Page loading... Please wait.
5|4|48 - षष्ठ्या व्याश्रये
॥ तस्मै पाणिनये नमः ॥
5|4|48
SK 2115
षष्ठ्या व्याश्रये   🔊
सूत्रच्छेदः
षष्ठ्याः (पञ्चम्येकवचनम्) , व्याश्रये (सप्तम्येकवचनम्)
अनुवृत्तिः
तसिः  5|4|44 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
व्याश्रये षष्ठ्या तसिः
सूत्रार्थः
व्याश्रये गम्यमाने षष्ठ्यन्तात् तसि-प्रत्ययः भवति ।
"व्याश्रय" इत्युक्ते "सङ्घे / पक्षे समावेशः" (Take the side of / join the league of - इति) । व्याश्रये गम्यमाने षष्ठ्यन्तात् "तसि" इति प्रत्ययः विधीयते । यथा -

1. "देवाः अर्जुस्य पक्षे अभवन् (= अर्जुनस्य साहाय्यम् अकुर्वन् इत्याशयः) इत्यत्र "अर्जुनस्य" इत्यस्मात् तसि-प्रत्ययं योजयित्वा "अर्जुनतः" इति शब्दः सिद्ध्यति । प्रक्रिया इयम् -
अर्जुनस्य + तसि
→ अर्जुनस्य + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः]
→ अर्जुन + ङस् + तस् [अलौकिकविग्रहः]
→ अर्जुन + तस् [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2|4|71 इति ङस्-प्रत्ययस्य लोपः]
→ अर्जुनतः [सकारस्य ससजुषो रुँः 8|2|66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

यथा - देवाः अर्जुनतः अभवन् ।"देवाः अर्जुनस्य पक्षे समाविष्टाः अभवन्" इत्येव अस्य अर्थः ।

एवमेव -
2. कर्णः दुर्योधनतः अभवन् ।
3. कृष्णः पाण्डवतः अभवन् ।

तस्-प्रत्ययेन प्रयुक्तस्य शब्दस्य प्रयोगे "पक्ष" इति नैव प्रयुज्यते - इति स्मर्तव्यम् ।

ज्ञेयाः -
1. "तसि"प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः 1|1|138 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।
2. एतत् सूत्रम् समर्थानां प्रथमात् वा 4|1|82 अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितम् अस्ति । अतः अनेन सूत्रेण उक्तः "तसि" प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे "देवाः अर्जुनम् व्याश्रयन्" एतादृशाः प्रयोगाः अपि विधीयन्ते ।
3. अत्र सूत्रे "षष्ठ्या" इति उच्यते, अतः विग्रहवाक्ये "अस्य पक्षे अभवन्" इत्येव निर्देशः क्रियते । "व्याश्रय" इति शब्दः विग्रहवाक्ये नैव प्रयुज्यते ।
4. "तसि"-प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, सकारस्य इत्संज्ञानिषेधार्थम् च स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव तस्य लोपः भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
नानापक्षसमाश्रयो व्याश्रयः। व्याश्रये गम्यमाने षष्ठ्यन्ताद् वा तसिः प्रत्ययो भवति। देवा अर्जुनतो ऽभवन्। आदित्याः कर्णतो ऽभवन्। षष्ठी च अत्र पक्षापेक्षैव। अर्जुनस्य पक्षे, कर्णस्य पक्षे इत्यर्थः। व्याश्रये इति किम्? वृक्षस्य शाखा।
Text Unavailable. Please use feedback link below to provide the text if you have.
नानापक्षसमाश्रयो व्याश्रय इति। तथा च ठ्हेतुमति चऽ इत्यत्र भाष्ये प्रयोगः---व्याश्रिताश्च भवन्ति, केचित्कंसभक्ता, केचिद्वासुदेवभक्ता इति। देवा इत्यादि। अर्जुन इन्द्रपुत्रः, कर्णः सूर्यपुत्रः। षष्ठी चात्रेति । पक्षशब्दस्तु तसौ सति न प्रयुज्यतेः गतार्थत्वात्, नानापक्षसमाश्रयण एवास्य विधानात् ॥
सिद्धान्तकौमुदी
षष्ठ्यान्ताद्वा तसिः स्यान्नानापक्षसमाश्रये । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः । व्याश्रये किम् । वृक्षस्य शाखा ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.