Page loading... Please wait.
5|4|148 - उद्विभ्यां काकुदस्य
॥ तस्मै पाणिनये नमः ॥
5|4|148
SK 886
उद्विभ्यां काकुदस्य   🔊
सूत्रच्छेदः
उद्विभ्याम् (पञ्चमीद्विवचनम्) , काकुदस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उत् वि इत्येताभ्यां परस्य काकुदशब्दस्य लोपो भवति बहुव्रीहौ समासे। उद्गतं काकुदम् अस्य उत्का कुत्। विकाकुत्। तालु काकुदम् उच्यते।
`उत्काकुत्, विकाकुत्` इति। अन्त्यस्य लोपे कृते `वाऽवसाने` 8|4|55 इति चत्र्वम्। ननु च `आदेः परस्य` 1|1|53 इत्यादिलोपेन भवितव्यम्, तत्कथमन्त्यस्य भवति? अन्त्यवचनो ह्रवयववचनोऽपि, स नियतदेशावयवमाचष्ट इत्युक्तम्। तत्र यद्यादेः स्यात्, समासान्तता नोपपद्यते॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु ॥
उद्विभ्यां काकुदस्य - उद्विभ्यां काकुदस्य । लोप इति । उद्विभ्यां परस्य काकुदस्य लोपः स्याद्बहुव्रीहावित्यर्थः । उत्काकुदिति । उन्नतं काकुदं यस्येति विग्रहः । काकुदशब्दं व्याचष्टे-काकुदं ताल्विति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
लोपः स्यात्। उत्काकुत्। विकाकुत्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.