Page loading... Please wait.
5|4|25 - पादार्घाभ्यां च
॥ तस्मै पाणिनये नमः ॥
5|4|25
SK 2093
पादार्घाभ्यां च   🔊
सूत्रच्छेदः
पाद-अर्घाभ्याम् (पञ्चमीद्विवचनम्) , च (अव्ययम्)
अनुवृत्तिः
यत्  5|4|24 (प्रथमैकवचनम्) , तादर्थ्ये  5|4|24 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
पाद-अर्घाभ्याम् तादर्थ्ये यत्
सूत्रार्थः
"पाद" तथा "अर्घ" शब्दाभ्याम् "तदर्थम्" अस्मिन् अर्थे यत्-प्रत्ययः भवति ।
"पाद" (feet) तथा "अर्घ" (= स्वागतार्थे प्रयुक्तः गन्धोदकसमुदायः) एताभ्याम् शब्दाभ्याम् चतुर्थीसमर्थाभ्याम् प्रथमार्थे "यत्" प्रत्ययः भवति । यथा -

1. पादार्थम् इदम् = पाद्यम् उदकम् । प्रक्रिया इयम् -
पाद + यत्
→ पाद् + यत् [यस्येति च 6|4|148 इति अकारलोपः ।
→ पाद्य [यस्येति च 6|4|148 इत्यनेन कृतः अकारलोपः आभीय-असिद्धत्वात् पादः पत् 6|4|130 इत्यनेन न दृश्यते, अतः अत्र पाद्-इत्यस्य पद्-आदेशः न भवति । तथा च, अचः परस्मिन् पूर्वविधौ 1|1|57 इत्यनेन लुप्त-अकारस्य विधानम् अपि भवति, अतः असिद्धत्वस्य चिन्तनं विना अपि अत्र पादः पत् 6|4|130 इत्यस्य प्रसक्तिः न विद्यते ।]

2. अर्घार्थम् इदम् = अर्घ्यम् उदकम् । प्रक्रिया इयम् -
अर्घ + यत्
→ अर्घ् + यत् [यस्येति च 6|4|148 इति अकारलोपः ।
→ अर्घ्य

"पाद्य" तथा "अर्घ्य" द्वौ अपि शब्दौ पूजाकार्ये जलस्य निर्देशार्थम् प्रयुज्येते । तत् जलम् यत् पादप्रोक्षणार्थम् प्रयुज्यते, "पाद्यम्" नाम्ना ज्ञायते । तत् जलम् यत् गन्धोदकमिश्रितम् अस्ति, स्वागतार्थं च प्रयुज्यते, "अर्घ्य" नाम्ना ज्ञायते ।

विशेषः -
1. अस्मिन् सूत्रे "च" इति निर्दिष्टः अस्ति । अयम् चकारः "अनुक्तसमुच्चायार्थः" अस्ति इति काशिकाकारः वदति । इत्युक्ते, अन्येषां शब्दानां विषये अपि "तदर्थम्" अस्मिन् अर्थे वर्तमानसूत्रेण यत्-प्रत्ययः कृतः दृश्यते । यथा, "छन्दसे इदम् छन्दस्यम्" - आदयः ।

2. यद्यपि इदम् सूत्रम् स्वार्थिकप्रकरणे विद्यते, तथापि अत्र प्रत्ययः स्वार्थे न विधीयते, अपितु चतुर्थीसमर्थात् "इदम्" अस्मिन् अर्थे विधीयते इति ज्ञातव्यम् ।

अत्र कानिचन वार्त्तिकानि ज्ञेयानि -
1. वसु-अपस्-ओक-कवि-क्षेम-उदक-वर्चस्-निष्केवल-उक्थ-जन-पूर्व- नव-सूर-मर्त-यविष्ठेभ्यः छन्दसि स्वार्थे यत्प्रत्ययो वक्तव्यः । एतेभ्यः शब्देभ्यः वेदेषु स्वार्थे यत्-प्रत्ययः कृतः दृश्यते इत्याशयः । यथा -
क) वसु एव वसव्यः । ऋग्वेदे 4.55.8 इत्यत्र - अ॒ग्निरी॑शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य ।
ख) अपः एव अपस्यः । शुक्लयजुर्वेदे 10.7 इत्यत्र - एता अनाधृष्टा अपस्यो वसानाः । ।
ग) ओकः एव ओक्यः । ऋग्वेदे 3.42.8 इत्यत्र - तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ ।
घ) कविः एव कव्यः । पञ्चविंशब्राह्मणे 1.4 इत्यत्र - कव्योऽसि कव्यवाहनः ।
ङ) क्षेमः एव क्षेम्यः । तैत्तिरीयसंहितायाम् 5.2.1.7 इत्यत्र - क्षेम्यमध्यवस्यति ।
च) उदकम् एव उदक्यम् । मनुस्मृतौ - नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः ।
छ) वर्चः एव वर्चस्यम् । कृष्णयजुर्वेदे एकाग्निकाण्डे 2.7 - आयुष्यम् वर्चस्यम् सुवीर्यम् ।
ज) निष्केवलम् एव निष्केवल्यम् । शाङ्खायनसूत्रेषु 11.4.9 इत्यत्र - आ याह्यर्वाङिति निष्केवल्यम् ।
झ) उक्थः एव उक्थ्यम् । ऋग्वेदे 8.66.2 - दाता जरित्र उक्थ्यम् ।
ञ) जनः एव जन्यः । जैमिनीयब्राह्मणे 2.182 - जन्यं ताभिः ।
ट) पूर्वः एव पूर्व्यः । अथर्ववेदे 19.34.6 - पूर्व्या विदुः ।
ठ) नवम् एव नव्यम् । ऋग्वेदे 1.109.2 - स्तोमं॑ जनयामि॒ नव्य॑म् ।
ड) सूरः एव सूर्यः । ऋग्वेदे 1.23.17 - अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्य॑: स॒ह ।
ढ) मर्तः एव मर्त्यः । ऋग्वेदे 1.19.2 - न॒हि दे॒वो न मर्त्यो॑ म॒हस्तव॒ क्रतुं॑ प॒रः ।
ण) यविष्ठः एव यविष्ठ्यः । ऋग्वेदे 1.36.6 - त्वे इद॑ग्ने सु॒भगे॑ यविष्ठ्य॒ विश्व॒मा हू॑यते ह॒विः ।

2. आमुष्यायण-आमुष्यपुत्रिका-इत्युपसङ्ख्यानम् । इत्युक्ते, "अमुष्य" इत्यस्मिन्नेव अर्थे "आमुष्यायण" इति शब्दः, तथा च "अमुष्यपुत्र" इत्यस्मिन्नेव अर्थे "आमुष्यपुत्रिका" अयम् शब्दः वेदेषु प्रयुक्तः दृश्यते ।

3. समशब्दात् आवतु-प्रत्ययो वक्तव्यः । "सम" शब्दात् स्वार्थे "आवतु" प्रत्ययः भवति । सम इत्येव समावत् ।

4. नवस्य नू-आदेशः, त्नप्-तनप्-खाः च प्रत्ययाः । "नव" शब्दात् स्वार्थे "त्नप्", "तनप्" तथा "ख" प्रत्ययाः भवन्ति, तथा च प्रक्रियायाम् नव-शब्दस्य "नू" इति आदेशः भवति । नवम् इत्येव नूत्नम्, नूतनम्, नवीनम् च ।

5. नश्च पुराणे प्रात् । "पुराण" अस्मिन् अर्थे "प्र" शब्दात् "त्नप्", "तनप्", "ख" तथा "न" एते प्रत्ययाः भवन्ति । पुराणम् इत्येव प्रत्नम्, प्रतनम्, प्रीणम्, प्रणम् ।

6. भागरूपनामभ्यो धेयः प्रत्ययो वक्तव्यः । भाग, रूप, नाम - एतेभ्यः शब्देभ्यः स्वार्थे "धेय" प्रत्ययः भवति । भागः इत्येव भागधेयः । रूपम् इत्येव रूपधेयम् । नाम इत्येव नामधेयम् ।

7. मित्रात् छन्दसि । "मित्र" शब्दात् वेदेषु स्वार्थे "धेय" प्रत्ययः कृतः दृश्यते । मित्रम् एव मित्रधेयम् ।

8. आग्नीध्रसाधारणाद् अञ् । "आग्धीध्र" तथा "साधारण" एताभ्याम् शब्दाभ्याम् स्वार्थे अञ्-प्रत्ययः कृतः दृश्यते । आग्नीध्रम् इत्येव आग्नीध्रम् । साधारणम् इत्येव साधारणम् । स्त्रीत्वे टिड्ढाणञ्... 4|1|15 इति ङीप् - आग्रीध्री, साधारणी ।

9. अयवस-मरुद्भ्यां छन्दसि अञ्-वक्तव्यः । "अयवस" तथा "मरुत्" एताभ्यां शब्दाभ्यां वेदेषु स्वार्थे अञ्-प्रत्ययः कृतः दृश्यते । अयवसः इत्येव अयवस्यः । मरुत् इत्येव मरुत्यः ।

एतैः सर्वेः वार्त्तिकैः विकल्पेन प्रत्ययविधानम् भवति, यतः सर्वत्र समर्थानां प्रथमाद्वा 4|1|82 इत्यस्याः महाविभाषायाः अधिकारः अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तादर्थ्ये इत्येव। पादार्घशब्दाभ्यां चतुर्थीसमर्थाभ्यां तादर्थ्ये अभिधेये यत्प्रत्ययो भवति। पादर्थमुदकं पाद्यम्। अर्घ्यम्। अनुक्तसमुच्चयार्थश्चकारः। यथादर्शनम् अन्यत्र अपि प्रत्ययो भवति। एष वै छन्दस्यः प्रजापतिः। वसु, अपस्, ओक, कवि, क्षेम, उदक, वर्चस्, निष्केवल, उक्थ, जन, पूर्व, नव, सूर, मर्त, यविष्ठ इत्येतेभ्यः छन्दसि स्वार्थे यत्प्रत्ययो भवति। अग्निरीशे वसव्यस्य। अपस्यो वसानाः। द्वितीयाबहुवचनस्य अलुक्। अपो वसानाः इत्यर्थः। स्व ओक्ये। कव्यो ऽसि कव्यवाहनः। क्षेम्यमध्यवस्यति। वायुर् वर्चस्यः। निष्केवल्यं शंसन्ति। उक्थ्यं शंसति। जन्यं ताभिः। पूर्व्या विदुः। स्तोमं जनयामि नव्यम्। सूर्यः। मत्यः। यविष्ठ्यः। आमुष्यायणामुष्यपुत्रिकेत्युपसङ्ख्यानम्। समशब्दादावतुप्रत्ययो वक्तव्यः। समावद् वसति। नवस्य नू आदेशस्त्नप्तनप्खाश्च प्रत्ययाः। नूत्नम्, नूतनम्, नवीनम्। नश्च पुराणे प्रात्। पुराने वर्तमानात् प्रशब्दान् नप्रत्ययो भवति। चकारान् नप्तनप्खाश्च। प्रणम्, प्रत्नम्, प्रतनम्, प्रीणम्। भागरूपनामभ्यो धेयः प्रत्ययो वक्तव्यः। भागधेयम्। रूपधेयम्। नामधेयम्। मित्राच्छन्दसि। मित्रधेये यतस्व। आग्नीघ्रासाधरणादञ्। आग्नीघ्रम्। साधारणम्। स्त्रियां ङीप् आग्नीघ्री साधारणी। वाप्रकरनाच् च विकल्पन्ते एतान्युपसंख्यानानि, तेन यथाप्राप्तम् अपि भवति, आग्नीघ्रा शाला, साधारणा भूः इति। अयवसमरुद्भ्यां छन्दस्यञ् वक्तव्यः। आयवसे रमन्ते। मारुतं शर्धाः।
`छब्दस्यः` इति। सप्तवशाक्षरसमाहाराभिषायिनश्छप्दःशब्दात्? स्वार्थे यत्प्रत्ययो भवति। `द्वितीयाबहुवचनस्यालुक्` इति। अप्शब्दाद्द्वितीयाबहुवचनान्ताद्यति कृते `सुपो धातुप्रातपदिकयोः` 2|4|71 इति सुपो लुकि
गन्धोदकादिसमुदायोऽर्घः, तदर्थभुदकादिउअर्घ्यम्। च्छन्दस्य इति। यथा गायत्र्यादिवृतं च्छन्दःशब्दोऽभिधते, तथाऽऽश्रावयेत्यादिकमपि सप्तदशाक्षरसमाहारम्, तत्र वर्तमानाच्छन्दःशब्दात्स्वार्थे प्रत्ययः, व्यत्ययेन पुंल्लिङ्गता। द्वितीयाबहुवचनस्य लुगिति। छान्दसत्वात्। अत एव यदन्तात्प्रथमैकवचनं पुंल्लिङ्गं च भवति। अमुष्यशब्दो नडादिः, अमुष्यपुत्रशब्दो मनोज्ञादिः; उभयत्र षष्ठ।ल अलुगुपसंख्यायते। प्रत्ययप्रकरणे प्रासङ्गिकमेतत्, स चालुक् तयोरेव गणयोस्तथैव पाठात्सिद्धः। समशब्दादावतुप्रत्यय इति। उकार उगित्कार्यार्थः--समावती यज्ञस्याशीरिति ङीब् भवति। ठग्नीधः शरणे रण् भत्वं चऽ--आग्नीध्रम्, ततोऽञ्-आग्नीध्री। समानं धारणमस्य साधारणम्, अनेकं प्रत्यविशिष्टसम्बन्धम्। पृषोदरादित्वात्समानस्य सभावः, ततोऽञ् साधारणि। ङीबर्थं वचनम्। क्षेमशब्दाद्यो वक्तव्यः, यति हि सति ठ्यतोऽनावःऽ इत्याद्यौदातत्वं स्याद्, अन्तोदातत्वं चेष्यते ॥
सिद्धान्तकौमुदी
पादार्थमुदकं पाद्यम् । अर्घ्यम् ॥ ।नवस्य नू आदेशः त्नप्तनप् खाश्च प्रत्यया वक्तव्याः (वार्तिकम्) ॥ नूत्नम् । नूतनम् । नवीनम् ॥ ।नश्च पुराणे प्रात् पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः (वार्तिकम्) ॥ चात्पूर्वोक्ताः । प्रणम् । प्रत्नम् । प्रतनम् । प्रीणम् ॥ ।भागरूपनामभ्यो धेयः (वार्तिकम्) ॥ भागधेयम् । रूपधेयम् । नामधेयम् ॥ ।आग्नीध्रसाधारणादञ् (वार्तिकम्) । आग्नीध्रम् । साधारणम् । स्त्रियां ङीप् । आग्नीध्री । साधारणी ॥
पादार्घाभ्यां च - पादार्धाभ्यां च ।तादर्थ्ये य॑दिति शेषः । अध्र्यमिति । अर्धार्थमुदकमिति विग्रहः । अर्ध — पूजा ।मूल्ये पूजाविधावर्धः॑ इत्यमरः । नवस्येति । वार्तिकमिदम् । एते प्रत्यया अत्यन्तस्वार्थिकाः । नवीनमिति । नवशब्दात्खप्रत्यये, तस्य ईनादेशे प्रकृतेर्नूभावे, ओर्गुणः, अवादेशः । नश्च पुराणे प्रादिति । वार्तिकमिदम् । चात्पूर्वोक्ता इति । त्नप्, तनप्, ख इत्यर्थः । प्रीणमिति । खे रूपम् । भागरूपेति । वार्तिकमिदम् । आग्नीध्रेति । वार्तिकमिदम् । आग्नीध्रमिति । अग्नीधः शरणम् — आग्नीध्रम् । ततः स्वार्थे अञि आग्नीध्रमेव । अनेकं प्रत्यविशिष्टसम्बन्धं साधारणमुच्यते । ततः स्वार्थे अञि साधारणमित्येव । अञ्विधेः प्रयोजनमाह — स्त्रिया ङीबिति ।
पादार्घाभ्यां च - अध्र्यमिति ।मूल्ये पूजाविधावर्घः॑ इत्यमरः । पूर्वोक्ता इति । त्नप्तनप्खप्रत्यया इत्यर्थः ।आग्नीध्रसाधारणादञ् । आग्नीध्रमिति ।अग्नीधः शरणे रण् भं चे॑ति शैषिकेषु व्युत्पादितं, तच्चान्तोदात्तम्, ततः स्वार्थेऽनेनाऽञ् । आद्युदात्तत्वं फलम् । फलन्तारमप्याह — — स्त्रियामिति । आग्नीध्रीति.सालेति विशेष्यम् । समानं धारणमस्याः साधारणी । अनेकं प्रत्यविशिष्टसम्बन्धो भूम्यादिः । पृषोदरादित्वात्वात्समानस्य सभावः । विभाषाप्रकरणादञभावे टाप् । आग्नीध्रा शाला । साधारणा भूमिः । नन्वञभावपक्षे समानस्य सधारण इत्येव स्यान्न त्वत्रादिवृद्धिरिति चेत् । अत्राहुः — -॒साधारणाद॑ञित्यतएव निपातनात्, समानस्य साभावविधानाद्वा इष्टसिद्धिरिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.