Page loading... Please wait.
5|4|147 - त्रिककुत् पर्वते
॥ तस्मै पाणिनये नमः ॥
5|4|147
SK 885
त्रिककुत् पर्वते   🔊
सूत्रच्छेदः
त्रिककुत् (प्रथमैकवचनम्) , पर्वते (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
त्रिककुदि बहुव्रीहौ ककुदशब्दस्य लोपः समासान्तो निपात्यते पर्वते ऽभिधेये। त्रीणि ककुदान्यस्य त्रिककुत् पर्वतः। ककुदाकारं पर्वतस्य शृङ्गं ककुदम् इत्युच्यते। न च सर्वस्त्रिशिखरः पर्वतः त्रिककुत्। किं तर्हि? संज्ञैषा पर्वतविशेषस्य। पर्वते इति किम्? त्रिककुदो ऽन्यः।
अनवस्थार्थमिदम्। पर्वतेऽन्यपदार्ते मुख्यं ककुटं न सम्भवति; उच्यते चेदम्--त्रिककुत्? पर्वत इति। तत्र सामथ्र्यात्ककुदाकारे पर्वतशिखरे सादृश्यात्? ककुदशब्दो वत्र्तते, तस्येदं ग्रहणं ककुदाकाराणि श्रृङ्गाणि तस्य सर्वस्य त्रिककुदभिधानं प्राप्नोति? अत--`न च` इत्यादि। `उच्यते` इति प्रकृतेन सम्बन्धः। `संज्ञैषा` इत्यादि। एतेन यस्यैषा संज्ञा त्रिककुच्छब्देनोच्यत इति तद्दर्शयति। एतच्च निपातनात्? `स्त्रियां संज्ञायाम्` 5|4|143 इत्यतः संज्ञाग्रहणानुवृत्तेर्लभ्यते। ननु चाभिधेयनियमोऽपि तत एव लभ्यत इति पर्वतग्रहणं न कत्र्तव्यम्? नैतदस्ति; शैलीयमाचार्यस्य यत्? प्रसद्धेष्वपि नित्यरेष्वभिधेयनिमित्तमाचष्टे, यथा--`पुष्यसिद्ध्यौ नक्षत्रे` 3|1|116 इति,किं पुनर्यत्र प्रसिद्धिर्नास्ति! सा तु लौकिकी॥
पर्वतेऽन्यपदार्थे मुख्यस्य ककुदस्यासम्भवादाह--ककुदाकारं श्रृङ्गमित्यादि। न चेत्यादि। उच्यत इत्यस्यानुषङ्गः। संज्ञैषेत्यादि। एतच्च निपातनाल्लभ्यते। एवं च पर्वतग्रहणं विस्पष्टार्थम् ॥
सिद्धान्तकौमुदी
त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञैषा पर्वतविशेषस्य । त्रिककुदोऽन्यः ॥
त्रिककुत् पर्वते - त्रिककुत्पर्वते । पर्वतविशेषे गम्ये इत्यर्थः । त्रिककुदिति कृताऽकारलोपो निपात्यते । त्रीणि ककुदानि श्रृङ्गाणि यस्येत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.