Page loading... Please wait.
5|4|46 - अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः
॥ तस्मै पाणिनये नमः ॥
5|4|46
SK 2113
अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः   🔊
सूत्रच्छेदः
अतिग्रह-अव्यथन-क्षेपेषु (सप्तमीबहुवचनम्) , अकर्तरि (सप्तम्येकवचनम्) , तृतीयायाः (पञ्चम्येकवचनम्)
अनुवृत्तिः
तसिः  5|4|44 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
अतिग्रह-अव्यथन-क्षेपेषु तृतीयायाः अकर्तरि तसिः
सूत्रार्थः
"अतिग्रह", "अव्यथन" तथा "क्षेप" एतेषु विषयेषु तृतीयान्तशब्दात् स्वार्थे तसि-प्रत्ययः विधीयते । परन्तु यदि कर्ता तृतीयायां विद्यते तर्हि तस्मात् तसि-प्रत्ययः न भवति ।
प्रारम्भे सूत्रे प्रयुक्तानाम् शब्दानाम् अर्थम् पश्यामः -
1. अतिग्रह = अनतिक्रम्य वर्तनम् (behavior without breaking the rules) इत्युक्ते अतिग्रहः । यथा - देवदत्तः चरित्रेण अतिगृह्यते । Devadatta is known by people as the one who will never behave immorally - इत्याशयः ।
2. अव्यथन = मार्गात् अनिवृत्तिः / अचलनम् (Does not astray away / deviate / fall away from the appropriate path इत्याशयः) । यथा - देवदत्तः वृत्तेन न व्यथते । Devadatta does not deviate from the correct gesture - इत्याशयः ।
3. क्षेप = निन्दा (insult) इत्याशयः । यथा - देवदत्तः वृत्तेन क्षिप्तः (Devadatta was insulted because of his behavior)।

एतेषु विषयेषु तृतीतान्तशब्दात् स्वार्थे तसि-प्रत्ययः भवति । यथा -

1.देवदत्तः चरित्रेण अतिगृह्यते इत्येव = देवदत्तः चरित्रतः अतिगृह्यते । प्रक्रिया इयम् -
चरित्रेण + तसि
→ चरित्रेण + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः]
→ चरित्र + टा + तस् [अलौकिकविग्रहः]
→ चरित्र + तस् [कृत्तद्धितसमासाश्च 1|2|46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2|4|71 इति टा-प्रत्ययस्य लोपः]
→ चरित्रतः [सकारस्य ससजुषो रुँः 8|2|66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

एवमेव -
2. देवदत्तः वृत्तेन न व्यथते इत्येव = देवदत्तः वृत्ततः न व्यथते ।
3. देवदत्तः वृत्तेन क्षिप्तः इत्येव = देवदत्तः वृत्ततः क्षिप्तः ।

यत्र कर्तुः तृतीया विभक्तिः विधीयते, तत्र तस्मात् तसि-प्रत्ययः न भवति इति स्पष्टीकर्तुम् अस्मिन् सूत्रे "अकर्तरि" इति निर्दिष्टम् अस्ति । यथा - "यज्ञदत्तः देवदत्तेन क्षिप्तः" अस्मिन् वाक्ये क्षेपक्रियायाः कर्ता "देवदत्तः" तृतीयया गृह्यते, अतः अत्र तसि-प्रत्ययः न भवति ।

ज्ञातव्यम् -
1. एतत् सूत्रम् समर्थानां प्रथमात् वा 4|1|82 अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितम् अस्ति । अतः अनेन सूत्रेण उक्तः "तसि" प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे " देवदत्तः चारित्रेण अतिगृह्यते" एतादृशाः प्रयोगाः अपि विधीयन्ते ।
2. "तसि" प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अतिक्रम्य ग्रहः अतिग्रहः। अचलनम् अव्यथनम्। क्षेपो निन्दा। अतिग्रहादिविषये या तृतीया तदन्ताद् वा तसिः प्रत्ययो भवति, सा चेत् कर्तरि न भवति। वृत्तेन अतिगृह्यते वृत्ततो ऽतिगृह्यते। चारित्रेण अतिगृह्यते चारित्रतो ऽतिगृह्यते। सुष्ठुवृत्तवानन्यानतिक्रम्य वृत्तेन गृह्यते इत्यर्थः। अव्यथने वृत्तेन न व्यथते वृत्ततो न व्यथते। चारित्रेण न व्यथते चारित्रतो न व्यथते। वृत्तेन न चलति इत्यर्थः। क्षेपे वृत्तेन क्षिप्तो वृत्ततः क्षिप्तः। चारित्रेण क्षिप्तः चारित्रतः क्षिप्तः। वृत्तेन निन्दितः इत्यर्थः। अकर्तरि इति किम्? देवदत्तेन क्षिप्तः।
`अतिक्रम्य` इति। अनेनातिशब्दोऽत्रातिक्रमे वत्र्तत इति दर्शयति। `अचलनमध्यथनम्` इति। `व्यथभयचलनयोः` (धातुपाठः- 764) इति पठते, तस्येह चलने वृत्तिमाचष्टे। वृत्तेनेति हेतौ करणे वा तृतीया॥
अतिक्रम्य ग्रहोऽतिग्रह इति। अतिशब्दोऽत्रातिक्रमणे वर्तते इति दर्शयति। अतिशब्दो हि ससाधनेऽप्यतिक्रमणे दृष्टः, तद्यथा--ठ्तस्माद्ब्राह्मणे राजन्यवानत्यन्यं ब्राह्मणम्ऽ इति, ठ्न वै देवा नमस्कारमतिऽ इति च। तेन तस्यातिक्रमणमात्रे वृत्तिर्न सम्भवति। वृतेनातिगृह्यत इति। बहुष्वासीनेष्वन्यातिक्रमेणायमसाविति विज्ञायत इत्यर्थः, तत्र वृतं कारणम्। चारित्रेणेति। ठ्चरेर्वृते ह्रस्वश्च वाऽ इति णित्रन्प्रत्ययः-चरित्रम्, चारित्रम् ॥
सिद्धान्तकौमुदी
अकर्तरि तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य ग्रहोऽतिग्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽतिगृह्यते । चारित्रेणान्यनतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम् । वृत्तेन न व्यथते । वृत्ततो न व्यथते । वृत्तेन न चलतीत्यर्थः । क्षेपे । वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः । अकर्तरीति किम् । देवदत्तेन क्षिप्तः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः - अतिगृह्रत इति । अन्याऽतिक्रमेण लौकैर्गृह्रत इत्यर्थः । फलितमाह — -अन्यानतिक्रम्य वर्तत इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.