`तत्र तेनेदमिति सरूपे` इत्ययं बहुव्रीहिर्गृह्रते` इति। अस्यैव कर्मध्यतिहारे वृत्तेः `केशाकेशि` (इति) `अन्येषामपि दृश्यते`
6|3|136 इति दीर्घः। तिष्ठद्गुप्रभृतिष्विच्प्रत्यस्य पाठादव्ययीभावसंज्ञा, अव्ययीभावश्च समासोऽव्ययसंज्ञो भवतीति। तेन सुब्लुग्भवतीति भावः। इचश्चित्करणं विशेषार्थम्। यदि ह्रत्र चकारो न क्रियते, तदा तिष्ठद्गुप्रभृतिष्वपीकारमात्रं पठएत, तदेकारमात्रस्यापि ग्रहणं स्यात्॥