Page loading... Please wait.
5|4|37 - ओषधेरजातौ
॥ तस्मै पाणिनये नमः ॥
5|4|37
SK 2105
ओषधेरजातौ   🔊
सूत्रच्छेदः
ओषधेः (पञ्चम्येकवचनम्) , अजातौ (सप्तम्येकवचनम्)
अनुवृत्तिः
अण्  5|4|36 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
ओषधेः अजातौ अण्
सूत्रार्थः
जातिभिन्ने अर्थे प्रयुक्तात् "ओषधि" शब्दात् स्वार्थे अण् प्रत्ययः भवति ।
"ओषधि" इत्यस्य शब्दस्य प्रामुख्येन द्वौ अर्थौ स्तः - भिषग् (medicine, usually created by processing a mixture of various substances), तथा च भिषग्वनस्पतिः (medicinal plant) । एतेषु "भिषग्" इत्यस्मिन् अर्थे प्रयुक्तः यः "ओषधि" शब्दः, तस्मात् स्वार्थे "अण्" प्रत्ययः भवति । ओषधिः इत्येव औषधम् । प्रक्रिया इयम् -

ओषधि + अण्
→ औषधि + अ [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ औषध् + अ [यस्येति च 6|4|148 इति इकारलोपः]
→ औषध

स्मर्तव्यम् - समर्थानां प्रथमाद्वा 4|1|82 इत्यनेन अत्र प्रत्ययविधानम् विकल्प्यते, अतः "ओषधिः" इत्यस्य शब्दस्य प्रयोगः अपि अस्मिन् विषये भवितुम् अर्हति ।


"ओषधि" शब्दस्य अर्थः यत्र भिषग्वनस्पतिः (medicinal plant) इति क्रियते, तत्र तु वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - "क्षेत्रे ओषधयः सन्ति" (The farm contains medicinal plants) ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ओषधिशब्दादजातौ वर्तमानात् स्वार्थे ऽण्प्रत्ययो भवति। औषधं पिबति। औषधं ददाति। अजातौ इति किम्? ओषधयः क्षेत्रे रूढा भवन्ति।
`औषधं पिवति` इति। फलादौ वत्र्तमानादोषधिशब्दात्? प्रत्ययः, स च जातिर्न भवति; `आकृतिग्रहणा जातिः` (काशिका। 4.1.63) इत्यादेर्लक्षणस्याभावात्। ओषधयः क्षेत्रे रूढा भवन्ति। अत्र फलपाकान्ता जातिः, तत्रौषधिशब्दो वत्र्तते॥
औषधं पिबतीति। पथ्या-शुण्ठी-सैन्धवादीनां कल्के औषधशब्दो वर्तते, औषधयः क्षेत्ररूढा इति। फलपाकावसानेषु जातिविशेषेप्वत्रौषधिशब्दः ॥
सिद्धान्तकौमुदी
स्वार्थेऽण् । औषधं पिबति । अजातौ किम् । ओषधयः क्षेत्रे रूढाः ॥
ओषधेरजातौ - ओषधेरजातौ । औषधं पिबतीति । शुण्ठीमरीचादिचूर्णमबादिद्रव्यसंसृष्ठं विवक्षितम् । तस्य न जातिवचनत्वमिति भावः । क्षेत्रे रूढा इति । उत्पन्ना इत्यर्थः । शाल्यादिसस्यात्मका इति फलितम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.