येवम्, चकार एव कस्मान्नोह्रः? वैचित्र्यात्? सूत्रकृतेः।अथ प्रत्ययदिकल्पार्थमेवेति विभाषाग्रहणं कस्मान्न भवति? इत्याह--`प्रत्ययविकल्पस्तु` इत्यादि॥
यदि प्रकृतिः कृत्स्ना विकारतामापद्यत इति। अभूततद्भावविषयं कार्त्स्न्यमाश्रीयत इति दर्शयति--विभाषाग्रहणं च्वेः प्रापकमिति। विकल्पार्थस्याप्यस्य प्रापयितव्यान्तराभावात्। ननु वाक्यं प्रापयितव्यं स्यात्? तत्राऽऽह-प्रत्ययविकल्पस्तिति। अपर आह--अनेकार्थत्वान्निपातानां समुच्ययोऽर्थः। विभाषाग्रहणं च्वेः प्रापकमिति। विभाषाशब्दस्तु निपातो न भवति, ठ्द्वयोर्विभाषयोर्मध्येऽ इति विभक्तेर्दर्शनात्, किं तहि? ठ्गुरोश्च हलःऽ इत्यकार प्रत्ययान्तः--विभाष्यते विकल्प्यते इति विभाषेति ॥
सिद्धान्तकौमुदी
च्विविषये सातिर्वा स्यात्साकल्ये ॥
विभाषा साति कार्त्स्न्ये - विभाषा साति ।साती॑ति लुप्तप्रथमाकम् । च्विविषये इति । अभूततद्भावे संपद्यकर्तरि कृभ्यस्तियोगे इत्यर्थः ।
विभाषा साति कार्त्स्न्ये - विभाषा साति । विभाष्यते विकल्प्यते इति विभाषा ।गुरोश्च हलः॑इत्यकारप्रत्ययः । ततः टाप् । न त्विदमव्ययंद्वयोर्विभाषयोर्मध्ये॑,॒पयसस्तु विभाषया॑इत्यादौ बिभक्तेर्दर्शनात् । कृत्स्नमिति । सर्वावयवोपेतमित्यर्थः ।
लघुसिद्धान्तकौमुदी
च्विविषये सातिर्वा स्यात्साकल्ये॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.