Page loading... Please wait.
5|4|19 - एकस्य सकृच्च
॥ तस्मै पाणिनये नमः ॥
5|4|19
SK 2087
एकस्य सकृच्च  
सूत्रच्छेदः
एकस्य (षष्ठ्येकवचनम्) , सकृत् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
क्रियागणने  5|4|17 (सप्तम्येकवचनम्) , सुच्  5|4|18 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
क्रियागणने एकस्य सकृत्, सुच् च
सूत्रार्थः
क्रियायाः गणने कर्तव्ये "एक" शब्दात् सुच्-प्रत्ययः भवति, तथा च "एक" शब्दस्य "सकृत्" इति आदेशः अपि भवति ।
यदि काचित् क्रिया एकवारम् एव भवति, तर्हि तस्याः गणनायाः निर्देशार्थम् "एक" शब्दात् "सुच्" इति प्रत्ययः भवति, तथा च प्रक्रियायाम् "एक" शब्दस्य "सकृत्" इति आदेशः अपि भवति ।

सुच् प्रत्यये चकारस्य इत्संज्ञा, लोपः च भवति । सकारोत्तरः उकारः उच्चारणार्थः अस्ति । प्रक्रियायाम् केवलम् "स्" इत्यवशिष्यते । तस्यापि संयोगान्तस्य लोपः 8|2|23 इत्यनेन लोपः भवति, अतः "सकृत्" इत्येव अवशिष्यते । प्रक्रिया इयम् -

एकवारम् इत्येव
= एक + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः]
→ सकृत् + स् [इत्संज्ञालोपः]
→ सकृत् [संयोगान्तस्य लोपः 8|2|23 इति सकारलोपः]
→ सकृत्

यथा - देवदत्तः सकृत् भुङ्क्ते । एकवारम् भुङ्क्ते इत्याशयः ।


स्मर्तव्यम् -

1. यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4|1|82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितम् अस्ति, तथापि अत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - "आमादयः प्राङ्मयटः नित्याः" । इत्युक्ते, किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5|4|11 इत्यस्मात् आरभ्य वर्तमानसूत्रपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि सुच्-प्रत्ययान्तरूपम् एव प्रयोक्तव्यम् ।इत्युक्ते, "एकवारं भुङ्क्ते" विग्रहवाक्यम् प्रयोक्तव्यम्, नो चेत् "सकृत् भुङ्क्ते" इति तद्धितान्तशब्दः प्रयोक्तव्यः । परन्तु "एकवारं भुङ्क्ते" इति निर्देशयितुम् केवलम् "एकः भुङ्क्ते" इति प्रयोगः न साधु ।

2. अनेन सूत्रेण निर्मितः "सकृत्" शब्दः तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अव्ययसंज्ञकः भवति । अतः सर्वासु विभक्तिषु लिङ्गेषु वचनेषु च अस्य "सकृत्" इत्येव रूपं प्रयुज्यते । यथा - सीता सकृत् गच्छति; पुष्पाणि सकृत् विकसन्ति; वयं सकृत् ब्रूमः - आदयः ।

3. अस्मिन् सूत्रे "क्रिया" इति शब्दः अनुवृत्तिरूपेण स्वीक्रियते, अतः केवलम् "एकम् फलम्", "एकः वृक्षः" इत्येतेषु विषयेषु वर्तमानसूत्रस्य प्रयोगः न भवति । केवलम् क्रिया निर्दिश्यते चेदेव अस्य सूत्रस्य प्रयोगः कर्तव्यः ।

4. अनेन सूत्रेण उक्तः "सुच्" प्रत्ययः संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् 5|4|17 इत्यस्य अपवादरूपेण नैव विधीयते, यतः अत्र क्रियायाः अभ्यावृत्तिः नैव सम्भवति । When an action is done only once, there is no question of having a repetition. । अतएव अस्मिन् सूत्रे केवलम् "क्रियागणने" इत्यनुवर्तते, न हि "अभ्यावृत्तिः" इति ।

5. "सुच्" प्रत्यये चकारस्य इत्संज्ञा स्वरनिर्देशार्थम् अस्ति । तद्धितस्य 6|1|164 इत्यनेन चित्-प्रत्यये परे तद्धितान्तस्य अन्तिमः स्वरः उदात्तः भवति । यथा, "सकृत्" इत्यत्र ककारोत्तरः ऋकारः अनेन उदात्तत्वं प्राप्नोति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
एकशब्दस्य सकृतित्ययम् आदेशो भवति सुच् च प्रत्ययः क्रियागणेन। कृत्वसुचो ऽपवादः। अभ्यावृत्तिस् त्विह न सम्भवति। सकृद् भुङ्क्ते। सकृदधीते। एकः पाकः इत्यत्र न भवति, अनभिधानात्।
`सकृद्भुक्तम्` इति। `संयोगान्तस्य` 8|2|23 इति प्रत्ययसकारलोपः। चकारोऽन्तोदात्तार्थः। असति तु तस्मिन `इण्भीकापाशल्यतिमर्चिभ्यः कन्` (द।उ। 3।21) इति कन्प्रत्ययान्तत्वान्नित्स्वरेणैकशब्द आद्युदात्त इति स्थानिवद्भादादेशोऽप्याद्युदात्त एव स्यात्, चित्त्वादन्तोदात्तो भवति। अथैकः पाक इत्यत्र कस्मान्न भवति, अस्ति ह्रत्र क्रियागणनम्? इत्याह--`एकः पाकः` इत्यादि॥ बहुशब्देऽपि सामान्य एव; प्रकारेऽपि वृत्तेः। तत्रानेकक्रियाभ्यावृत्तेरविप्रकर्ष एव तावन्न्याय्यः, प्रकरणाद्यपेक्षश्च। कृत्वसुजापि न शक्नोत्यस्मिन्? विषये वर्त्तितुम्। तस्माद्विभाषाग्रहणं न कत्र्तव्यम्॥
सकृदिति । ठ्संयोगान्तस्य लोपःऽ इति सुचो लोपः। सुचश्चकारोऽत्राप्यन्तोदातार्थः, अन्यथा ठिण्बीकापाशल्यतिमर्चिभ्यः कन्ऽ इति कन्प्रत्ययान्त एकशब्द आद्यौदात इति तस्य स्थाने भवन्सकृच्छब्द आन्तर्यत आद्यौदातः स्यात्। एकः पाक इत्यत्रेत्यादि। अपर आह--ठभ्यावृत्तिग्रहणादेव सिद्धे पूर्वसूत्रे क्रियाग्रहणं क्रियाविशेषप्रतिपत्यर्थम्, तेन साध्यस्वभावैव क्रिया गृह्यते। पाकादिभिस्तु शब्दैः सिद्धस्वभावाऽभिधीयते, यादृशी च पूर्वसूत्रे क्रिया गृहीता तादृश्येवात्राप्यनुवर्ततेऽ इति। तत्र च पाकादिशब्दप्रयोगे प्रत्ययाभाव इति घञन्ताद्यन्तप्रयोगेऽपि कृत्वोऽर्थप्रत्ययः क्वचित् लिङ्गाद् ठ्द्विर्वचनेऽचिऽ इति साधनीयो मनीषिभिः ॥
सिद्धान्तकौमुदी
सकृदित्यादेशः स्याच्चात्सुच् । सकृद्भुङ्क्ते । संयोगान्तस्य (कौमुदी-54) इति सुचो लोपः न तु हल्ङ्याप्--(कौमुदी-252) इति । अभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् ॥
एकस्य सकृच्च - एकस्य सकृच्च । शेषपूरणेन सूत्रं व्याचष्टे — सकृदित्यादेशः स्यादिति । सकृद्भुङ्क्ते इति । एकशब्दात्सुच्, प्रकृतेः सकृदित्यादेशश्च । अत्र एकशब्दः क्रियाविशेषणम् ।एकत्वविशिष्टा भुजिक्रियेत्यर्थः ।स्वादु पचती॑त्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते इदं सूत्रमिति कैयटः । "एको भुङ्क्ते" इत्यत्र तु नायं विधिः प्रवर्तते, क्रियाग्रहणमनुवर्त्त्य क्रियाविशेषणस्यैव एकशब्दस्य ग्रहणादित्यास्तां तावत् । ननुसंयोगान्तस्ये॑ति सुचो लोप इत्यनुपपन्नम् । "हल्ङ्याब्भ्यः" इत्येव हि सुलोपोऽत्र युक्तः तस्मिन्कर्तव्ये संयोगान्तस्ये॑ति सुचो लोप इत्यनुपपन्नम् । "हल्ङ्याब्भ्यः" इत्येव हि सुलोपोऽत्र युक्तः, तस्मिन्कर्तव्ये संयोगान्तलोपस्य त्रैपादिकस्याऽसिद्धत्वादित्यत आह — नतु हल्याङ्यबितीति । सिच इवेति ।अभैत्सी॑त्यत्रि सिचो लोपनिवृत्तयेहल्ङ्या॑वित्यत्र सिग्रहणेन सिचो न ग्रहणं, तत्साहचर्यात्सुग्रहणेनापि सुजयं न गृह्रत इति भावः ।
एकस्य सकृच्च - एकस्य सकृच्च । अभ्यावृत्तिरिति न संबध्यते, एकशब्देन ह्रेकैव क्रियाव्यक्तिराख्यायते, तस्यास्त्वावृत्तेरसंभवात् । क्रियाग्रहणमिहार्थमावश्यकम्, अन्यथाआ दशतः सङ्ख्या सङ्ख्येये वर्तते॑इत्येको भुङ्क्ते इत्यत्रापि स्यादिति । इह साधु पचतीत्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते सकृच्छब्दप्रयोगार्थमिदं सूत्रमिति कैयटः ।एकः पाक॑इत्यत्र तु अनभिधानान्नेति काशिका । संयोगान्तस्येति ।हल्ङ्यादिना सुलोप॑इति प्राचो ग्रन्थोऽयुक्त इत्याह — -न त्विति ।सुतिसी॑ति साहचर्याद्विभक्तय एव तत्र गृह्रन्त इथ्यभिप्रेत्याह — -सिच इवेति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
एकस्य सकृच्च (2296) (सुचोऽधिकरणम्) (अभ्यावृत्तिपदार्थबोधकभाष्यम्) सकृदादेशेऽभ्यावृत्तिग्रहणं निर्वत्यम्। किं प्रयोजनम्? पुनः पुनरावृत्तिरभ्यावृत्तिः, न चैकस्य पुनः पुनरावृत्तिर्भवति।। (एकदेशिनः क्रियाग्रहणानुवृत्तौ फलभाष्यम्) अथ क्रियाग्रहणमनुवर्तत उताहो न? किं चार्थोऽनुवृत्त्या? बाढमर्थः। इह मा भूत् ‐ एको भुङ्क्त इति।। (क्रियाग्रहणानुवृत्तावाक्षेपभाष्यम्) अथानुवर्तमानेऽपि क्रियाग्रहण इह कस्मान्न भवति ‐ एकः पाक इति।। (प्रतिबन्द्युत्तरभाष्यम्) पूर्वयोश्चापि योगयोः कस्मान्न भवति ‐ द्वौ पाकौ, त्रयः पाकाः, चत्वारः पाकाः, पञ्ञ्च पाकाः, दश पाका इति? नैतत् क्रियागणनम्। किं तर्हि? द्रव्यगणनमेतत्। कथम्? कृदभिहितो भावो द्रव्यवद्भवतीति।। इहापि तर्हि द्रव्यगणनान्न प्राप्नोति ‐ सकृद्भुक्त्वा ‐ सकृद्भोक्तुमिति। पूर्वयोश्चापि योगयोः ‐ द्विर्भुक्त्वा ‐ द्विर्भोक्तुम्, त्रिर्भुक्त्वा ‐ त्रिर्भोक्तुम्, पञ्ञ्चकृत्वो भुक्त्वा ‐ पञ्ञ्चकृत्वो भोक्तुम्, दशकृत्वो भुक्त्वा ‐ दशकृत्वो भोक्तुमिति द्रव्यगणनान्न प्राप्नोति।। (पुनः पुनरावृत्तावित्यर्थे दोषभाष्यम्) यदि खल्वपि पुनः पुनरावृत्तिरभ्यावृत्तिर्द्विरावृत्ते सकृदिति स्यात्, त्रिरावृत्ते द्विरिति।। (अभ्यावृत्तिपदार्थबोधकभाष्यम्) एवं तर्ह्यनुवर्तते ‐ अभ्यावृत्तिग्रहणम्। न तु पुनः पुनरावृत्तिरभ्यावृत्तिः। किं तर्हि? अभिमुखी प्रवृत्तिरभ्यावृत्तिः। पूर्वा च परे प्रत्यभिमुखी, परे च पूर्वां प्रत्यभिमुख्यौ।। (क्रियाग्रहणानुवृत्तावपि दोषाभावोपपादकभाष्यम्) यदप्युच्यते ‐ अनुवर्तमानेऽपि क्रियाग्रहण इह कस्मान्न भवति ‐ एकः पाक इति, पूर्वयोश्चापि योगयोः ‐ द्वौ पाकौ, त्रयः पाकाः, चत्वारः पाकाः, पञ्ञ्च पाकाः, दश पाका इति। परिहृतमेतत् ‐ नैतत् क्रियागणनम्। किं तर्हि? द्रव्यगणनमेतत्। कृदभिहितो भावो द्रव्यवद्भवतीति। ननु चोक्तमिहापि तर्हि द्रव्यगणनान्न प्राप्नोति-सकृद्भुक्त्वा, सकृद्भोक्तमिति ‐ पूर्वयोश्चापि योगयोः ‐ द्विर्भुक्त्वा ‐ द्विर्भोक्तुम्, त्रिर्भुक्त्वा ‐ त्रिर्भोक्तुम्, पञ्ञ्चकृत्वो भुक्त्वा ‐ पञ्ञ्चकृत्वो भोक्तम्, दशकृत्वो भुक्त्वा ‐ दशकृत्वो भोक्तुमिति ‐ द्रव्यगणनान्न प्राप्नोतीति। नैष दोषः। क्रियागणनाद्भविष्यति। कथम्? कृदभिहितो भावो द्रव्यवदपि क्रियावदपि यद्यपि।।