Page loading... Please wait.
5|4|27 - देवात्तल्
॥ तस्मै पाणिनये नमः ॥
5|4|27
SK 2095
देवात्तल्   🔊
सूत्रच्छेदः
देवात् (पञ्चम्येकवचनम्) , तल् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
देवात् तल्
सूत्रार्थः
"देव" शब्दात् स्वार्थे "तल्" प्रत्ययः भवति ।
"देव" शब्दात् स्वार्थे "तल्" प्रत्ययः भवति । तलन्तः इति लिङ्गानुशासनस्य सूत्रेण तलन्तशब्दाः नित्यस्त्रीलिङ्गाः भवन्ति, अतः तल्-प्रत्ययात् परः टाप्-प्रत्ययः अपि भवति ।
देवः इत्येव
= देव + तल् + टाप्
→ देवता [अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः ।

समर्थानां प्रथमाद्वा 4|1|82 अनया महाविभाषया प्रत्ययविधानम् विकल्पेन भवति, अतः "देव" तथा "देवता" द्वयोः अपि शब्दयोः प्रयोगः साधु एव ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तादर्थ्ये इति निवृत्तम्। देवशब्दात् स्वार्थे तल्प्रत्ययो भवति। देव एव देवता।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
देव एव देवता ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
देवात्तल् - देवतेति ।तलन्तं स्त्रियाम॑ ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
देवात्तल् (2304) (तलोऽधिकरणम्) (5906 एकदेशिन उपसंख्यानवार्तिकम् ।। 1 ।।) - तलि स्त्रीलिङ्गवचनम् - (भाष्यम्) तलि स्त्रीलिङ्गं वक्तव्यम्। देवता। किं पुनः कारणं न सिद्ध्यति? देवशब्दोऽयं पुंल्लिङ्गः स्वार्थिकश्चायम्, स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते।। (5907 सिद्धान्तवार्तिकम्।। 2 ।।) - उक्तं वा - (भाष्यम्) किमुक्तम्? स्वार्थिका अतिवर्तन्तेऽपि लिङ्गावचनानीति।।