Page loading... Please wait.
5|4|23 - अनन्तावसथेतिहभेषजाञ्ञ्यः
॥ तस्मै पाणिनये नमः ॥
5|4|23
SK 2091
अनन्तावसथेतिहभेषजाञ्ञ्यः   🔊
सूत्रच्छेदः
अनन्त-आवसथ-इतिह-भेषजात् (पञ्चम्येकवचनम्) , ञ्यः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
अनन्त-आवसथ-इतिह-भेषजात् ञ्यः
सूत्रार्थः
अनन्त, आवसथ, इतिह, भेषज - एतेभ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययः भवति ।
अनेन सूत्रेण चतुर्भ्यः शब्देभ्यः स्वार्थे ञ्य-प्रत्ययविधानम् क्रियते । समर्थानां प्रथमात् वा 4|1|82 इत्यत्र निर्दिष्टायां महाविभाषायाम् अयम् प्रत्ययः पाठितः अस्ति, अतः अयम् विकल्पेनैव भवति । इत्युक्ते, प्रत्ययं विना अपि शब्दप्रयोगः साधु एव ।

उदाहरणानि एतानि -

1. अनन्तः (infinite, unlimited, beyond the end) इत्येव
= अनन्त + ञ्य
→ आनन्त + य [तद्धितेष्वचामादेः7|2|117 इति आदिवृद्धिः]
→ आनन्त् + य [यस्येति च 6|4|148 इति अकारलोपः]
→ आनन्त्य

अनन्तः इत्येव आनन्त्यः

एवमेव -
2. आवसथः (निवासस्य स्थानम्, यथा गृहम्, आश्रमः, विश्रामगृहम्, hotel etc) इत्येव आवसथ्यः ।
3. इतिह (= इति इत्येव) इत्येव = एतिह्य ।
ज्ञातव्यम् - "इति" तथा "ह" एतयोः अव्यययोः एकत्ररूपेण उच्चारणं कृत्वा "इतिह" अयं शब्दः जायते । "ह" इत्यस्य अत्र कोऽपि विशिष्टः अर्थः नास्ति । यथा "ननु", "किल", "अपिच" , "स्म" एतादृशाः शब्दाः अर्थम् विना अपि वाक्यनिर्माणे प्रयुज्यन्ते, तथैव "ह" अयम् शब्दः अपि प्रयुक्तः दृश्यते ।
4. भेषजम् (औषधम्, medicine) इत्येव भैषज्यम् ।

अत्र महाविभाषया प्रत्ययः विकल्पेन विधीयते इति स्मर्तव्यम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनन्तादिभ्यः स्वार्थे ञ्यः प्रत्ययो भवति। अनन्त एव आनन्त्यम्। आवसथ एव आवसथ्यम्। इति ह ऐतिह्रम्। निपातसमुदायो ऽयम् उपदेशपारम्पर्ये वर्तते। भेषजम् एव भैषज्यम्। महाविभाषया विकल्पते प्रत्ययः।
`उपदेशपारम्पर्ये वत्र्तते` इति। ह स्मोपाध्यायः कथयति, इति ह स्म पिता कययतीत्यत्रैवा प्रयोगदर्शनात्॥
आवसन्त्येतमित्यावसथः, ठुपसर्गे वसेःऽ इत्यथप्रत्ययः। निपातसमुदायोऽयमिति। वचनाच्चाप्रातिपदिकादपि प्रत्ययः। उपदेशपारम्पर्ये वर्तते इति। तद्यथा--इति ह स्मोपाध्याः कथयन्तीति। भिषज्यतेः कण्ड्वादियगन्तात्किवपि भिषक, भिषज इदमित्यण्--भेषजम्, अस्मादेव निपातनादेकारः ॥
सिद्धान्तकौमुदी
अनन्त एवानन्त्यम् । आवसथ एवावसथ्यम् । इतिहेति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् ॥
अनन्तावसथेतिहभेषजाञ्ञ्यः - अनन्तावथेतिह । अनन्त, आवसथ, इतिह, भेषज एभ्यः स्वार्थे ञ्यप्रत्ययः स्यादित्यर्थः । अनन्त एवेति । अन्तोनाशः । तस्याऽभावः अनन्तः । अर्थाऽभावे अव्ययीभावेन तद्विकल्पस्योक्तत्वात् । आनन्त्यमिति । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गव्यतिक्रम । आवसथो-गृहम् । निपातसमुदाय इति । स च उपदेश परम्पर्ये वर्तते । तस्मात्स्वार्थे ञ्यः ।पारम्पर्योपदेशे स्यादैतिह्रमितिहाव्यय॑मित्यमरः । भैषज्यमिति । भैषजम्ौषधम्, तदेव भैषज्यम् ।भेषजौषधभैषज्यानी॑त्यमरः ।
अनन्तावसथेतिहभेषजाञ्ञ्यः - आवसथ इति ।उपसर्गे वसेः॑इत्यथप्रत्ययः । निपातसमुदाय इति । उपदेश पारम्पर्ये वर्तते, वचनाच्चाऽप्रातिपदिकादेव प्रत्ययः ।ऐतिह्रमितिहाऽव्यय॑मिति कोशः । भेषजमिति । भिषज्यतेः कण्ड्वादियगन्तत्क्विपे । भिषक् । भिषजामिदं भेषजम् । अस्मादेव निपातनादेकारः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.