Page loading... Please wait.
5|4|21 - तत्प्रकृतवचने मयट्
॥ तस्मै पाणिनये नमः ॥
5|4|21
SK 2089
तत्प्रकृतवचने मयट्   🔊
सूत्रच्छेदः
तत् (प्रथमैकवचनम्) , प्रकृतवचने (सप्तम्येकवचनम्) , मयट् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
तत् प्रकृतवचने मयट्
सूत्रार्थः
"प्राचुर्यम्" अस्मिन् सन्दर्भे प्रातिपदिकात् स्वार्थे मयट् प्रत्ययः भवति ।
"प्रकृत" इत्युक्ते "प्राचुर्येण प्रस्तुतम् / वैपुल्येन उपलब्धम्" (made available in ample amount / abundance - इत्याशयः) । प्रातिपदिकात् "प्रकृत" अस्मिन् सन्दर्भे स्वार्थे मयट्-प्रत्ययः भवति ।

यथा -
1. प्रकृतम् अन्नम् = अन्नमयम् । A lot of rice is called अन्नमय ।
2. प्रकृतम् अपूपम् = अपूपमयम् । a large number of pakoras are referred as अपूपमय ।
आदयः ।

स्त्रीत्वे वाच्ये प्रत्ययस्य टित्त्वात् टिड्ढाणञ्... 4|1|15 इति ङीप्-प्रत्ययः भवति । यथा - जलमयी नदी ।

विशेषः - इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4|1|82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितम् अस्ति । अतः अत्र प्रत्ययस्य विकल्पः विधीयते । इत्युक्ते, "प्रकृतम् अन्नम्" अस्मिन् अर्थे "अन्न" शब्दस्य प्रयोगः अपि भवितुम् अर्हन्ति, "अन्नमय" शब्दस्य प्रयोगः अपि भवितुम् अर्हति ।

अत्र एकः विशेष बिन्दुः ज्ञेयः । अस्मिन् सूत्रे "तत्" इति शब्दः "प्रथमासमर्थः" अस्ति इति अपि कैश्चन पण्डितैः स्वीक्रियते । अस्मिन् पक्षे प्रत्ययविधानम् "स्वार्थे" न भवति, अपितु प्रथमासमर्थात् "सप्तम्यर्थे" भवति । इत्युक्ते, "प्रकृतवचने" इति शब्दस्य अर्थः अत्र "प्राचुर्येण प्रस्तुतम् यस्मिन् सः" इति कृत्वा पदार्थस्य वैपुल्यम् यस्मिन् विद्यते, तस्य निर्देशार्थम् मयट्-प्रत्ययस्य प्रयोगः अत्र क्रियते । यथा -

1. प्रकृतम् अन्नम् यस्मिन् सः = अन्नमयः यज्ञः । A sacrifice that contains a lot of rice.
2. प्रकृतम् जलम् यस्मिन् तत् = जलमयम् स्थानम् । A place that contains lots of water.
3. प्रकृतानि रत्नानि रत्नम् यस्मिन् सः = रत्नमयः आकरः । A mine with abundant jewels.

अयम् अर्थः अपि समीचीनः एव । अत्र "वचन" शब्दे प्रयुक्तः ल्युट्-प्रत्ययः अधिकरणे प्रयुक्तः अस्ति इति मन्यते । तथा च, अस्मिन् पक्षे अपि महाविभाषा विधीयते । इत्युक्ते, प्राचुर्येण जलम् विद्यते यस्मिन् सः" इति वाक्यप्रयोगः अपि भवितुम् अर्हति, तथा च "जलमय" इति मयट्-प्रत्ययान्तशब्दम् अपि प्रयोक्तुम् शक्यते ।

एतादृशम् वर्तमानसूत्रस्य द्वौ अर्थौ भवतः ।

स्मर्तव्यम् - "प्राचुर्यम्" इत्यस्य अर्थः केवलं "विपुलं" इति नास्ति । कुत्रचित् विपुलरूपेण विद्यमानम् वस्तु अपि "प्राचुर्येण" नैव विद्यते । यथा, यदि कस्मिंश्चित् भोजनालये विपुलम् अन्नं पच्यते, परन्तु तत् सर्वेषां कृते पर्याप्तम् न भवति (a lot but still not sufficient इत्याशयः) तर्हि तत्र "अन्नमयः भोजनालयः" इति प्रयोगः नैव करणीयः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तदिति प्रथमासमर्थविभक्तिः। प्राचुर्येण प्रस्तुतं प्रकृतम्। प्रथमासमर्थात् प्रकृतोपाधिके ऽर्थे वर्तमानात् स्वार्थे मयट् प्रत्ययो भवति। टकारो ङीबर्थः। अन्नं प्रकृतम् अन्नमयम्। अपूपमयम्। अपरे पुनरेवम् सूत्रार्थम् आहुः। प्रक्र्तम् इति उच्यते ऽस्मिनिति प्रकृतवचनम्। तदिति प्रथमासमर्थात् प्रकृतवचने ऽभिधेये मयट् प्रत्ययो भवति। अन्नं प्रकृतम् अस्मिनन्नमयो यज्ञः। अपूपमयं पर्व। वटकमयी यात्रा। द्वयम् अपि प्रमाणम्, उभयथा सूत्रप्रणयनात्।
`प्राचुर्येण प्रस्तुतं प्रकृतम्` इति। कृतः पुनरयं विशेषो लभ्यते, यावता प्रस्तुतमात्रवचनः प्रकृतशब्दः वचनग्रहणादिह प्रकृत इति वक्तव्ये वचनग्रहणम्--यादृशस्य लोके प्रकृतस्य मयटो वचनं प्रत्ययान्तेन दृष्टं तत्रैव मयडथा स्यादित्येवमर्थम्। लोके च मयट्प्रत्ययान्तं रन्नमयादिशब्दैः प्रकृतस्य प्राचुर्यमुच्यत इति वचनग्रहणादेव विशेषो लभ्यते। `अपरे तु` इत्यादि। अत्र प्रकृत्यर्थादर्थान्तर एव प्रत्ययः। प्रकृतशब्देन प्रस्तुतमात्रमुच्यते। न तु प्राचुय्र्यविशिष्टं प्रकृतमित्येष विशेषः।`उभयथा` इत्यादि। उभयथाप्यस्मिन्नर्थे सूत्रस्य प्रणयनादित्यर्थः॥
प्राचुर्येण प्रस्तुतं प्रकृतमिति। यद्यपि प्रस्तुतमात्रवचनः प्रकृतशब्दः, तथापीह वचनग्रहणादयं विशेषो लभ्यते। वचनग्सरहणं हि यादृशस्य प्रकृतस्य लोके मयटा वचनं प्रत्यायनं तत्र यथा स्यादित्येवर्थम्। प्रथमासमर्थादिति। केन पुनः प्रथमान्तस्य सामर्थ्य प्रत्ययस्तावत्स्वार्थिकः? यद्यपि स्वार्थिकः, प्राचुर्यं तु तस्य द्योत्यम्। तच्च प्रकृत्यर्थगतमित्येतावदत्र सामर्थ्यम्। अपरे पुनरित्यादि। अत्र प्रकृत्यार्थादर्थान्तर एव प्रत्ययः, तत्पुनरर्थान्तरं ल्युटा प्रतिपादितम्। सप्तम्यर्थ उच्यमानता प्रकृतता च प्रकृत्यर्थविशेषणम्, तद्दर्शयति--अन्नं प्रकृतमस्मिन्नति। उभयथा सूत्रप्रणयनादिति। प्रकारद्वयसाधारण्येन सूत्रस्य प्रणयनादित्यर्थः। अत्र प्रथमे व्याख्याने तदिति विस्पष्टार्थम्; ठ्देवातल्ऽ इत्येवमादिवत्समर्थविभक्तेः सिद्धत्वात् ॥
सिद्धान्तकौमुदी
प्राचुर्येण प्रस्तुतं प्रकृतं तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आद्ये प्रकृतमन्नमन्नमयम् । अपूपमयम् । यवागूमयी । द्वितीये अन्नमयो यज्ञः । अपूपमयं पर्व ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनं प्रतिपादनम्। भावे अधिकरणे वा ल्युट्। आद्ये प्रकृतमन्नमन्नमयम्। अपूपमयम्। द्वितीये तु अन्नमयो यज्ञः। अपूपमयं पर्व॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.