Page loading... Please wait.
5|4|18 - द्वित्रिचतुर्भ्यः सुच्
॥ तस्मै पाणिनये नमः ॥
5|4|18
SK 2086
द्वित्रिचतुर्भ्यः सुच्  
सूत्रच्छेदः
द्वि-त्रि-चतुर्भ्यः (पञ्चमीबहुवचनम्) , सुच् (प्रथमैकवचनम्)
अनुवृत्तिः
क्रिया-अभ्यावृत्तिगणने  5|4|17 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
द्वि-त्रि-चतुर्भ्यः क्रिया-अभ्यावृत्तिगणने सुच्
सूत्रार्थः
क्रियायाः पौनःपुन्यस्य गणनार्थम् "द्वि", "त्रि" तथा "चतुर्" एतेभ्यः शब्देभ्यः "सुच्" प्रत्ययः भवति ।
"अभ्यावृत्तिः" इत्युक्ते पौनःपुन्यम् (repetition) । यत्र काचन क्रिया पुनः पुनः भवति, तत्र तस्याः क्रियायाः आवर्तनस्य गणनार्थम् सङ्ख्यावाचकशब्दात् संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् 5|4|17 इत्यनेन औत्सर्गिकरूपेण "कृत्वसुच्" इति प्रत्ययः स्वार्थे विधीयते । परन्तु "द्वि", "त्रि", तथा "चतुर्" एतेभ्यः शब्देभ्यः "कृत्वसुच्" प्रत्ययस्य अपवादस्वरूपेण "सुच्" इति प्रत्ययः भवति ।

यथा -

1. द्विवारं भुङ्क्ते इत्येव
= द्वि + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः]
→ द्वि + स् [चकारस्य हलन्त्यम् 1|3|3 इति इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः । उकारः उच्चारणार्थः, तस्यापि लोपः भवति । ]
→ द्विः [ससजुषो रुँः 8|2|66 इति रुत्वम् । खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]
यथा - द्विः भुङ्क्ते ।

2. त्रिवारं भुङ्क्ते इत्येव
= त्रि + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः]
→ त्रि + स् [चकारस्य हलन्त्यम् 1|3|3 इति इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः]
→ त्रिः [ससजुषो रुँः 8|2|66 इति रुत्वम् । खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]
यथा - त्रिः भुङ्क्ते ।

3. चतुर्वारं भुङ्क्ते इत्येव
= चतुर् + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः]
→ चतुर् + स् [चकारस्य हलन्त्यम् 1|3|3 इति इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः]
→ चतुर् [रात्सस्य 8|2|24 इति सकारलोपः]
→ चतुः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]
यथा - चतुः भुङ्क्ते ।


स्मर्तव्यम् -

1. अनेन सूत्रेण सिद्धाः "द्विः", "त्रिः", "चतुः" एते शब्दाः तद्धितश्चासर्वविभक्तिः 1|1|38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

2. "सुच्" प्रत्यये चकारस्य इत्संज्ञा स्वरनिर्देशार्थम् अस्ति । तद्धितस्य 6|1|164 इत्यनेन चित्-प्रत्यये परे तद्धितान्तस्य अन्तिमः स्वरः उदात्तः भवति । यथा, "द्विः" इत्यत्र वकारोत्तरः इकारः अनेन उदात्तत्वं प्राप्नोति ।

3. यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4|1|82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितम् अस्ति, तथापि अत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - "आमादयः प्राङ्मयटः नित्याः" । इत्युक्ते, किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5|4|11 इत्यस्मात् आरभ्य एकस्य सकृच्च 5|4|19 इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि सुच्-प्रत्ययान्तरूपाणि एव प्रयोक्तव्यानि ।इत्युक्ते, "द्वौ वारौ भुङ्क्ते" इति विग्रहवाक्यम् प्रयोक्तव्यम्, नो चेत् "द्विः भुङ्क्ते" इति तद्धितान्तशब्दः प्रयोक्तव्यः । परन्तु "द्वौ वारौ भुङ्क्ते" इति निर्देशयितुम् केवलम् "द्वौ भुङ्क्ते" इति प्रयोगः न साधु ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
द्वि त्रि चतुरित्येतेभ्यः सङ्ख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः सुच् प्रत्ययो भवति। कृत्वसुचो ऽपवादः। द्विर्भुङ्क्ते। त्रिर्भुङ्क्ते। चत्रुभुक्तम्। चकारः स्वरार्थः।
`चतुर्भुक्तम्` इति। `रात्? सस्य` 8|2|24 इति सकारलोपः। `चकारः स्वरार्थः` इति। प्रकृतेरन्तोदात्तत्वं यता स्यादिति। प्रत्ययस्य तु चकारः स्वरार्थं नोपपद्यते; तस्यानच्कत्वात्। चतुःशब्दमेव प्रकृतं प्रति चकारस्य स्वरार्थत्वम्, नोत्तरयोः; तयोरुदात्तत्वात्। चतुःशब्दस्तु `चतेरुरन्` (द।उ।8।78) इत्युरन्प्रत्ययान्तत्वान्नित्स्वरेणाद्युदात्तः॥
सकृदिति। ठ्रात्सस्यऽ इति सुचो लोपः। सुचश्चकारः स्वरार्त इति। ठ्चितः सप्रकृतेर्बह्वकजर्थम्ऽ इति वचनाच्चतुरित्यस्यान्तोदातो भवति; अन्यथाठ्चतेरुरन्ऽ इत्युरन्प्रत्ययान्तत्वादाद्यौदातः स्यात् ॥
सिद्धान्तकौमुदी
कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः । रात्सस्य (कौमुदी-280) । चतुः ॥
द्वित्रिचतुर्भ्यः सुच् - द्वित्रिचतुभ्र्यः । क्रियाभ्यावृत्तिगणने इत्येव । सुचि चकार इत्, उकार उच्चारणार्थः । पूर्ववदव्ययत्वम् । त्रिरिति । भुङ्क्ते॑ इत्यनुषज्यते । रादिति । चतुर्शब्दात्सुचि चतुर्स् इति स्थितेरात्सस्ये॑ति सकारस्य लोपे चतुरिति रूपमित्यर्थः । अत्र "भुङ्क्ते" इत्यनुषज्यते ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.