Page loading... Please wait.
5|4|159 - नाडीतन्त्र्योः स्वाङ्गे
॥ तस्मै पाणिनये नमः ॥
5|4|159
SK 896
नाडीतन्त्र्योः स्वाङ्गे   🔊
सूत्रच्छेदः
नाडीतन्त्र्योः (षष्ठीद्विवचनम्) , स्वाङ्गे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्ताद् बहुव्रीहेः कप् प्रत्ययो न भवति। बह्व्यः नाड्यः अस्य बहुनाडिः कायः। बहुतन्त्री ग्रीवा। धमनीवचनस् तन्त्रीशबः। स्वाङ्गे इति किम्? बहुनाडीकः स्तम्भः। बहुतन्त्रीका वीणा।
Text Unavailable. Please use feedback link below to provide the text if you have.
नाडीशब्दो जातिलक्षणङीषन्तः। तन्त्रीशब्दः ठवितृस्तृतन्त्रिभ्य ईःऽ इतीकारान्तः। बहरुनाडिरिति। उपसर्जनह्रस्वम्। बहुतन्त्रीरित्यत्र तु ठ्कृत्स्त्रियाः प्रतिषेधःऽ इति वचनान्न भवति ॥
सिद्धान्तकौमुदी
स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कप् न स्यात् । बहुनाडिः कायः । बहुतन्त्रीर्ग्रीवा । तन्त्रीर्धमनी । स्त्रीप्रत्ययान्तत्वाभावाद्ध्रस्वो न । स्वाङ्गे किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥
नाडीतन्त्र्योः स्वाङ्गे - नाडीतन्त्र्योः स्वाङ्गे । बहुनाडिः काय इति । प्राणिस्थत्वात्स्वाङ्गत्वसूचनायकाय इति विशेष्यम् । उपसर्जह्यस्वः ।नद्यृतश्चे॑ति प्राप्तः कब्न भवति । बहुतन्त्रीग्र्रीवेति । बह्व्यस्तन्त्र्यो यस्या इति विग्रहः । वीणातन्तुषु तन्त्रीशब्दस्य प्रसिद्धत्वादाह — तन्त्रीर्धमनीति । बहुतन्त्रीशब्देगोस्त्रियो॑रिति ह्यस्वमाशङ्क्याह — स्त्रीप्रत्ययान्तत्वाऽभावादिति ।अवितृस्तृतन्त्रीभ्य ईः॑ इत्यौणादिकस्यस्त्रिया॑मित्यधिकारेऽविहितत्वादिति भावः ।
नाडीतन्त्र्योः स्वाङ्गे - बहुनाडिरिति । उपसर्जनह्यस्वः । स्त्रीप्रत्ययान्तत्वाभावादिति ।अवितृस्तृतन्त्रिभ्यः॑इतीप्रत्ययस्यस्त्रिया॑मित्यधिकारेऽविहितत्वादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.