सूत्रच्छेदः
वृक-ज्येष्ठाभ्याम् (पञ्चमीद्विवचनम्) , तिल्-तातिलौ (प्रथमाद्विवचनम्) , च (अव्ययम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
प्रशंसायाम्
5|4|40 (सप्तम्येकवचनम्)
सम्पूर्णसूत्रम्
प्रशंसायाम् वृक-ज्येष्ठाभ्याम् तिल्-तातिलौ छन्दसि
सूत्रार्थः
प्रशंसायाम् गम्यमानायाम् वेदेषु "वृक" तथा "ज्येष्ठ" शब्दाभ्याम् यथासङ्ख्यम् "तिल्" तथा "तातिल्" प्रत्ययः कृतः दृश्यते ।
प्रशंसायाम् गम्यमानायाम् वेदेषु "वृक" (wolf) शब्दात् "तिल्" प्रत्ययः तथा च "ज्येष्ठ"शब्दात् "तातिल्" प्रत्ययः प्रयुक्तः दृश्यते । यथा -
1. प्रशस्तः वृकः = वृकतिः । यथा - ऋग्वेदे 4.41.4 - यो नो॑ दु॒रेवो॑ वृ॒कति॑र्द॒भीति॒स्तस्मि॑न्मिमाथाम॒भिभू॒त्योज॑: ।
2. प्रशस्तः ज्येष्ठः = ज्येष्ठतातिः । यथा - ऋग्वेदे 5.41.1 - तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रशंसायाम् इत्येव। वृकज्येष्ठाभ्यां प्रशंसोपाधिके ऽर्थे वर्तमानाभ्यां यथासङ्ख्यम् तिल्तातिलौ प्रत्ययौ भवतः छन्दसि विषये। रूपपो ऽपवादौ। वृकतिः। ज्येष्ठतातिः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
स्वार्थे । यो नों दुरेवो वृकतिः (यो नों॑ दु॒रेवो॑ वृ॒कतिः) । ज्येष्ठतातिं बहिर्षदम् (ज्ये॒ष्ठता॑तिं बर्हि॒षद॑म्) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.