Page loading... Please wait.
5|4|153 - नद्यृतश्च
॥ तस्मै पाणिनये नमः ॥
5|4|153
SK 833
नद्यृतश्च  
सूत्रच्छेदः
नद्यृतः (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
नद्यन्तात् बहुव्रीहेः ऋकारान्तात् च कप् प्रत्ययो भवति। बह्व्यः कुमार्य अस्मिन् देशे बहुकुमारीकः देशः। बहुब्रह्मबन्धूकः। ऋतः खल्वपि बहुकर्तृकः। तकारः मुखसुखार्थः।
Text Unavailable. Please use feedback link below to provide the text if you have.
नद्यन्ताद्बहुव्रीहेरिति। अत्रान्तशब्द उतरपदे वर्तते, नद्यौतरपदाद्बहुव्रीहेरित्यर्थः। यद्वा--बहुव्रीह्यर्थमुतरपदं बहुव्रीहिः, तस्मान्नद्यन्तादित्यर्थः। किं सिद्धं भवति? बहुग्रामणीर्नगरी,बहुखलपूर्नगरीत्यत्र कब् निवर्तितो भवति ॥
सिद्धान्तकौमुदी
नद्युत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहेः कप्स्यात् । पुंवद्भावः ॥
नद्यृतश्च - नद्यृतश्च । नदी च ऋच्चेति समाहारद्वन्द्वात्पञ्चमी ।बहुव्रीहौ सक्थ्यक्ष्णो॑रित्यतो बहुव्रीहावित्यनुवृत्तं पञ्चम्या विपरिणम्यते । तदाक्षिप्तमुत्तरपदं नद्यृद्भ्यां विशेष्यते । तदन्तविधिः । "उरः प्रभृतिभ्यः" इत्यतः कबित्यनुवर्तते । तदाह — नद्युत्तरपदादिति । नद्यन्तोत्तरपदादित्यर्थः । कप् स्यादिति । तद्धितः समासान्तश्चेत्यपि बोध्यम् । तथाच कल्याणी पञ्चमी यस्य पक्षस्येति विग्रहे बहुव्रीहौ सति व्यपदेशिवत्त्वेन पञ्चम्युत्तरपदस्य नद्यन्तत्वात्तदुत्तरपदकबहुव्रीहेः कविति भावः ।नद्यन्ताद्बहुव्रीहे॑रिति न व्याख्यातं, बहुधीवरीति बहुव्रीहेर्नद्यन्तत्वात्कबापत्तेः ।नद्यन्तोत्तरपदा॑दिति व्याख्याने तु न दोषः, धीवन्शब्दयोत्तरपदस्य नकारान्तत्वेन नदीत्वाऽभावादिति शब्देन्दुशेखरे विस्तरः । पुंवद्भाव इति । पूरण्या रात्रेः समासवाच्यत्वाऽभावेन निषेधाऽभावादिति भावः ।
नद्यृतश्च - नद्युत्तरपदादिति ।नद्यन्ता॑दिति नोक्तं, कप्रत्ययेन सह समासे कृते बहुव्रीहेरनद्यन्तत्वात् । उत्तरपदं तु नद्यन्तं भवत्येव,समासे अन्तः समासान्तः॑इति पक्षाश्रयणादिति बोध्यम् । दृढमिति । अदाढर्निवृत्तिमात्रपरत्वेनात्र दृढशब्दप्रयोगान्न लिङ्गविशेषविवक्षेति भावः । लिङ्गविशेषविवक्षायां तु दृढभक्तिरित्यादिसिद्धये प्रियादिषु भक्तिशब्दपाठः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.